Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 407
________________ ४०६ व्यवहार - छेदसूत्रम् - १-३/६६ तथा तथा परिवर्धते इतिभावः । तद्व्यतिरिक्तो व्यापारायुक्तस्तस्य गच्छेपरिहानिर्भवति न च निर्जरति । सम्प्रति भावपरिच्छदमाह [ भा. १४०७ ] दंसणनाणचरिते तवे य विणए य होइ भावंमि । संजोगे चउभंगो विईएनायं वइरभूतं ।। वृ- दर्शनं क्षायोपशमिकादिभेदभिन्नं सम्यक्त्वं ज्ञानं मतिज्ञानादि, चारित्रं सामायिकादि, तपोऽनशनादि एव भावे भावतः परिच्छदः । अन्ययोश्च द्रव्यभावपरिच्छदयोः संयोगे चतुर्भङ्गी । यद्यथाद्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्न इत्येवं रूपे द्वितीये भङ्गे ज्ञातमुदाहरणं च वज्रभूतिस्तदेवाहभरुयच्छे नहवाहणा देवी पउमावती च वरभूती । उरोहकत्थगणेय कोउयनिव पुच्छदेविगमो ।। कथत्ति निवासो सयमासण एस चेव चेडिकहा । परिणाममदानं विरूवपडिचार रहिए य ।। [भा. १४०८] [ भा. १४०९ ] वृ- भरुकच्छे नयर नहवाहणो नाम राया । तस्स पउमावती देवी । तत्थ नयरे वइरभूती आयरिओ महाकई अपरिवारो रूवेण य मंदरूवो । अतीव किसो तस्स कव्वं अंतेउरे गिज्जूंति । सा य पउमावती देवी तेन कव्वेण हयहियया कया चिंतेइ जस्सेयं कव्वं कहमहंतं पेच्छिज्जा । ततो राय अनुन्नवित्ता दासी संपरिवुडा महरिहपणागारं औचित्येन ढौकनीयं घेत्तुं वइरभूतिस्स वसहिं गता तं वारट्ठियं पासित्ता वइरभूती सयमेव मिसियं घेत्तुं निग्गतो । पउमावईए कहियं कहं वइरभूती आयरितो । वइरभूतिणा आयरिएण भणितं बाहिंगतो दासीए सन्नियं एस चेव वइरभूती ताहे विरागं गया चिंतेइ य दिट्ठासि कसेरुमती पीयंते पाणियं यं वरं तुहनाम न दंसणयं । अत्र कसेरु नाम नदी तस्याः प्रसिद्धिरतीव नवरं न प्रसिद्ध्यनुरूपं तस्याः पानीयमिति क्षेपः । ताहे तं पणागारदिणं ठवियं एतं आयरियस्स दिज्जासित्ति गया । सम्प्रत्यक्षरघटना-भरुकच्छे नभोवाहनो नाम राजा । तस्य पद्मावती देवी । तत्रवज्रभूतिराचार्यः अवरोधे अन्तः पुरे तत्काव्यगानं कौतुकेन नृपं पृष्ट्वा देव्यास्तद्वसतौ गमस्तदनन्तरं पृच्छा । कुत्र वज्रभूतिराचार्यः । तस्य प्रत्युत्तरं बहिर्निर्गतः स चाचार्यः सपरिवाराभावात् स्वयमासनं गृहीत्वा मध्याद्बहिरागतः । बजया दास्याः कथाकथनमेष एव वज्रभतिस्ततो विपरिणामो विपरिणामाच्च साक्षाददानं विरूपे परिवाररहिते च तस्मिन्नाचार्ये एतेनैतदावेदितंयः परिवारवानपि रूपेण विरूपः । सोऽपि द्रव्यपरिच्छदेन अपरिच्छन्नः । ततो यद्यपि तस्य परिवारोऽस्ति तथापि योऽधस्तात् द्रव्यपरिच्छदो वर्णितस्तस्य मूलमाकृतिस्तदभावे तस्याभावात्तथा चाह[ भा. १४१०] मूलं खलु दव्वपलिच्छयस्स सुंदरिमोरसबलं च । आकितिमतो हि नियमा सेसा वि हवंति लद्धीतो ।। वृ- समस्तस्यापि प्रागुक्तस्य द्रव्यपरिच्छदस्य मूलं खलु सोदर्यमौरसं च बलं हृदयबलिष्टता सर्वव्यापारेषु दाक्ष्यमिति भावः । कुत इति चेदत आह- हि यस्मादाकृयिमतः सतो नियमाच्छेषा अपि लब्ध्यो वस्त्रादिविषया भवन्ति, न त्वाकृतिविरहितस्य प्रत्यक्षत एव दर्शनात् तत आकृतिरहितोऽपि द्रव्यपरिच्छदरहित इति न तस्यापि गणधारणानुज्ञा । सम्प्रति वक्ष्यमाणग्रन्थसम्बन्धनार्थमाहजोसोउ पुव्वभणितो अपभूसो उ अविसेसिओ तहियं । सो चेव विसेसिज्जइ इहई सुत्ते य अत्थेय ।। [ भा. १४११] For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482