Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ३, मूलं : ७५, [भा. १५६५]
४३७ पाक्षिकाणामन्तिके केवलं तान् संयमयोगेष्वभ्युत्थाप्य एतावता संविग्नेति व्याख्यातं । अधुना असंविनेत्यादिव्याख्यायते असंविग्नात् सारुपिकान् संयतरुपधारिणः सिद्धपुत्रप्रच्छन्नान् सिद्धपुत्रान् पश्चात्कृतांश्चाश्रयेत् ।कथंभूतानित्याह-प्रतिक्रान्ताभ्युत्थितान् असंयमव्यापारान्प्रतिक्रान्तान्संयम प्रत्यभ्युत्थितान्तेषामप्यसतिअभावेअन्यत्रयत्रतेनज्ञायन्तेतत्रगत्वातेषामन्तिकैअधीतेनअन्यत्र, तेषामगमने तत्रैव पठेत् । यत्र ते स्वव्यापारेण स्थिता वर्तन्ते । इयमत्र भावना-पार्श्वस्थादीनां संविग्नपाक्षिकाणामभावेयेपूर्व संविग्नागीतार्था असीरन्तेषां पश्चात्कृतानांपुनः प्रतिक्रान्ताभ्युत्थितानामन्तिकेगृह्णीयात्तेषामप्यभावेसंयमयोगप्रत्यम्युत्थितानांसिद्धपुत्राणामंतिकेएषामप्यभावेऽन्यत्र तान् संयरुपकान् कृत्वा तेषामंतिके अन्यत्रागमने तत्रैव तान् तथारुपान् कृत्वा सागारिकाणामभावे तेषामन्तिकेऽधीते । एतदेवाह[भा.१५६६] सगणेपरगणेवामनुन अन्नेसि वा विअसतीए ।
संविग्ग पक्खिएसुंसरुविसिद्धेसुपढमंतु ।। वृ-स्वगणे गणधरपदानहगीतार्थानामन्तिके परगणे वा मनोज्ञे सांभोगिके तदभावे अन्येषां वा असांभोगिकानामन्तिके तेषामप्यसत्य भावे संविज्ञपाक्षिकेषु पार्श्वस्थादिषु प्रथममेव प्रतिक्रान्ताभ्युत्थितेषुतेषामप्यभावेसरुपिषुप्रतिक्रान्ताभ्युत्थितेषुपश्चात्कृतेषुतेषामप्यभावप्रथममेव स्वरुपिषु सिद्धेषु सिद्धपुत्रेषुएतत्प्रतिक्रान्ताभ्युत्थितानधिकृत्योक्त, तद्भावेऽन्यत्र विधिमाह[भा.१५६७] मुंडंवधरेमाणे सिहंच फेडत अनिच्छससिहेवि ।
लिंगेन मसागारिएवंदनगादीणहावेति ।। वृ-तेपश्चात्कृतादयोयदिन प्रतिक्रान्ताभ्युत्थिताः किन्तुलिङ्गतो गृहस्थावर्तन्ते अन्यत्रगत्वा तान् मुण्डं वा धरमाणान् धारयतः कारयति, यदि पुनः सशिखाकाः सन्ति, ततः शिखां स्फेटयति । अथ शिखास्फेटनं ते नेच्छन्ति ततः सशिखाकानपि स्थापयित्वा इत्वरं श्रमणलिङ्गं तेषां समर्पयन्ति व्याख्यानवेलायांचचोलपट्टकंमुखपोतिकांच ग्राहयन्ति । तेनापितेषां तथाभूतानांपार्श्वे पठता यथा प्रतिरुपश्रुतविनयःप्रयोक्तव्यः ।तेषुनवारणीयः ।अथतेअन्यत्रगमनंनेच्छन्तितर्हितत्रैवासागारिक सागारिकसम्पातरहिते प्रदेशविशेषे लिङ्गेन रजोहरणमुखपोतिकादिना श्रमणरुपधारिणः कारयित्वा पठनीयम् ।तेच तत्रापितथा पठन्तो न वन्दनादीनि हापयन्ति ।। [भा.१५६८] आहार उवहिसेज्जा एसणमादीसुहोइजइयव्वं ।
अनुमोयणकारावण सिक्खत्ति पदंमितो सुद्धो ।। वृ-तेन तेषां समीपे पठता आहारोपधिशय्यानामेषणादिषुभवति यतितव्यं तदानुमोदनकारापणे चनचकरणकारापणानुमोदनदोषैः सपरिगृह्यते, यतः शिक्षा मयाऽस्य समीपेगृह्यतेइति द्वितीयेपदे वर्तते । ततः स शुद्ध इति । इयमत्र भावना यदि स पार्थस्थः पश्चात्कृतादिः पाठयन्नात्मनः आहारोपध्यादिकमात्मनैवोत्पादयति ततः सुन्दरमथात्मनानोत्पादयतिततआह[भा.१५६९] नोयइसे परिवारंअकरेमाणंभणति वासद्धे ।
अव्वोच्छित्तिकरस्सहसुयभत्तीएकुणह पुयं ।। वृ-से तस्य परिवारं विनयमकुर्वन्तं नोदयति प्रज्ञापयति । यथा महदिदं ज्ञानपात्रमतः क्रियतामस्योत्कृष्टाहारसम्पादनेन विनय इति परिवारस्याभावे श्राद्धान्वा सिद्धपुत्रपुराणे तररुपान् भणति-यथा अव्यवच्छित्तिकरस्यास्य श्रुतभक्त्याकुरुत पूजामिति एतेनानुमोदनकारापणेव्याख्याते ।
सम्प्रतिस्वयमुत्पादनमाहारादीनांभावयति[भा.१५७०] दुविहासती एतेसिं आहारादी करेति से सव्वं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482