________________
४०२
व्यवहार - छेदसूत्रम् - १- ३ / ६६
वृ- चोदयति परो यथा-यः स लब्धिको भावेन चयोऽसंच्छन्नपरिच्छदरहितो न पूर्वमेव वस्त्रादीनि पिण्डयति । किन्तु कार्ये समुत्पन्नेगृह्णाति । तस्य किं कस्मात्कारणात्गणो न दीयते प्रागुक्तदोषा संभवात्, अत्र सूरि राह [भा. १३८८ ]
चोयग अप्पन्भूय असतीपूया, पडिसेह निज्जरतलाए । संतं से अनुजाणसि, पव्वाविए-तिनिच्छासे ।।
1
बृ-चोदक! सभावतोऽपरिच्छन्नोऽप्रभु रहितोऽतस्मात्तस्मै गणो न दीयते, एतौ तृतीय भंगवर्त्तिन्याक्षेप परिहारौ असतिति यस्य गणो नास्ति तस्य तृतीयभङ्गवर्तिन आक्षेपपरिहारावभिधातव्याविति वाक्यशेषः । तथा पूयत्ति पूजार्थे गणो ध्रियते इति कस्यापि वचनं तस्य प्रतिषेधो वक्तव्यः । किन्तु निर्जरार्थे गणो धारणीय इति वाच्यं निज्ररार्थे व्यवसिताः केचित् पूजामपीच्छन्ति । तत्र निर्जरार्थ गणं धारयतः पूजामपि प्रतीच्छत आचार्यस्य यथा न दोषः तथा तडागं दृष्टान्तत्वेन दृष्टव्यं । तथायो भावतः परिच्छिन्नशिष्योलब्धिमांश्च शतं परिवार से तस्यात्मीयस्याचार्यस्यानुजानाति । कियंतमित्थाह, जधन्यत स्त्रीन्प्रव्राजितान् किमुक्तं भवति ? जधन्यतस्त्रयः प्रव्रजिता अवश्यं दातव्याः इच्छा सेति इच्छा वा से तस्य आचार्यस्येयमत्र भावना | आचार्य आत्मनो यथेच्छ्या त्रीन् वा बहुतरान्वा सर्वान् वा प्रव्राजितान् गृह्णाति । एष गाथासंक्षेपार्थो व्यासार्थं तु भाष्यकृत् विवक्षुः प्रथमतः चोयग अप्पभुत्तिपदं व्याख्यानयति
[भा. १३८९] भणइ अविगीयस्स हु उवगरणादीहिं जइ वि संपत्ती । तहवि न सो पत्तो वोढव्वे करीलकाउव्व ।।
वृ- चोदकेनाक्षेपे प्रागुक्ते कृते सति प्रतिवचनं भण्यते-अविगीतस्य विशिष्टगीतार्थत्वरहितस्य हु निश्चितं यद्यपिउपकरणादीनामुपकरणशिष्यादीनां गाथायांतृतीया षष्ठ्यर्थे प्राकृतत्वात् सम्पतिस्तथापि न स पर्याप्तः समर्थो वोढव्ये उत्क्षिप्ते गणभारे किमिवेत्यत आह-करीलकाउव्व करीलो नाम वंशजाति विशेषो दुर्बलस्तन्मयी कापोतीव कस्माद्गणभारवहने न समर्थ इति अत आह—
[ भा. १३९० ]
न यं जाणइ वेणइयं कारावेउं न यावी कुव्वति ।
तइयस्स परिभवेणं सुत्तत्थेणं अपडिवद्धा ।।
वृ वा यस्मादर्थे यस्मान्न जानाति विनय एव वैनयिकं । किं विनयादिभ्य इति स्वार्थे इकणप्रत्ययः अतिवर्तन्ते । स्वार्थे कप्रत्ययः प्रकृत (ति) लिङ्गवचनानीति वचनात् विनयशब्दस्य पुंस्त्वेऽपि प्रत्यये समानीते नपुंसकलिङ्गता । तत् न शिष्यान् कारयितुमगीर्तात्वात् । न च तस्य गणपार्श्वे सूत्रमर्थो वा भावतोऽसंच्छन्नत्वात् । ततः सूत्रार्थाभ्यां गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् । अप्रतिबद्धाः सन्तः शिष्याः परिभवमेव केवलं मन्यन्ते, जन्मनो निष्फलीभवनात् तेन च परिभवेन तस्य तृतीयस्य तृतीयभङ्गवर्तिनो वैनयिकं कारयितुं जानतोऽपि न चापि न चैवं ते शिष्या विनयं कुर्वन्ति । तस्मान्न तृतीयभङ्गचर्ती गणधारणयोग्यः । साम्प्रतमसतित्ति पदंव्याख्यानयन् द्वितीयमङ्गगतावाक्षेपपरिहारावाहबियभंगे पडिसेहो जं पुच्छसि तत्थ कारणं सुणसु । .. जइ से होज धरेज्जा तदभावे किं न धारेउ ।। तं पियहु दव्वसंगह परिहीणं परिहरति सेहादी । संगहिरिए य सयलं गणधारी तं कहं होइ ।।
[ भा. १३९१]
[भा. १३९२]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org