Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 408
________________ उद्देशक : ३, मूलं : ६६, [भा. १४११ ] ४०७ वृ-योऽसौ चोयग अप्पभु इत्यादिना ग्रन्थेन अप्रभुः पूर्व भणितः स तत्रापि विशेषतः एवोक्तः । इह अस्मिन् प्रस्तावे प्रभुः सूत्रेऽर्थे च विशेष्यते । सूत्रतोऽर्थतश्चतस्याप्रभुत्वं नित्यते इति भावस्तदेवाह[भा. १४१२] अबहुस्सुए अगीयत्थे, दिठंता सप्पसीसवेज्जसुए । अत्थविहूणो धरंते, मासा चत्तारिभारीया || वृ- अबहुश्रुता गीतार्थपदाभ्यां भङ्ग चतुष्टयं । तद्यथा अबहुश्रुतो अगीतार्थ इति प्रथमो भङ्गः १, अबहुश्रुतो गीतार्थः २, बहुश्रुतोऽगीतार्थः ३ बहुश्रुतो गीतार्थः ४ । तत्रयस्य निशीथादिकं सूत्रतोऽर्थतो वा न गतं प्रथमभङ्गः । यस्य पुनर्निशीधादिगतौ सूत्रार्थी विस्मृतौ स द्वितीयभङ्गः । पुनरेकादशाङ्गधारी अश्रुतार्थः स तृतीयभङ्गः ३ सकलकालो चित सूत्रार्थोपेतश्चतुर्थः । अत्र बहुश्रुते अगीतार्थे वा एतेनाद्य भङ्गत्रयमुपात्तं तस्मिन् गणं धारयति । दृष्टान्तौ सर्पशीर्षकं वैद्यसुतश्च । इयमत्र भावना - आद्यानां त्रयाणां भङ्गानामन्यतरो यदि गणं धारयति ततः स सहगणेन विनश्यति यथा सर्पशीर्षकं वैद्यसुतो वा एतत् दृष्टान्तद्वयं यथा कल्पाध्ययने तथा भावनीयम् । अत्थविहूणेत्यादि अर्थविहीने अगीतार्थ इत्यर्थः । अर्थग्रहणमुपलक्षणं ते इत्यपि द्रष्टव्यं तस्मिन् अर्थविहीने सूत्रविहीने वा गणं धारयति उपलक्षणमेतत् निसृजति वा प्रायश्चित्तं चत्वारो भारिया इति गुरुका मासाः । । [ भा. १४१३] अबहुस्सुते अगीयत्थे निसिरए वा विधारए वागणं । तद्देवसियं तस्स उमासा चत्तारिभारिया ।। वृ- अबहुश्रुतोऽगीतार्थो वा यदिगणं निसृजति धारयति वा स्वयं किमुक्तं भवति । आद्यानां त्रयाणां भङ्गानामन्यतरो यदि गणं गीतार्थस्य वा निसृजति स्वयं चाद्यानां त्रयाणां भङ्गानामेकतरः सन् यदि गणं यति । एकं वा विसावुत्कर्षतः सप्तरात्रिं दिवानि ततस्तद्दैवसिकस्तेषां सप्तानां दिवसानां निमित्तत्त्वतस्तस्य गणं निस्रष्टुर्धारयति स प्रायश्चित्तं चत्वारो मासा गुरुकाः ।। [ भा. १४१४ ] सत्तरतं तवो होही ततोच्छेदोपधावती । च्छेदेन छिन्नपरियाए ततो मूलं ततो दुगं ।। वृ- अन्यदन्यतः सप्तरात्रं यावद्गणस्य निसर्जने धारणे वा प्रायश्चित्तं तपो भवति । तपः प्रायश्चित्तपरिसमाप्त्यनन्तरं तपः क्रमेण च्छेदः प्रधावति च्छेदेन चेन्न च्छिन्नः पर्यायो भवति । ततोऽच्छिन्नपर्याये तस्मिन् मूलं दीयते । ततोऽप्यतिक्रमे अन्तिमं द्विकमनवस्थाप्य पाराञ्चितलक्षणं । इयमत्र भावना-प्रथमसप्तदिवसानान्तरमन्यानि चेत् सप्तदिनानि गणं निसृजति धारयति वा स्वयं ततः प्रायश्चित्तं षट् लघु । ततोऽप्यन्यानि सप्तदिनानि ततः षट्गुरु, तदनन्तरमप्यन्यानि चेत् सप्तदिनानि । ततश्चतुर्गुरुकाः च्छेदः । ततोऽप्यन्यसप्तदिनानि ततश्चतुर्गुरुकाः च्छेदः । ततोऽप्यन्यसप्तदिवसातिक्रमे षट्लघुकः च्छेदः । तदनन्तरमप्यन्यसप्तदिवसातिवाहने षट्गुरुकच्छेदः । एतावता कालेन यदि पर्यायो नछिनत्ति । अतस्त्रिंचत्वारिंशत्तमे दिवसे गणं धारयतो निसृष्टुर्वा प्रायश्चित्तं मूलं चतुश्चत्वारिंशत्तमे दिवसे अनवस्थाप्यं पञ्चचत्वारिंशत्तमे पाराञ्चितं तदेवं यत इत्थं प्रायश्चित्तं ततोनिवर्तते आद्यानां त्रयाणां भङ्गानामेकतरः स्थापयितुं, कः पुनर्गणधरः स्थापयितव्यः इति चेदुच्यते शुद्धः । अथ कोऽसौ शुद्ध इति शुद्धलक्षणमाह[भा. १४१५ ] Jain Education International जो सोच उत्थभंगो दव्वे भावे य होइ संच्छन्नो । गणधारणमि अरिहो सो सुद्धो होइ नायव्वो । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482