Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 431
________________ ४३० सन्ति किन्तु पञ्चदशादि गोसंख्याकास्तत्किं ते युथा न भवन्ति किन्तु भवन्त्येवेति । अधुना योधदृष्टान्तभावनामाह[भा. १५३१] व्यवहार - छेदसूत्रम् - १-३ / ७३ साहस्सी मल्ला खलु मह पाणा पुच्च आसि जोहाओ । ते तुल्ल नत्थि एहिं किं ते जोहा न होंतीतु ।। - पूर्व योधा महाप्राणाः सहस्त्रमल्ला आसीरन् । इदानीं तेषां तुल्या न सन्ति किन्त्वभागहीनाः ततः किंतेयोधा न भवन्ति भवन्त्येव कालौचित्येन तेषामपियोधकार्यकरणादिति भावः एवं शोधिदृष्टांतमाह[भा. १५३२ ] पुव्विं छम्मासेहिं परिहारेणंच आसिसोधीतु । सुद्धवतवेण निव्वतियादि एहिं विसोधीतु ।। वृ- पूर्वं षड्भिर्मासैः परिहारेण वा परिहारतपसा वा शोधिरासीत् । इदानीं निर्विकृतिकादिभिरपि च पञ्चकल्याणकदशकल्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् शोधिविषय एव पुष्करिणी शोधिः दृष्टान्तमाह [भा. १५३३] किं च पुन एव सोही जह पुव्विल्लासु पच्छिमासुंच । पुक्खरिणीसुं वत्थाइयाणि सुज्झंति तुह सोही ।। वृ- किं केन प्रकारेण पुनरत्राधुना एवं निर्विकृतिकादिमात्रेण शोधिर्भवति । सूरिराह यथा पूर्वांसु कालभाविनीषु पुष्करिणीष्वतिप्रभूतजलपूर्णासु वस्त्राणि शुद्धयन्ति स्म एव पश्चिमास्वप्यधुनातन कालभाविनीषु शुद्ध्यन्ति तथा शोधिरपि पूर्वमिवेदानीमपि भवतीति । एवं दृष्टान्तानभिधाय दान्तिकयोजनामाह[ भा. १५३४ ] आयरियादीचोद्दस पुव्वादि आसि पुव्विं तु । एवं जुगाणुरुवा आयरिया हुंति नायव्वा ।। वृ- एवमनन्तरोदितदृष्टान्तकदम्बकप्रकारेण यद्यपि पूर्वमाचार्यादयश्चतुर्दश पूर्वधरादय आसीरन् तथापीदानीमाचार्या उपलक्षणमेतत् उपाध्यायादयश्च युगानुरूपा दशाकल्पव्यवहारधरादयस्तपो नियमस्वाध्यायादिषूद्युक्ता द्रव्यक्षेत्रकालभावोचितयतनापरायणा भवन्ति ज्ञातव्याः । सम्प्रति यावत्पर्यायस्य यावन्ति स्थानानि सूत्रैणानुज्ञातानि तस्य तावन्त्यसंमोहार्थमुपदिदर्शयिषुराह [भा. १५३५ ] ति वरिसे एगं ठाणं दोन्निय ठाणाउ पंचवरिसस्स । सव्वाणि विकिट्टो पुन वोढुं वा इतिठाणाई ।। वृ-त्रिवर्षे त्रिवर्षपर्यायस्य एकमेवोपाध्यायलक्षणं स्थानमनुज्ञातं, न द्वितीयमाचार्यत्वलक्षणमपि तस्याल्पपर्यायतया प्रभूतखेदसहिष्णुत्वाभावेनाचार्यपदे योग्यताया अभावात् पञ्चवर्षस्य पञ्चवर्षपर्यायस्य द्वे स्थानेऽनुज्ञाते तद्यथा उपाध्यायत्वमाचार्यत्वं च बहवर्षतरवर्षपर्यायतया खेदसहतरत्वात् विकृष्टोऽष्टवर्षपर्यायः । पुनः सर्वाण्यपि स्थानानि वोढुं शक्नोति बहुतमवर्षपर्यायत्वात् ततस्तस्य सूत्रेणोपाध्यायत्वमाचार्यत्वं गणित्वं प्रवर्तित्वं स्थविरत्वं गणावच्छेदित्वं चानुज्ञातं । अथकथं सर्वाणि यथोक्तानि स्थानानि शक्नोति । तत आह [भा. १५३६ ] नोइदिइंदियाण य काले जयाणि तस्स दीहेण । कायव्वेसु बहुसुय अप्पा खलु भावति तेनं । । वृ- तस्य अष्टवर्षपर्यायस्य दीर्घेणाष्टवर्पप्रमाणेन इन्द्रियनोइन्द्रियाणि जितानि भवन्ति । कर्तव्येषु च बहुष्वात्मा खलु तेन भावितो भवति । ततो योग्यत्वात् सर्वाण्यपि स्थानानि तस्यानुज्ञातानि । .मू. (७४) निरुद्धपरियाए समणे निग्गन्थे कप्पइ तद्दिवसं कप्पइ आयरियउवज्झायत्ताएउद्दिसितए से किमाहुभंते अत्थिणं थेराणां तहारुवाणि कुलाणि कडाणि पतियाणि थेज्जाणि वेसासियाणि संमयाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482