Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०४
व्यवहार - छेदसूत्रम् - १- ३/६६
[भा. १३९७] सुत्तेण अत्थेण य उत्तमो उ आगाढपणेसु य भावियप्पा । जच्चनिओ वा वि विसुद्धभावो, संते गुणेवं विकत्थयंति ।।
वृ-सूत्रेणार्थेन च एष उत्तमः प्रधानः परिपूर्णः सूत्रस्यार्थस्य चावदातस्यास्य संभवात् । तथा आगाढा प्रज्ञायेषु व्याप्रियतेन या काचन तान्यागाढ प्रज्ञानि शास्त्राणि तेषु भावितात्मा तात्पर्यग्रहितया तत्रावीत निष्पन्नमतिरिति भावः । तथा जात्या सकल जनप्रशस्ययान्वितो युक्तो जात्यन्वितस्तथा विशुद्धः स्वपरसंसारनिस्तोरेणैकतानतया अवदातो भावोऽभिप्रायो यस्य स विशुद्धभावः । एवं सतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकलक्षणतो विकत्थयन्ते - श्लाघ्यन्ते । एवं च पूज्यभाने आचार्ये पूजकानां यो गुणस्तमुपदर्शयति-
[भा. १३९८] आगमा एवं च बहुमानितोहु, आनथिरतं च अभावितेसु । विनिज्जरविनिययाय निच्चं, माणस्स भंगोवि यदुज्जयं ते ।।
वृ- पूज्यमाने आचार्ये पूजकैरागमो बहुमानितो बहुमानविषयीकृतो भवति । आगमस्य तत्रस्थत्वात्तथा भगवतामर्हतामाज्ञा परिपालिता भवति । भगवतां हि तीर्थ कृता मियमाज्ञा युदत गुरोः सदा पूजा कर्तव्या । तथा चोक्तम्
जहाहि अग्गिजलणं नमसे, नाणो हुती मंतपयाभिसित्तं । एवायरियं उवचिट्ठएज्जा अनंतनाणोवगतो विसंतो ।।
तथा गुरुविनयकरणेन येनाद्यापि भावितातेष्वभावितेषु क्रियमाणपूजादर्शनतः स्थिरत्वमुपजायते । तथा वैनयिकैर्विनयनिमित्ता विनिर्जरा कर्म निर्जरणं सदा सततं भवति । गुरुविनयस्य सदा कर्तव्यत्वात् । तथा मानस्याहंकारस्य भङ्गोऽपि च कृतो भवति । एते पूजकानां गुणाः । सम्प्रति निर्जनार्थमेव गणधारणं व्यवसितस्य पूजामपीच्छतः आचार्यस्य दोषाभावे यस्तडागदृष्टान्तस्तं भावयति । [ भा. १३९९ ]
लोइयधम्म निमित्तं, तडागखाणावियमि पउमादि । नवि गरिहियाणुभे तुं, एमेव इमंपिपासामो ।।
वृ - केनापि लौकिकी श्रुतिमाकर्ण्य धर्मनिमित्तं तडागंखानितं । तस्मिंश्च तडागे पद्मादीनि जातानि । वर्षारात्रे चापगते यत्र यत्र पानीयं शुष्यति तत्र तत्र धान्यं वापयति । तत्र यथा पद्मादीन्यनुभवितुं भोक्तुं गृह्यमाणान्यपि न तस्य गर्हितानि भवन्ति लोके तथा संमतत्वादेवमेवानेनैव प्रकारेण इदमपि गणधारणं पश्यामः । निर्जरार्थमाचार्यमाणं गणधारणमप्युक्तप्रकारेण पूजानिमित्तमप्यदोषायेतिभावः । सम्प्रति सन्तेसेत्यादि पश्चार्धं व्याख्यानयति
[भा. १४०० ] संतंमि उ केवईओ, सिस्सगणोदिज्जतीति ता तस्स । पव्वाविते समाणे तिन्निजहन्नेन दिज्जति ।।
वृ- भावपरिच्छन्नस्य शिष्यस्य सति विद्यमाने परिवारे तेन तस्याचार्यस्य ततो गणधारणानुज्ञापनानन्तरं कियान् शिष्यगणो दीयताम्, । अत्रोत्तरं प्रव्राजितेशिष्यगणो सतितत्रो त्रयो जघन्येन दीयन्ते, उत्कर्षणो बहुतरकाः सर्वे वा इति वाक्यशेषः ।
अथ किं कारणं जघन्यतस्त्रयोऽवश्यं दातव्या इत्यत आहएगो चिट्ठति पासे सन्ना आलित्तमादिकज्जत्था ।
[ भा. १४०१ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482