Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 421
________________ ४२० व्यवहार -छेदसूत्रम्-१-३/७३ द्रव्यतउपसङ्गहः । ग्रहीउपादाने इतिवचनात्, यः पुनरविशेषेण सर्वेषामुपकारेवर्ततेसभावतउपग्रहः । अक्षताचारता परिपूर्णाचारता च चारित्रे सति भवति । चारित्रवता नियमतः शेषाश्चत्वारोऽप्याचाराः सेव्याश्चारित्रवतश्चारित्रं स्याद्दानतेति वचनात् । ततश्चारित्रवानित्त्युक्तं द्रष्टव्यम् । न त्वेषोऽप्यर्थ आचारकुशल इत्यनेनोपात्तइतिकिमर्थस्याप्यादानमुच्यते । चारित्रंखलुप्रधानंमोक्षाङ्गंतदपिकण्ठतो नोक्तमिति तदा शङ्काव्युदासार्थमित्यदोषः । तथा अशवलो यस्य सितासितवर्णोपेतबलीवर्दइव कर्बुर आचारो निवयाशिक्षा भाषा गोचरादिको यस्यासावशबलाचारः । तथा अभिन्नेन केनचिदप्यतीचारविशेषेण (अ) खण्डित आचारो ज्ञानाचारादिको यस्यासायभिन्नाचारः । तथा असंक्लिष्ट इह परलोकाशंसारुपसंक्वेशविप्रमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः । तथा बहुश्रुतं सूत्रं यस्यासौ बहुश्रुतः । तथाबहुरागमोऽर्थरुपो यस्यसबलागमःजधन्येनाचारप्रकल्पधरो निशीथाध्ययनसूत्रार्थधर इत्यर्थः ।जधन्यतआचारप्रकल्पग्रहणादुत्कर्षतोद्वादशाङ्गविदितिद्रष्टव्यं,सकल्पतेयोभवत्युपाध्यायतयोद्देष्टुमिति प्रथमसूत्रार्थः सच्चेवणं से ति वासेत्यादि से शवोऽथशद्वार्थः । अथ स एव त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थो नो आचारकुशल इत्यादि पूर्वव्याख्यानतः सुप्रतीतः । एवं द्वे सूत्रे पञ्चवर्षपर्यायस्थाचार्योपाध्यायत्वोद्देशविषये भावनीये । नवरं तत्र जधन्येन दशाकल्पव्यवहारध इति वक्तव्यम् (४) एवमेवाष्टवर्षपर्यायस्याप्याचार्योपाध्यायगणावच्छेदित्वोद्देशविषये द्वे सूत्रे व्याख्येये । केवलं तत्र जधन्येन स्थानसामाचार्या गण इति वाच्यं । शेषं तथैव ।। एष सूत्रषट्कस्य संक्षेपार्थः अधुना नियुक्तिविस्तरः । तत्रतावत्सर्वेषामेव सूत्रपदानांसामान्येन व्याख्यां चिकीर्षुरिदमाह-भाष्यकृत् [भा.१४७२] - एक्कारसंग सुत्तत्थ, धारया नवमपुव्वकडजोगी। बहुसुय बहुआगमिया, सुत्तत्थ विसारयाधीरा ।। [भा.१४७३] एय गुणोववेया सुयनिधस नायगामहा(ज)नस्स । ___ आयरिय उवज्झायपवत्तिथेराअनुन्नाया ।। वृ- एकादशानामङ्गानां सूत्रार्थमवधारयन्तीत्येकादशागसूत्रार्थधारकाः । नवमपुव्वत्ति अत्रापि सूत्रधारका इति सम्बध्यते, नवमपूर्वग्रहणं च शेषपूर्वाणामुपलक्षणं । ततोऽयमर्थः । समस्तपूर्वसूत्रधारकाः तथासूत्रोपदेशेनमोक्षाविराधीकृतोन्यस्तोयोगोमनोवाक्कायव्यापारात्मकःस कृतयोगः सयेषामस्तिते कृतयोगिनः बहुश्रुताः प्रकीर्णकानामपिसूत्रार्थधारणात् । इह पूर्वधरा अपितुल्येपिच सूत्रे मतिवैचित्र्यतोऽर्थागममपेक्ष्य षट्स्थानपतितास्ततः प्रभूतावगमप्रतिपादनार्थमाह-बह्लागमाः बहुप्रभूतः आगमोऽवगमो येषांतेतथा एतदेवाह-सूत्रार्थविशारदाः तत्कालपेक्षयासूत्रेऽर्थेचविशारदाः तथाधिया औत्पत्तिक्यादिरुपया चतुर्विधया बुद्धया राजन्ते इति धीराः । एतद्गण इत्यादि । ये अनन्तरगाथायामुक्ता गुणैरुपेता एतद्गुणोपेताः श्रुतं निघर्षयन्तीति श्रुतनिघर्षाः । किमुक्तंभवति? यथासुवर्णाकारस्तापनिधर्षच्छेदैः सुवर्णपरीक्षते किंसुन्दरमथवामङ्गलमिति । एवं स्वसमयपरसमयान् परीक्ष्यन्तेतेश्रुतनिघर्षाइति ।यथानायकाःस्वामिनोमहाजनस्य स्वगच्छवर्तिनांसाधूनामितिभावः । अथवा नायका ज्ञानादीनां प्रापकास्तदुपदेशनात्, महाजनस्य समस्तस्य सङ्घस्य इत्थंभूता आचार्या उपाध्यायाः प्रवर्तिनः स्थविरा उपलक्षणमेतत् । गणावच्छेदिनश्चानुज्ञाताः । तदेवं सामान्यतः सर्वसूत्रपदानामर्थो व्याख्यातः । सम्प्रत्येकैकस्य सूत्रपदस्पार्थो वक्तव्यस्तत्र येषां पदानां वक्तव्यस्तान्युपरिक्षपन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482