Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
व्यवहार - छेदसूत्रम् - १-३/६६ सुत्तानुनातो विहु होइ कयाई अनरिहोउ ।। तेन पराच्छा कीरइ सुवणगस्सेव ताव निहसादी । तत्थ इमो दिट्टंतो रायकुमारेहिं कायव्वो ।।
[भा. १४२७]
वृ- चोदक श्रृणु मदीयं वचः । सन्ति हि स्फुटं तानि शास्त्राणि यान्याचार्यद्वितीयकानि किमुक्तं भवत्याचार्यपरम्परायातसम्प्रदाय विशेष परिकलितानि ततो यद्यप्यर्हानर्हपरीक्षालक्षणार्थः । सूत्रे साक्षान्नोपनिबद्धस्तथापि सूचनात्सूत्रमिति सोपसूत्रेण सूचित इति सम्प्रदायादवगम्यते इति न कश्चिद्दोषः । तथाच सूत्रानुज्ञाऽपि हु निश्चितं कदाचिदनर्हो भवति । न च सूत्रमन्यथा सर्वज्ञप्रणीतत्वात् तेन परीक्षापि सूचितेति तापनिकषादिभिः सुवर्णस्येव सूत्रानुज्ञातस्यापि क्षुल्लकादिभिः परीक्षा क्रियते । तत्रायं वक्ष्यमाण लक्षणो दृष्टान्तो राजकुमारैः कर्तव्यः । तमेवाह
7
[भा. १४२८ ]
४१०
सूरे वीरे सत्तिए ववसायथिरे चियाय धितिमंते । बुद्धी विनयकरणे सीसे वि तहा परिच्छाए ।। निब्भयउरस्सबली अविसायि पुणो करेति संठाणं । विसम्मत्ति देति अनस्सितो चउहा नुवित्तीय ।।
[भा. १४२९]
-
वृ- इत्याद्यगाथापदानां द्वितीयगाथापदैर्व्याख्यानं तद्यथा शूरो नाम निर्भयः । स च कुतश्चिदपि न भयमुपगच्छति । वीर ऊरसबलवान् तेनाक्लेशेन परिबलं जयति । सात्विको नाम यो महत्यप्युदवे गर्व नोपयाति । नच गरिष्टेऽपि समापतिते व्यसने विषादं । तथा चाह-अविषादी उपलक्षणमेतत् । अगवी वा व्यवसायी अनलस उद्योगवानित्यर्थः । तथा चाह-पुनः करोति संस्थानं किमुक्तं भवति प्रमादतः कथंदचिध्यवसायविकलोऽपिभूत्वा पुनः करोति संस्थानं कर्तुमुद्यच्छति स्वोचितंव्यवसायमितिभावः, 1 स्थिरो नाम उद्योगं कुर्वन्नपि न परिताम्यति । तथा चाह-विश्राम्यतीति चियायत्ति दानरुचियथौचित्यमाश्रितेभ्योऽन्येभ्यश्च ददातीत्यर्थः । धृतिमान् राज्यकार्याणि कुर्वन् परनिश्रामऽनिक्षेपमाणः तथा चाह- अनिस्सिते इति, बुद्धित्ति औत्पत्तिक्यादिबुद्धि चतुष्टयोपेतः, विनीतो गुर्वादिषु विनयकारी यथौचित्यं गुर्वादीनामनुवर्तक इत्यर्थः, करणे इति यद्राज्ञः कर्तव्यं तत्करणे कुशलः । एतेषु परीक्षा क्रियते । किमेते गुणाः सन्ति न वा तत्र यः एतैर्गुणैरूपेतो भवति स राज्ञो राज्येऽभिषिच्यते । दानशीलोऽत्र यः स्थिरः सोऽपरिभ्रान्तः सन् कर्तव्यं करोति । कृत्वापि पश्चादननुपतापी त्यागवान् नाम दानशीलः स च स्तोकादपि स्तोकं ददानो गणस्य बहुमानभाग्भवति ।।
[भा. १४३० ]
परवादी उवसग्गे उप्पन्ने सूरयाइतंतरवि ।
[ भा. १४३१]
अद्धाने तेणमादी उरस्सबलेण संतरति ।। अल्भुदए वसणे वा अखुब्भमाणो उ सत्ति होति । आवति कुलादि कजेसु चैव ववसायवं तरति ।। कायव्वमपरितं तो दातुं वि थिरो अनानुभाविउ ।
[भा. १४३२]
[भा. १४३३ ]
थोवा तो विदलतो चियाग वंदन सीलोउ ।। उवसग्गे सोढव्वे झाए किच्चेसु यावि (साइ) धीमंतो । बुद्धिचक्क विनीतो अहवा गुरुमादि विनीतो उ ।।
वृ- धृतिमान् उपसर्गान् सोढव्यान् ध्यायति, कृत्येष्वपि कार्येष्वविषादं प्रवर्त्तते, बुद्धिविनीत इत्यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
.

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482