________________
४३०
सन्ति किन्तु पञ्चदशादि गोसंख्याकास्तत्किं ते युथा न भवन्ति किन्तु भवन्त्येवेति ।
अधुना योधदृष्टान्तभावनामाह[भा. १५३१]
व्यवहार - छेदसूत्रम् - १-३ / ७३
साहस्सी मल्ला खलु मह पाणा पुच्च आसि जोहाओ । ते तुल्ल नत्थि एहिं किं ते जोहा न होंतीतु ।।
- पूर्व योधा महाप्राणाः सहस्त्रमल्ला आसीरन् । इदानीं तेषां तुल्या न सन्ति किन्त्वभागहीनाः ततः किंतेयोधा न भवन्ति भवन्त्येव कालौचित्येन तेषामपियोधकार्यकरणादिति भावः एवं शोधिदृष्टांतमाह[भा. १५३२ ] पुव्विं छम्मासेहिं परिहारेणंच आसिसोधीतु ।
सुद्धवतवेण निव्वतियादि एहिं विसोधीतु ।।
वृ- पूर्वं षड्भिर्मासैः परिहारेण वा परिहारतपसा वा शोधिरासीत् । इदानीं निर्विकृतिकादिभिरपि च पञ्चकल्याणकदशकल्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् शोधिविषय एव पुष्करिणी
शोधिः
दृष्टान्तमाह
[भा. १५३३] किं च पुन एव सोही जह पुव्विल्लासु पच्छिमासुंच । पुक्खरिणीसुं वत्थाइयाणि सुज्झंति तुह सोही ।।
वृ- किं केन प्रकारेण पुनरत्राधुना एवं निर्विकृतिकादिमात्रेण शोधिर्भवति । सूरिराह यथा पूर्वांसु कालभाविनीषु पुष्करिणीष्वतिप्रभूतजलपूर्णासु वस्त्राणि शुद्धयन्ति स्म एव पश्चिमास्वप्यधुनातन कालभाविनीषु शुद्ध्यन्ति तथा शोधिरपि पूर्वमिवेदानीमपि भवतीति ।
एवं दृष्टान्तानभिधाय दान्तिकयोजनामाह[ भा. १५३४ ]
आयरियादीचोद्दस पुव्वादि आसि पुव्विं तु ।
एवं जुगाणुरुवा आयरिया हुंति नायव्वा ।।
वृ- एवमनन्तरोदितदृष्टान्तकदम्बकप्रकारेण यद्यपि पूर्वमाचार्यादयश्चतुर्दश पूर्वधरादय आसीरन् तथापीदानीमाचार्या उपलक्षणमेतत् उपाध्यायादयश्च युगानुरूपा दशाकल्पव्यवहारधरादयस्तपो नियमस्वाध्यायादिषूद्युक्ता द्रव्यक्षेत्रकालभावोचितयतनापरायणा भवन्ति ज्ञातव्याः । सम्प्रति यावत्पर्यायस्य यावन्ति स्थानानि सूत्रैणानुज्ञातानि तस्य तावन्त्यसंमोहार्थमुपदिदर्शयिषुराह
[भा. १५३५ ] ति वरिसे एगं ठाणं दोन्निय ठाणाउ पंचवरिसस्स । सव्वाणि विकिट्टो पुन वोढुं वा इतिठाणाई ।।
वृ-त्रिवर्षे त्रिवर्षपर्यायस्य एकमेवोपाध्यायलक्षणं स्थानमनुज्ञातं, न द्वितीयमाचार्यत्वलक्षणमपि तस्याल्पपर्यायतया प्रभूतखेदसहिष्णुत्वाभावेनाचार्यपदे योग्यताया अभावात् पञ्चवर्षस्य पञ्चवर्षपर्यायस्य द्वे स्थानेऽनुज्ञाते तद्यथा उपाध्यायत्वमाचार्यत्वं च बहवर्षतरवर्षपर्यायतया खेदसहतरत्वात् विकृष्टोऽष्टवर्षपर्यायः । पुनः सर्वाण्यपि स्थानानि वोढुं शक्नोति बहुतमवर्षपर्यायत्वात् ततस्तस्य सूत्रेणोपाध्यायत्वमाचार्यत्वं गणित्वं प्रवर्तित्वं स्थविरत्वं गणावच्छेदित्वं चानुज्ञातं । अथकथं सर्वाणि यथोक्तानि स्थानानि शक्नोति । तत आह
[भा. १५३६ ] नोइदिइंदियाण य काले जयाणि तस्स दीहेण । कायव्वेसु बहुसुय अप्पा खलु भावति तेनं । ।
वृ- तस्य अष्टवर्षपर्यायस्य दीर्घेणाष्टवर्पप्रमाणेन इन्द्रियनोइन्द्रियाणि जितानि भवन्ति । कर्तव्येषु च बहुष्वात्मा खलु तेन भावितो भवति । ततो योग्यत्वात् सर्वाण्यपि स्थानानि तस्यानुज्ञातानि ।
.मू. (७४) निरुद्धपरियाए समणे निग्गन्थे कप्पइ तद्दिवसं कप्पइ आयरियउवज्झायत्ताएउद्दिसितए से किमाहुभंते अत्थिणं थेराणां तहारुवाणि कुलाणि कडाणि पतियाणि थेज्जाणि वेसासियाणि संमयाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org