________________
४२०
व्यवहार -छेदसूत्रम्-१-३/७३ द्रव्यतउपसङ्गहः । ग्रहीउपादाने इतिवचनात्, यः पुनरविशेषेण सर्वेषामुपकारेवर्ततेसभावतउपग्रहः । अक्षताचारता परिपूर्णाचारता च चारित्रे सति भवति । चारित्रवता नियमतः शेषाश्चत्वारोऽप्याचाराः सेव्याश्चारित्रवतश्चारित्रं स्याद्दानतेति वचनात् । ततश्चारित्रवानित्त्युक्तं द्रष्टव्यम् । न त्वेषोऽप्यर्थ आचारकुशल इत्यनेनोपात्तइतिकिमर्थस्याप्यादानमुच्यते । चारित्रंखलुप्रधानंमोक्षाङ्गंतदपिकण्ठतो नोक्तमिति तदा शङ्काव्युदासार्थमित्यदोषः । तथा अशवलो यस्य सितासितवर्णोपेतबलीवर्दइव कर्बुर आचारो निवयाशिक्षा भाषा गोचरादिको यस्यासावशबलाचारः । तथा अभिन्नेन केनचिदप्यतीचारविशेषेण (अ) खण्डित आचारो ज्ञानाचारादिको यस्यासायभिन्नाचारः । तथा असंक्लिष्ट इह परलोकाशंसारुपसंक्वेशविप्रमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः । तथा बहुश्रुतं सूत्रं यस्यासौ बहुश्रुतः । तथाबहुरागमोऽर्थरुपो यस्यसबलागमःजधन्येनाचारप्रकल्पधरो निशीथाध्ययनसूत्रार्थधर इत्यर्थः ।जधन्यतआचारप्रकल्पग्रहणादुत्कर्षतोद्वादशाङ्गविदितिद्रष्टव्यं,सकल्पतेयोभवत्युपाध्यायतयोद्देष्टुमिति प्रथमसूत्रार्थः सच्चेवणं से ति वासेत्यादि से शवोऽथशद्वार्थः । अथ स एव त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थो नो आचारकुशल इत्यादि पूर्वव्याख्यानतः सुप्रतीतः । एवं द्वे सूत्रे पञ्चवर्षपर्यायस्थाचार्योपाध्यायत्वोद्देशविषये भावनीये । नवरं तत्र जधन्येन दशाकल्पव्यवहारध इति वक्तव्यम् (४) एवमेवाष्टवर्षपर्यायस्याप्याचार्योपाध्यायगणावच्छेदित्वोद्देशविषये द्वे सूत्रे व्याख्येये । केवलं तत्र जधन्येन स्थानसामाचार्या गण इति वाच्यं । शेषं तथैव ।। एष सूत्रषट्कस्य संक्षेपार्थः अधुना नियुक्तिविस्तरः । तत्रतावत्सर्वेषामेव सूत्रपदानांसामान्येन व्याख्यां चिकीर्षुरिदमाह-भाष्यकृत् [भा.१४७२] - एक्कारसंग सुत्तत्थ, धारया नवमपुव्वकडजोगी।
बहुसुय बहुआगमिया, सुत्तत्थ विसारयाधीरा ।। [भा.१४७३] एय गुणोववेया सुयनिधस नायगामहा(ज)नस्स ।
___ आयरिय उवज्झायपवत्तिथेराअनुन्नाया ।। वृ- एकादशानामङ्गानां सूत्रार्थमवधारयन्तीत्येकादशागसूत्रार्थधारकाः । नवमपुव्वत्ति अत्रापि सूत्रधारका इति सम्बध्यते, नवमपूर्वग्रहणं च शेषपूर्वाणामुपलक्षणं । ततोऽयमर्थः । समस्तपूर्वसूत्रधारकाः तथासूत्रोपदेशेनमोक्षाविराधीकृतोन्यस्तोयोगोमनोवाक्कायव्यापारात्मकःस कृतयोगः सयेषामस्तिते कृतयोगिनः बहुश्रुताः प्रकीर्णकानामपिसूत्रार्थधारणात् । इह पूर्वधरा अपितुल्येपिच सूत्रे मतिवैचित्र्यतोऽर्थागममपेक्ष्य षट्स्थानपतितास्ततः प्रभूतावगमप्रतिपादनार्थमाह-बह्लागमाः बहुप्रभूतः आगमोऽवगमो येषांतेतथा एतदेवाह-सूत्रार्थविशारदाः तत्कालपेक्षयासूत्रेऽर्थेचविशारदाः तथाधिया औत्पत्तिक्यादिरुपया चतुर्विधया बुद्धया राजन्ते इति धीराः । एतद्गण इत्यादि । ये अनन्तरगाथायामुक्ता गुणैरुपेता एतद्गुणोपेताः श्रुतं निघर्षयन्तीति श्रुतनिघर्षाः । किमुक्तंभवति? यथासुवर्णाकारस्तापनिधर्षच्छेदैः सुवर्णपरीक्षते किंसुन्दरमथवामङ्गलमिति । एवं स्वसमयपरसमयान् परीक्ष्यन्तेतेश्रुतनिघर्षाइति ।यथानायकाःस्वामिनोमहाजनस्य स्वगच्छवर्तिनांसाधूनामितिभावः । अथवा नायका ज्ञानादीनां प्रापकास्तदुपदेशनात्, महाजनस्य समस्तस्य सङ्घस्य इत्थंभूता आचार्या उपाध्यायाः प्रवर्तिनः स्थविरा उपलक्षणमेतत् । गणावच्छेदिनश्चानुज्ञाताः । तदेवं सामान्यतः सर्वसूत्रपदानामर्थो व्याख्यातः । सम्प्रत्येकैकस्य सूत्रपदस्पार्थो वक्तव्यस्तत्र येषां पदानां वक्तव्यस्तान्युपरिक्षपन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org