Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 403
________________ ४०२ व्यवहार - छेदसूत्रम् - १- ३ / ६६ वृ- चोदयति परो यथा-यः स लब्धिको भावेन चयोऽसंच्छन्नपरिच्छदरहितो न पूर्वमेव वस्त्रादीनि पिण्डयति । किन्तु कार्ये समुत्पन्नेगृह्णाति । तस्य किं कस्मात्कारणात्गणो न दीयते प्रागुक्तदोषा संभवात्, अत्र सूरि राह [भा. १३८८ ] चोयग अप्पन्भूय असतीपूया, पडिसेह निज्जरतलाए । संतं से अनुजाणसि, पव्वाविए-तिनिच्छासे ।। 1 बृ-चोदक! सभावतोऽपरिच्छन्नोऽप्रभु रहितोऽतस्मात्तस्मै गणो न दीयते, एतौ तृतीय भंगवर्त्तिन्याक्षेप परिहारौ असतिति यस्य गणो नास्ति तस्य तृतीयभङ्गवर्तिन आक्षेपपरिहारावभिधातव्याविति वाक्यशेषः । तथा पूयत्ति पूजार्थे गणो ध्रियते इति कस्यापि वचनं तस्य प्रतिषेधो वक्तव्यः । किन्तु निर्जरार्थे गणो धारणीय इति वाच्यं निज्ररार्थे व्यवसिताः केचित् पूजामपीच्छन्ति । तत्र निर्जरार्थ गणं धारयतः पूजामपि प्रतीच्छत आचार्यस्य यथा न दोषः तथा तडागं दृष्टान्तत्वेन दृष्टव्यं । तथायो भावतः परिच्छिन्नशिष्योलब्धिमांश्च शतं परिवार से तस्यात्मीयस्याचार्यस्यानुजानाति । कियंतमित्थाह, जधन्यत स्त्रीन्प्रव्राजितान् किमुक्तं भवति ? जधन्यतस्त्रयः प्रव्रजिता अवश्यं दातव्याः इच्छा सेति इच्छा वा से तस्य आचार्यस्येयमत्र भावना | आचार्य आत्मनो यथेच्छ्या त्रीन् वा बहुतरान्वा सर्वान् वा प्रव्राजितान् गृह्णाति । एष गाथासंक्षेपार्थो व्यासार्थं तु भाष्यकृत् विवक्षुः प्रथमतः चोयग अप्पभुत्तिपदं व्याख्यानयति [भा. १३८९] भणइ अविगीयस्स हु उवगरणादीहिं जइ वि संपत्ती । तहवि न सो पत्तो वोढव्वे करीलकाउव्व ।। वृ- चोदकेनाक्षेपे प्रागुक्ते कृते सति प्रतिवचनं भण्यते-अविगीतस्य विशिष्टगीतार्थत्वरहितस्य हु निश्चितं यद्यपिउपकरणादीनामुपकरणशिष्यादीनां गाथायांतृतीया षष्ठ्यर्थे प्राकृतत्वात् सम्पतिस्तथापि न स पर्याप्तः समर्थो वोढव्ये उत्क्षिप्ते गणभारे किमिवेत्यत आह-करीलकाउव्व करीलो नाम वंशजाति विशेषो दुर्बलस्तन्मयी कापोतीव कस्माद्गणभारवहने न समर्थ इति अत आह— [ भा. १३९० ] न यं जाणइ वेणइयं कारावेउं न यावी कुव्वति । तइयस्स परिभवेणं सुत्तत्थेणं अपडिवद्धा ।। वृ वा यस्मादर्थे यस्मान्न जानाति विनय एव वैनयिकं । किं विनयादिभ्य इति स्वार्थे इकणप्रत्ययः अतिवर्तन्ते । स्वार्थे कप्रत्ययः प्रकृत (ति) लिङ्गवचनानीति वचनात् विनयशब्दस्य पुंस्त्वेऽपि प्रत्यये समानीते नपुंसकलिङ्गता । तत् न शिष्यान् कारयितुमगीर्तात्वात् । न च तस्य गणपार्श्वे सूत्रमर्थो वा भावतोऽसंच्छन्नत्वात् । ततः सूत्रार्थाभ्यां गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् । अप्रतिबद्धाः सन्तः शिष्याः परिभवमेव केवलं मन्यन्ते, जन्मनो निष्फलीभवनात् तेन च परिभवेन तस्य तृतीयस्य तृतीयभङ्गवर्तिनो वैनयिकं कारयितुं जानतोऽपि न चापि न चैवं ते शिष्या विनयं कुर्वन्ति । तस्मान्न तृतीयभङ्गचर्ती गणधारणयोग्यः । साम्प्रतमसतित्ति पदंव्याख्यानयन् द्वितीयमङ्गगतावाक्षेपपरिहारावाहबियभंगे पडिसेहो जं पुच्छसि तत्थ कारणं सुणसु । .. जइ से होज धरेज्जा तदभावे किं न धारेउ ।। तं पियहु दव्वसंगह परिहीणं परिहरति सेहादी । संगहिरिए य सयलं गणधारी तं कहं होइ ।। [ भा. १३९१] [भा. १३९२] For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482