Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 410
________________ उद्देशक : ३, मूलं : ६६, [भा. १४१९] ४०९ प्रतिपन्थी भविष्यति । ततो न कोऽप्येनं पाठयिष्यतीति न शिक्षयति, सोऽनर्हस्तद्विपरीतोऽर्हस्ततः खग्गूडं दत्वा स भण्यते - अमुं तथा ग्राहय यथा ऋजुः सामाचारी कुशलश्च भवति । ततो यदिकोही निरुवगारी करुसो सव्वस्स वामवड्डोय । अविनीतोत्ति च काउं हंतुं सत्तुं च निच्छुभती ।। [ भा. १४२० ] वृ- क्रोधी यदि वा निरुपकारी अथवा परुषः परुषभाषी तथा सर्वस्य साधुवर्गस्य वामावर्तः प्रतिकूलतया वर्तते यदि वा अविनीत इति कृत्वा शिक्षां ग्राहयति, अथवा आक्रुश्य शत्रुमिव वा हत्वा निःकाशयति तर्हि सोऽनर्हस्तद्विपरीतोऽर्हः । [भा. १४२१] सम्प्रति चतुर्ष्वपि योजनेषु तद्विपरीततया यथार्हो भवति तथा भावयतिवच्छाहारादीहिय संगिण्ह अनुवत्तए य जो जुगलं । गाई अपरितंतो, गाहण सिक्खावए तरुणं ।। खरमउएए अनुयत्ततिखग्गूडं जेण पडति पासेणं । गाढमविहार विजढो तत्थोडुण अप्पणे कुणति ।। [भा. १४२२ ] वृ यो नाम युगलं क्षुल्लक वृद्धलक्षणं वस्त्राहारादिभिः संगृह्णाति आत्मवशीकरोत्यनुवर्तयति च तरुणमपरिभ्रान्तः परिश्रममगणयन् ग्राहयति ग्राहणं ग्राह्यते । शिष्य एतदिति बाहुलकात्कर्मण्यनट् ग्राहणमाचारादिसूत्रं आसेवना शिक्षया च शिक्षयति । तथा खग्गूडंखरमृदुभिर्वाक्यैस्तथानुवर्तयति येन स पाशेन पतति अन्यथा गतिं न लभते इति मन्यमानस्तद्वशी भवति । तथा यः स्थानाविचलनादपि सन् खग्गूडतया विहारविजढो भवति विहारं न करोतीति भावस्तत्र उड्डणमङ्गीकारमात्मना करोति । यथैनमहं खरेण मृदुना चोपायेन विहारक्रमं चोपायेन विहारक्रमं कारयिष्यामीति एष एवंभूतो योग्यः । [भा. १४२३] इय सुद्धसुत्त मंडल दाविज्जइ अत्थ मंडली चेव । दोहिंपि असीयंते, देइ गणं चोइए पुच्छा ।। वृ- इति एवमुपदर्शितेन प्रकारेण चतुर्ष्वपिजनेषु सूत्रोपदेशतः परीक्षितः सन् शुद्धो भवतिन मनागपि दोषः ततस्तस्य सूत्रमण्डली दाप्यते, अर्थमण्डली च एतयोश्च द्वयोरपि मण्डल्योर्यदि न विषीदति । किन्त्वपरिश्रान्ततया गच्छ्वर्तिनां प्रतीच्छकानां च ज्ञानाद्यभिलाषिणां चित्तग्राहको वर्त्तते, ततस्तस्मिन् मूलाचार्यो गणं ददाति । एवमुक्ते चोदके चोदकस्य पृच्छा केत्यत आह [भा. १४२४ ] चोएइ भणिऊणं उभयच्छन्नस्स दिज्जइ गणोत्ति । [भा. १४२५] सुत्ते य अनुन्नायं भयवं धरणं पडिच्छन्ने ।। अपरिहाणरिहपरिच्छद अत्थेण जं पुणो परूवेह । एवं होइ विरोहो सुत्तत्थेणं दुवेहंपि ।। बृ- चोदयति प्रश्नयति परो यथा पूर्वमिदमुक्तं उभयच्छिन्नस्य द्रव्यभावपरिच्छदविशेषात् साकल्यपरिकलितस्य गणो दीयते । युक्तं चैतत् यतः सूत्रेऽपिच शब्दोऽपि शब्दार्थे भगवन् धारणंगणधारणमनुज्ञातं परिच्छन्ने द्रव्यभावपरिच्छेदोपेतमात्रे, ततएवमुक्त्वा यदर्हानर्हपरीक्षामर्थेनार्थमर्थमाश्रित्य प्ररूपयथ नन्वेवं सति द्वयोरपि सूत्रयोर्भवति विरोधः । उक्तस्वरूपस्यार्थस्याधिकृतसूत्रेणासूचनात् अत्र सूरिराह [भा. १४२६] संतिहि आयरिय वियज्जगाणि सत्थाणि चोयगसुणाहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482