Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक ः ३, मूलं: ९४, [भा. १६४४]
४५३ सम्प्रतिसप्तानामपिसत्राणांसंभवविषयमाह[भा.१६४५] अहवा जो आगाढं वंदनआहारमादिसंगाहितो ।
__कप्पंकुणइअकप्पंविविहेहिंय रागदोसेहिं ।। [भा.१६४६] माईकुणइअकजं को माईजोभवे मुसावाई।
कोपुन मुसावाईअसुईपावसुयजीवी ।। · वृ- अथवेति सूत्रव्याख्याप्रकारान्तरोपदर्शने यो वन्दनादिभिः । वन्दनवैयावृत्यादिना आहारादिभिराहारोपधिशय्यादिभिरागाढमत्यर्थं संगृहीतः सन् विविधैश्च रागद्वेषैः प्रागुक्तस्वरूपैः कल्प्यमप्याभाव्यमप्यकल्प्यमनाभाव्यं करोति ।सप्तानामपि सूत्राणां विषयःमाईकुणइइत्यादिकः । पुनरेवमकार्यं कल्प्यमप्यनाभाव्यमप्पाभाव्यमित्यर्थः करोति । एवं शिष्यस्य प्रश्रमाशङ्कतसूत्रकृदाहमायीमायावान्कोमायीततआह-योभवेत्मृषावादीकः पुनर्मूषावादीततआह-अशुचिःकोऽशुचिः । सूत्रकृदाह-पापजीवी एतस्य व्याख्यानं पापश्रुतोपजीवी इत्यर्थः । कोण्टलादिशास्त्रोपजीवीत्यर्थः । [भा.१६४७] किह पुन कज्जमकज्जंकरेज्ज आहारमादिसंगहितो ।
जह कम्मिविनगरम्मी उप्पणं संघकज्जंतु ।। वृ-कथं पुनराहारादिसंगृहीतः सन्कार्यमकार्यमुपलक्षणमेतत् अकार्यमपि कार्यं करोति । अत्रसूरि निदर्शनमाह-यथाकस्मिन्नगरेकिमपिसङ्घकार्यमुत्पन्नंसचित्तादिनिमित्तं वास्तव्यसङ्घस्यव्यवहारो जात इत्यर्थः ।सचवास्तव्यसंधेनच्छेत्तुंनशक्यते । [भा.१६४८] बहुसुयपरिवारोय आगतो तत्थ कोइआयरितो ।
तेहिंयनागरगेहिंसोउनियत्तोउववहारे ।। वृ-अन्यदा कोऽप्याचार्यो वहुश्रुतो बहुपरिवारस्तत्रनगरेसमागतः । स चतैनागरकैर्नगरवास्तव्येन सङ्घनेत्यर्थः । नियुक्तो व्यवहारे बहुश्रुतस्त्वमत एतंव्यवहारंच्छिंद्धि । [भा.१६४९] नाएणच्छिन्नेववहारे कुलगणसंघेण कीरइपमाणं ।
तोसेविउंपवत्ताआहारादीहिं कज्जिया ।। वृ- एवमुक्ते तेन न्यायेन श्रुतोपदेशेन व्यवहारच्छिन्नस्ततः कुलगणसङ्घन सप्रमाणं क्रियते । एष बहुश्रुतोनच श्रुतोत्तीर्णं किमपिवदति, तस्माद्यदेषभाषते तत्प्रमाणमिति । एवं च प्रमाणीकृतेतस्मिन् श्रावकसिद्धपुत्रादयः कार्यिकादयस्तत्कार्यार्थिनःसन्तस्तमाहारादिभिः सेवितुंप्रवृत्ताः सेवनान्याहारादीनि दीयमानानि गृह्णाति। [भा.१६५०] तोच्छिंदिउँपउत्तो निस्साएतत्थसोउववहारं ।
पच्चत्थीहिंनायंजहिंच्छिंदइएस निस्साए ।। वृ-ततः आहारादिग्रहणानन्तरं स तत्र नगरे व्यवहारं निश्रया पक्षपातेन च्छेत्तुं प्रवृत्तः । ततो ये आहारादिकंनदत्तवन्तस्ते तस्य प्रत्यर्थिनस्तैः प्रत्यर्थिभितिं यथाएष व्यवहारंनिश्रयाच्छिनत्ति । [भा.१६५१] कोनुहुहवेज्ज अन्नोजो नाएणंनएज्ज ववहारं ।
अह अन्नयसमवाओघुठो वा आयोयतत्थ विद ।। वृ-ततस्ते प्रत्यर्थिनश्चिन्तयन्ति को नु हु निश्चितं भवेदन्यो गीतार्थो यो न्यायेन व्यवहारं नयेत् । अथान्यदा सचित्तादिव्यवहारच्छेदार्थं सङ्घसमवायो घुष्टो घोषितः सङ्घसमवायघोषणं श्रुत्वा तथा सङ्घसमवायविदः (दू) विद्वान् सूत्रार्थतदुभयकुशलोऽन्यः प्राघूर्णकः कोऽपि समागतः । इह समवायघोषणामाकर्ण्य धूलीधूसरैरपि वादैरवश्यमागन्तव्यमन्यथा प्रायश्चित्तमित्येतदधुना प्रतिपादयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482