Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 404
________________ उद्देशकः३, मूलं:६६, [भा. १३९२] ४०३ · वृ- यत् पृच्छसि त्वं यथा द्वितीयभङ्गे द्वितीयभङ्गवर्तिना गणधरेण कस्मात्प्रतिषेधः कृतः? तत्रकारणमिदंश्रृणु । तदेवाह-यदिसे तस्यगणोभवेत्ततोधारयेत् । तदभावेगणाभावेकिंनुधारयेत् ? नैवकिञ्चिदितिभावस्ततोगणाभावादेतस्य गणधारणप्रतिषेधः अपिचतंबहुइत्यादितमपिचभावयेत् । सच्छन्नमपिचबहुनिश्चितमलब्धिकतयाद्रव्यसङ्ग्रहपरिहीनंवस्त्रपात्राथुपकरसङ्घहरहितंशैक्षादयः शैक्षक आदिशब्दात् मुनिवृषभादि परिग्रहः परिहरन्ति । वस्त्राद्यभावात्, तेषांसीदनात् । ततः संग्रहमृते विना सकलं परिपूर्णं गणधारित्वं कथं भवति नैव भवतीति भावस्तदभावाच्च तस्य तत्प्रतिषेध इदमलब्धिकमधिकृत्योक्तम् । यदि पुनर्द्वितीयभङ्गवर्त्यपि वक्ष्यमाणगुणैरुपेतो भवति, ततोऽनुज्ञाप्यतापि, गणधारी दोषाभावाच्चतथा चाह[भा.१३९३] आहारवत्थादिसुलद्धिजुत्तं आदेज्जवक्कं चअहीनदेहं । सकारभजंमइमंमिलोए, पूयंतिसेहायपिहुजनाय ।। वृ-आहारवस्त्रादिलब्धियुक्तमादेयवाक्यमहीनदेहं परिपूर्णदेहावयवं तथा मतिमंमिलोकं सत्कारभाजविद्वज्जनपूज्यमित्यर्थः । शैक्षकाः पूजयन्तिपाठान्तरं सक्कारहजंमिइमंमिलोए' तत्रायमर्थः सत्कारेण ह्रियते आक्षिप्यते इतिसत्कारहार्योऽयं यतो लोकस्तत एवं भूतेऽस्मिन् लोके आहारवस्त्रादिषु लब्धियुक्तमित्यादिगुणैः शैक्षकाः पूजयन्तिपृथगजनश्चबहुमन्यते ।ततःस तादृशोगणधारी कर्तव्यः । सम्प्रति पूयापडिसेहेइति पदेव्याख्यानयन्नाह[भा.१३९४] पूयत्नाम गणोधारिजातिएवं नवसितो सुणतो। आहारोवहिपूया कारणनगणोधरेयव्यो ।। वृ-पूजांप्राप्नुनुयामित्येवमर्थनामगुणोध्रियते । इत्येवंकश्चित्व्यवसितोऽभ्युपगतवान्, । एतावता पूया इत्यंशो व्याख्यातः । अत्राचार्यः प्राह-श्रृणुत यदर्थं गणोध्रियते, तत्र परोक्तप्रतिषेधमाहआहारोपधिपूजाकरणेन उत्कृष्टःआहारःशोभन उपधिर्महती पूजास्यादितिकारणतोऽत्रविभक्तिलोपः प्राकृत्वात्न गणोधारयितव्यः । एतावता प्रतिषेध इति विधृतं, । किमर्थंतर्हिगणोधारयितव्य इत्यत आह[भा.१३९५] कम्माणनिजट्टा एवंखुगणोभवेधरेयव्यो । निज्जरहेतुववसिया पूर्यपिच केइइच्छंति ।। वृ-एवमनेन कारणेन खु निश्चितं भवति गणो धारयितव्यो यदुत कर्मणां ज्ञानावरणीयादीनां निर्जरार्थं मोक्षायैव तत्ववेदिनां प्रवृत्तेराहादीनां चैहिकत्वात् । केवलं केचित् स्थविरकल्पिका निर्जराहेतोः गणधारणं व्यवसिताः पूजामपि वक्ष्यमाण लक्षणामिच्छन्ति । किमुक्तं भवति ? यद्यपि नाम तत्वतः कर्मनिर्जरणनिमित्तं गणो ध्रियते तथापि पूजामेष प्राप्नुयादिति पूजानिमित्तमपि तस्य मणधारणमनुज्ञाप्यते । पूजामेवाह[भा.१३९६] गणधारिस्साहारो उवकरणंसंथवोय उक्कोसो। सक्कारो सीसपडिच्छएहिं गिहि अन्नतित्थीहिं ।। वृ-गणधारणिःसत उत्कृष्टआहार उत्कृष्टमुपकारणुत्कृष्टंसंस्तवः सतांगुणानां प्रख्यानंतथा शिष्यैः प्रतीच्छकै हिभिरन्यतीर्थिकैश्चोत्कृष्टः सत्कार उपाध्यायादिभिः पूजनं क्रियते । ततः पूजानिमित्तमपितस्य गणधारणमनुज्ञापनं, संस्तवं व्याख्यानयति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482