Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 417
________________ ४१६ व्यवहार - छेदसूत्रम् - १३/६६ वृ- यो देशदर्शनं कृत्वा समागतः सन् ब्रूते युष्माभिर्दत्ताः साधवः परिवारतया ते सर्वे युष्माकं शिष्याः पथि कालगताः प्रतिभग्नावा, इमे पुनः सर्वे मम शिष्या एते स्थविरादयोऽनहस्तेषां पुनरनर्हाणामाचार्यसमीपगतानां ये तैः प्रव्राजिताः शिष्यास्तानाचार्य इच्छापयति वा न वा गुरुणामत्रेच्छा प्रमाणं । । [ भा. १४५९ ] एसा ग गीते मेरा इमाउ अपरिग्गहाउ अगीयाणं । गीयत्थपमादी व अपरिग्गह संजतीणं च ।। वृ- एषा अनन्तरोदिता मर्यादा योग्यस्य गीतार्थता आचार्यस्तस्मिन् गीते गीतार्थे द्रष्टव्या, इयं पुनरपरिग्रहाणामगीतानां तथा गीतार्थप्रमादिनामपरिग्रहसंयतीनां च इयमत्र भावना - येषामाचार्योऽप्यगीतार्थस्ते अपरिग्रहा यद्यपि नाम तेषामाचार्यपरिग्राहकस्तथापि सोऽगीतार्थइति तत्वतः सूत्रनीत्या ते अपरिग्रहा एव, तेषां मध्यात्कोऽप्येकोऽन्यं संविग्नं गच्छमुपसम्पन्नंएष एकः अन्यो अवषन्ना गीतार्थानां गच्छस्तेषां मध्यादेकः कश्चिदन्यं संविग्नं गच्छमाश्रितवान् एष द्वितीयः । तथा अन्याः काश्चन संयत्यस्तासामाचार्यो नास्ति, कालकरालपिशाचेन कवलितत्वात् केवलं ताभिरेकः क्षुल्लकः परिखाजित आसीत् । (सो?) कोऽन्यं संविग्नं गच्छमुपसम्पन्नः एते त्रयोऽपि पूर्वगता कालिकगते वा श्रुते सूत्रार्थतदुभयैः परिपूर्णा जातास्तेषामागतानां यावदा भवति, तावद्वक्तव्यमिति । एतदेवाहगीयत्थमगीयत्थे, अज्जाणं खुड्डुए य अन्नेसिं । आयरियाण सगासे, अमुयत्तेणं तु निम्माया ।। [भा. १४६०] वृ- गीतार्थो योऽवसन्नगीतार्थः गच्छाद्विनिर्गतोऽगीतार्थो योऽपरिग्रहगीतार्थगच्छान्निर्गतः आर्यिकाभिः प्रव्राजितः आर्यिकाणां क्षुल्लक एते त्रयोऽप्यन्येषामाचार्याणां सकाशे अमायित्वेन कदाचनापि आचार्यसमीपममुञ्चतो निर्माताः । सूत्रार्थतदुभयज्ञा जाताः । एतदेव स्पष्टतरमाहसीस पडिच्छो होउं, पुव्वगए कालिए य निम्मातो । तस्सागयस्स स गणं किं आभव्वं इमं सुणसु ।। [भा. १४६१ ] वृ-गीतार्थोऽगीतार्थ आर्यिका क्षुल्लको चान्येपामाचार्याणां समीपे प्रतीच्छक रुपकः शिष्यो भूत्वा पूर्वगते कालिके वा श्रुते निर्मातस्तस्य स्वगणस्य गतस्य किमाभाव्यं सूरिराह- इदं च वक्ष्यमाणं शृणु तदेवाह - [भा. १४६२ ] सीसो सीसो सीसो, चउत्थंपि पुरिसंतरं लहइ । विभति तिणी, पुरिसजुगं सत्तहा होइ ।। , 'वृ- शिष्यः स्वदीक्षितः तस्यापि शिष्यो यः पौत्रकल्पस्तस्यापि शिष्यः प्रपौत्रकल्प रूपं एवं सन्तानत्रयात्मकंचतुर्थमपि पुरुषान्तरः पुरुषयुगं लभते । चतुर्थग्रहणादन्येऽपि त्रयः सूचितास्ताने वाहट्ठावि लहइतिणी इत्यधस्तात्त्रीणि पुरुषयुगानि लभते । अपिशब्दादुपर्यपि त्रीणि । इयमत्र भावनाआत्मीयमाचार्यं वर्जयित्वा यस्तस्य परिवारस्तंसर्वं लभते इदमेकंपुरुषयुगं ? पितामहं वर्जयित्वा पितामह परिवारं सर्वं लभते इति द्वितीयं पुरुषयुगं प्रपितामहपरिवारं सर्वं लभते इति तृतीयपुरुषयुगं ३ । एतानि त्रीण्युपरितनानि | साम्प्रतमधस्तनानि त्रीणि भाव्यन्ते । गुरुभ्रातृप्रब्राजितं समस्तं परिवारं लभते इत्येवं पुरुषयुगं भ्रातृव्य प्रव्राजितमपि सर्वं लभते परिवारमिति द्वितीयं पुरुषयुगं, भ्रातृप्रव्राजितैरपि प्रव्राजितान् समस्तान् लभते इति तृतीयं पुरुषयुगं । तदेवमधस्तनानि त्रीणि पुरुषयुगानि त्रीण्युपरितनानीति मिलितानि षट् जातानि । तथा आत्मना ये प्रव्राजिताः पुत्रस्थानीया ये च तैः प्रव्राजिताः पौत्रस्थानीया 1 For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482