Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३४
व्यवहार - छेदसूत्रम्-१-३/७४
उवहाणंपिय तेसिं अनुलोमुवसग्ग तुल्लं तु ।।
वृ- साधुर्विषीदन् तान् तथाभूतान् दृष्ट्वा स्थिरो भवति । आर्यिका अपि तेषु स्वचेतसि स्थिरा उपजायन्ते । गिलणत्ति ग्लानत्वे साधूनामौषधं सुलभंभवति । वैद्योऽपि तेषां प्रभावतोऽनुकूलां क्रियां करोति । यथा एतेराजादिपुत्राः, तेषांचामी शिष्या इति । तथा भिक्षा उपकरणमपि साधूनामतिसुलभं । ववहारो इत्थिया एते स्त्रिया अपहृताया स्तेषां भयतो व्यवहारो लभते । इयमत्र, भावना काचित् रुपवती कुमारश्रमणी के नापि राज्ञा गृहीता स्यात् ततस्तेषां गतानां भयेन सा मुच्यते इति वादे च तगौरवात्साधवोऽपिरभूता भवन्ति । अकिंचनकरेयत्ति योपि कश्चित्साधूनां प्रत्यनीकः सोऽपि तेषां राजादिकुमारप्रव्रजितानां भयतो न किंचित् करोति । अथवा अकिंचनानां साधूनां यदि कथमपि केनाप्यर्थजाते प्रयोजनमुपजायतेतर्हितत्सर्वं लोकः प्रायोऽप्रार्थित एव करोति । तदेवमेते अनन्तरोदिता गुणास्तजातानां राजादिजातीनां यतोऽतस्ते निरुद्धपर्यायाः प्रत्यागताः प्रव्राजिताः तद्दिवस एवाचार्यादिपदेषु स्थाप्यन्ते । अयं च गुणः कुटुम्बपरिवृद्धिर्गच्छपरिवृद्धिस्तथाहि यदि नामैते तथाभूतं राज्यादिकमपहाय धर्मं सनाचरन्ति । किं वयमपि तुच्छेषु भोगोपभोगेषु सजामः (इति) निष्क्रामन्ति ततो भवति गच्छस्य महती वृद्धिः । एतेषामवधावनमुत्प्रव्राजनं तदप्यनुलोमोपसर्गतुल्यं । किमुक्तं भवति ? यथा कस्यापि साधोः कश्चिदनुलोमान् उपसर्गान् प्रकृतवान् स चैवं चिन्तयति-यदि परमनेनोपायेनाहं मुच्ये, नान्यथा । तत एवं विचिन्त्याशठभावः परिसेवते स च तथाकृतपरिसेवनोऽप्यशठभाव इत्यखण्डचारित्र इति व्यवह्रियते । एवमेतेऽप्यखण्डचारित्रा एव तत्वतो मन्तव्याः । एतदेव लेशतो व्याख्यानयन्नाह[भा. १५५२]
साहूणं अज्जाणय विसीयमाणाण होति थिरकरणं । जइ एरिसावि धम्मं करेंति अम्हं किमंग पुन ।।
वृ- साधूनामार्यिकाणां च विषीदतां स्थिरकरणं भवति । तथाहि केचित्साधवो भोगेषु विषीदन्तस्तान् दृष्ट्वा एवं चिन्तयन्ति यदि तावदीदृशा अपि विपुलराज्यादिका अमी देवकुमारिका प्रख्याभिरपि निजमहेलाभिरुपसर्ग्यमाणा धर्मं कुर्वन्ते न पुनर्निजं ब्रह्मचर्यं भ्रंशितवन्तो अत्र एव ते तद्दिवस एवाचार्यपदेषुस्थापिताः किमङ्गपुनरस्माभिः सुतरां धर्मे समाचरणीयं विभवादिपरिभ्रष्टत्वादिति । आर्यिका अपि चिन्तयंति-यदि तावदीदृशाः खल्वस्माकं बान्धवाः सम्पन्नाः कथममंदपुन्नएतेषया । सुखमपि निरीक्ष्यन्ते न सीदन्ति । खल्वेतादृशधीरपुरुषगृहीता आर्यिकाः केवलमपरिभूताः सदा वर्तन्ते । किं च भयं गोरख्वं बहुमाणं चेव तत्थ कुव्वंति । गेलणोसहिमाई सुलभं उवकरण भत्तादी ।
[भा. १५५३ ]
कुमारादिष्वाचार्यादिपदेषु स्थापितेषु लोको भयं गौरवं बहुमानं च कुर्वते ।
वृ- किं च तत्र तेषु राजा ग्लानत्वे च भवत्यौषधादिकं सुलभमुपकरणं भक्तादिच ।
[ भा. १५५४ ]
संजतिमादीगहणे ववहारे होइ दुप्पधंसोउ ।
तग्गोव्या वादे हवंति अपराजिया एव ।।
वृ- संयत्यादीनामादिशद्वात् तथाविधक्षुल्लकादिपरिग्रहः ग्रहणे अपहारे भवत्यसौ राजकुमारादिदुः प्रधृष्यः तथा तद्वौरवात् वादे भवन्ति साधवोऽपराजिता एव ।
[भा. १५५५ ]
पडिनीय अकिंचकरा होंति अवतव्वो अट्ट जाएय ।
तज्जायदिक्खिणं होइ विवड्डीविय गणस्स ।।
वृ- प्रत्यनीकाः अकिञ्चित्करा भवन्ति । अर्थजातेच समुत्पन्ने कश्चिदपि वक्तव्यो न भवति । किन्तु सर्वे प्रार्थित एव यथौचित्यं करोति तथा तेन तज्जातेन राजादिजातेन तद्दिवस एवाचार्यादि पदस्थापितेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482