Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 414
________________ उद्देशक ः३, मूलं:६६, [भा. १४४२] ४१३ तन्त्रीश्चविक्रीणन्तीतिएतेजातौ जुङ्गिका उपलक्षणमेतत् ।तेनाय (यि) कल्पिका येच हरिकेशजातयो मेया येच वरुडादयस्तेऽपि जातौ जुङ्गिका द्रष्टव्याः सम्प्रतिकर्मणि शिल्पेचतानभिधित्सुराह[भा.१४४३] पोसगसंबर नडलंख वाहमच्छंधरयरा वच्छुरिया । पडगारायपरीसह सिप्पेसरीरेयवच्छामि ।। वृ- पोषका ये स्त्रीकुक्कुटमयूरान् पोषयन्ति, । संवराः स्तानिकाः शोधकाः । नटाः प्रतीता ये नाटकानि नर्तयन्ति ।लङ्कायेवंशादेरूपरिवृत्तंदर्शयन्ति ।व्याधालुब्धका ।मत्स्यबन्धाःकैवर्तारजका वस्त्रप्रक्षालकावागुरिका मृगजालिकाजीविनः । एतेकर्मणिजुङ्गिकाः, पटकाराः कुञ्चिकादयश्चर्मकारा इत्यरेपरीषहा नापिता एते शिल्पे जुङ्गिकाः । सम्प्रतिशरीरेतान् वक्ष्यामि ।प्रतिज्ञातं निर्वाहयति[भा.१४४४] हत्थे पाएकणे नासा उठेहिं वज्जियंजाण । वामणगमडमकोढिय काणा तह पंगुला चेव ।। - वृ-शरीरे जुङ्गिका जानीहि । हस्ते सप्तमी प्राकृतत्वात् तृतीयार्थे । एवं सर्वत्र, ततोऽयमर्थः हस्तेन उपलक्षणमेतत् । हस्ताभ्यांवावर्जितं, ।एवंपादेन पादाभ्यां वा कर्णेन कर्णाभ्यांवानाशयाओष्टेनवा वामनका हीनहस्तपादाद्यवयवा, मडभाः कुब्जाः कृष्टव्याध्युपहताः, काणा एकाक्षाः, पङ्गुलाः पादगमनशक्तिविकलाः एतानपिशरीरजुङ्गिकान् जानीहि ।। [भा.१४४५] दिक्खेउंपिन कप्पंति, जुंगिया कारणेवि दोसावा । अनादिक्खिएवा नाउंन करेंतिआयरिए ।। वृ- एतेअनन्तरोदिताश्चत्वारोऽपिजुङ्गिकादीक्षितुमपिनकल्पन्ते । पुनराचार्यपदेस्थापयितुमित्यपि शब्दार्थः कारणे तथाविधेसमुत्पन्नेऽदोषाका निर्दोषावा दीक्षितुमपि सम्बध्यन्ते । अज्ञाताश्चेत्कथमपि जुङ्गिका दीक्षिता भवेयुस्ततस्तान ज्ञात दीक्षितान् ज्ञात्वा कुर्वन्त्याचार्यगुणोपेतान् अप्याचार्यान् प्रवचनहीलनाप्रसक्तेः ।। [भा.१४४६] पच्छावि होति विकला आयरियत्तंन कप्पईतेसिं। सीसो ठावेयव्वोकानगमहिसोव निन्नम्मि ।। वृ-पश्चादपिश्रामण्यस्थिताक्षिगलनादिना विकलाभवन्ति, तेषामप्याचार्यगुणैर्युक्तानामप्याचार्यत्वं न कल्पते,येऽप्याचार्यपदोपविष्टाः सन्तः पश्चाद्विकला जायन्तेतेषामपिनकल्पतेधारयितुमाचार्यत्वं, किन्तु तैस्तथा विकलैः सद्भिरात्मनः पदे शिष्यः स्थापयितव्यः । आत्मा त्वप्रकाशे स्थापयितव्यः । कइवेत्यत आह-काणकमहिष इव निम्ने । इयमत्र भावनाकाणको नाम चोरितमहिषो मा कोप्येनमद्राक्षीदिति हेतोः ग्रामस्य नगरस्य वा बहिर्गर्ता रूपे निम्ने प्रदेशे उपलक्षणमेतदिति गुपिले वा वनगहनेस्थाप्यते । एवमेषोऽप्यन्यथाप्रवचनहीलनाप्रसक्तेराज्ञादिदोषप्रसङ्गश्च ।अथवासो वात्मीयः शिष्यः पश्चाद्विकलैराचार्यःस्थाप्यतेस कीदृश इत्यत आह[भा.१४४७] गणिअगणीवा गीतोजोवि अगीतोवि आगईमंतो । लोगेस पगासिज्जइतहा बेंतिन किच्चमियरस्स ।। वृ- गणोऽस्यास्तीति गणी साधु परिवारवान् यो वर्तते तदभावेऽगणी वा यो गीतो गीतार्थः कालोचितसूत्रार्थपरिनिष्ठितः तस्याप्यभावे यो चाप्यगीतार्थोऽपि आकृतिमान् रूपेण मकरध्वजतुल्यः स गणधरपदे निवेश्यते, । यथायमस्माकमाचार्यो नेतर इति केवलमितरस्यापि जुङ्गिका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482