________________
उद्देशक : ३, मूलं : ६६, [भा. १३८२]
४०१
ऊसीसएणं सेज्जं चडिहिति, । ततो हं किं ऊसीसएणं सेज्जं चिडिहित्ति पन्हीए आहनिस्सामिति पादो उच्छूढो तेन सा घडि भग्गा अक्षरयोजना त्वियम्-द्रमको रंकः स व्रजिकायां गोकुले गतः । तेन दुग्धपानानन्तरं क्षीरभृता घटिका लब्धा सा गृह गतेन खट्वाया उच्छीर्षकमूले स्थापिता । ततश्चिन्ताऽभूत् । किं विषयेत्यत आह- कुक्कुढ्यः क्रेतव्याः । तदनन्तरं तासां प्रबन्धेन प्रसवः । पुनस्तस्य मूल्येन विक्रयस्ततो वृद्धिप्रयोगेन धनपिण्डनं कृत्वा समाणेतरमिति समानां समानकुलप्रसुता मितरामसमानकुलपसूतां कन्यां परिणीय तां कुलमदेनोच्छीर्षक चटन्तीं पदेनाहनिष्यामीति दुग्धघटिकायाः भिन्दनमकार्षीत् ।। अत्रोपनयमाह
[ भा. १३८३ ] पव्वावइत्ताण बहुओस्सिसे, पच्छा करिस्सामि गणाहिवच्चं । इच्छा विगप्पेहिं विस्सरमाणो, सज्झायमेवं न करेइ मंदो ।।
वृ- बहून् शिष्यान् परिव्राज्य पश्चात्करिष्यामि गणाधिपत्यं, एवमिच्छाविकल्पैः स मन्दो नित्य कालं विस्तरयन् सूत्रार्थपौरुर्षी न करोतित्यर्थः । ताश्चाकुर्वाणः पूर्वगृहीतान् सूत्रार्थान् नाशयति यथा स द्रमको दुग्धघटिकां नाशितवान् । । सम्प्रति तृतीयभङ्गे उदाहरणमाह
[भा. १३८४ ]
गावीत रक्खतो, घेतुं च भत्तीए पहिया तत्तो ।
[भा. १३८५ ]
वो गोग्गो होति वच्छिगा तत्थ ।। तेसिं तु दामगाई करेमि मोरंगचूलियाओय । एवं तु तइय भंगे, वत्थाई पिंडणमगीओ ।।
वृ- एगो गोवो । सो मावीओ क्खंतो चिंतेइ, अहं गोरक्खणमोल्लेण पड्डियातो गहिस्सामि । ततो से पवड्ढमाणो गोवग्गो भविस्सत्ति । तम्मिय पवड्ढमाणे गोवग्गे वच्छगाओ बहुयाओ होहिति ततो करेमि तास्त्रिं जोगाउ मोरंगचूलियाओय । एवं चिंतिता सो तहा पकरेति । एवमगीयत्थो विभावेणा पलिच्छन्नो तइयमंगिल्लो बहुगे परिवारे चिंतेति इति वत्थादीणि पिंडेति । अक्षरयोजना त्वियम् - गो-रक्षन् प्रवर्धमान गोवर्गेवत्सिका भविष्यन्ति।ततो तस्तासां योग्यानि दामकानि करोमि मयूराङ्गचूलिकाश्च मयूराङ्गचूलिका आभरणविशेषरुपा । एवं चिन्तयित्वा स तथा प्रकृतवान् । तन्नोपनयमाह एवं तु एवमेव तुरेवकारार्थस्तृतीयभङ्गवर्तमानस्य अगीतेऽगीतार्थस्य वस्त्रादिपिण्डनमवगन्तव्यम् । अस्य यद्यपि परिवारो नास्ति तथा वस्त्रादिषु लब्धिरस्तीति द्रव्यतः परिच्छन्नत्वमङ्गीकृत्य तृतीयभङ्गे इत्युक्तम् ।। ताई बहहिं पडिलेहियंतो अद्धाणमाईसु य संवहंतो ।।
[ भा. १३८६ ]
- एमेव वा सम्मतिरत्तिगं से, वातादि खोभय एव हानी ।।
वृतानि वस्त्राणि बहूनि प्रतिदिवसमुभयकालं प्रतिलेखयन् अप्रतिलेखन् प्रायश्चित्तापत्तेरद्धादिषु अध्वनि मार्गे आदिशब्दाद्वसत्यन्तरसंक्रमणादौ च संवहन् श्राम्यति । श्रमाच्च ग्लानत्वं ग्लानत्वेव संयमविराधना सूत्रहानिश्च । एवमेव अनेनैव प्रकारेण वर्षास्वपि दोषा वाच्याः केवलं से तस्य उभयकालं तानि प्रतिलेखयतोऽतिरिक्तकर्म अतिरेकेण वातदिक्षोभो भवति । तथा वसति सुदीर्धं श्रुते सूत्रस्य च शब्दार्थस्य च परिहानिः ।। अत्र परस्यावकाशमाह -
[भा. १३८७]
21 26
Jain Education International
चोदेति न पिंडेति य कज्जे गिण्हति य जो स लद्धीओ । तस्स न दिजइ किं गणो । भावेण जो उ संच्छन्नो ।।
For Private & Personal Use Only
www.jainelibrary.org