Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 427
________________ ४२६ व्यवहार - छेदसूत्रम् - १-३/७३ तस्मै ददाति ततो गृह्णाति वा । तथा अन्नमन्नं संवासे इति सांभोगिकैः परस्परमेकत्र वसनं एतानि कुर्वाणः संग्रहकलः । पुनः कथंभूत इत्याह-संग्राहानुगता ये गुणां तेषां निधिरिव गुणनिधिस्तथा अनुकरणं नाम यत्सीवनलेपादि कुर्वन्तं दृष्ट्रा ब्रूते-इच्छाकारेण तवेदमहं करिष्यामि कुरुते च, कारापणं वा न यत्स्वयं करणे अकुशलानन्यानपीच्छाकारेण कारापयति तस्मिन् निसर्गः स्वभावो यस्य सोऽनुकरणकारापण निसर्गः इत्थंभूतस्तस्य स्वभावो यदि अनभ्यर्थित एव करोति कारयति चेतिभावः । सम्प्रति कतिपयपदव्याख्यानार्थमाह [भा. १५०४ ] वयणेतु अभिग्गहियस्य केणती तस्स उत्तरं कुणति । जा जयाह कि ते उगुरम्मी वयणं देइ ।। वृ- वचने वचनविषये अभिग्गहिकस्य गृहीताभिग्रहप्रतिपत्तमौनव्रतस्येत्यर्थः । केनापि पश्ने कृते सति तस्योत्तरं यद्भणत्येष वचनसंग्रहकुशलः । पश्चार्धं सुगमम् । साहूणं अनुभासइ आयरिएणं तु भासिए संते । सारेयायरियाणं देसे काले गिलाणादी ।। [ भा. १५०५ ] वृ- अत्र साधूनामिति पदं पश्चात् गाथायां सम्बध्यते । शेषं प्रागेव व्याख्यानार्थमाह[ भा. १५०६ ] दुक्खत्ते अनुकंपा अनुसासन भज्जमाणरक्खो वा । वारी अनुसास किच्चमेयं । । वृ- इयमपि व्याख्यानार्था । [भा. १५०७ ] पूयणमहागुरुणं अब्भंतरदोण्हमुल्लवेंताणं । तइयं कुणती वहिया वेई गुरूणं च तं इट्ठो ।। वृ-पूजनं यथाक्रमं गुरुणामन्यतरकरणंयदभ्यंतरे द्वयोरुल्लपतोस्तृतीपमुपशुश्रूषंबहिः करोति । यदि वा तद्गच्छादिप्रयोजनं पृष्टः सन्नभ्यन्तरं गत्वा गुरुणां ब्रूते कथयति [भा. १५०८ ] संजण संभोगेण भुजए जस्स कारणंभत्तं । तं घेत्तुमप्पणासे देइ एमेव उवहिं पि ।। वृ- संभोजनं नाम यत्संभोगेन योजयति सांभोगिकैः सहैकत्र भुङ्क्ते इति, तथा यद्यस्य कारकमुपकारकं भक्त तदात्मना गृहीत्वा तस्मै ददाति । एवमेवोपधिमपि उपधिरपियो यस्योपकारकस्तं स्वयमुत्पाद्य तस्मै ददाति । एतेन संभोगे भत्तौवहीति व्याख्यातं परस्परमेकत्र संवासः सुप्रतीतत्वान्न व्याख्यातः । [ भा. १५०९] अनुकरणं सिव्वणलेवणादी अनुभासणा उदुम्मेहो । एरिसो तस्स निसणा, जं भणियं एरिस सहावी ।। वृ- अनुकरणं नाम सीवनलेपनादि स्वयं किञ्चित्कुर्वन्तं दृष्ट्रा इच्छाकारेणानुज्ञाप्य करोति । तथा दुर्भेधसि स्वयं सीवनलेपनादिकर्तुमनुजानाति स्वयं तावत् करोत्येव । किन्त्वन्यानपि भाषते । यथा कुरुतैतस्य महानुभागस्येत्येतत्करणंईदृशस्तस्यानुकरणे कारापणेच निसर्गः निसर्गः स्वभावः जंभणियंति किमुक्त भवतीत्यर्थः । ईदृशः स्वभावः उक्तः संग्रहकुशलः । उपग्रहकुशलमाहवालासहुउढेसुं संततवकिलंत वेयणातंके । सेज्जनिसेज्जो वहिपाणमसणभेसज्ज वग्गहिए ।। [भा. १५१०] [ भा. १५११] दान दवावण कारावणे यतहा कयमनुनाए । उवहितमणुवहित विही जाणाति उवग्गहं एयं ।। वृ- बालासहवृद्धेषु तथा प्रभूतमार्गगमनतः पवनो (ठतो) वा श्रान्तेषु तपः क्लान्तेषु तथा वेदनायां For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482