________________
उद्देशक : ३, मूलं : ६६, [भा. १४११ ]
४०७
वृ-योऽसौ चोयग अप्पभु इत्यादिना ग्रन्थेन अप्रभुः पूर्व भणितः स तत्रापि विशेषतः एवोक्तः । इह अस्मिन् प्रस्तावे प्रभुः सूत्रेऽर्थे च विशेष्यते । सूत्रतोऽर्थतश्चतस्याप्रभुत्वं नित्यते इति भावस्तदेवाह[भा. १४१२] अबहुस्सुए अगीयत्थे, दिठंता सप्पसीसवेज्जसुए । अत्थविहूणो धरंते, मासा चत्तारिभारीया ||
वृ- अबहुश्रुता गीतार्थपदाभ्यां भङ्ग चतुष्टयं । तद्यथा अबहुश्रुतो अगीतार्थ इति प्रथमो भङ्गः १, अबहुश्रुतो गीतार्थः २, बहुश्रुतोऽगीतार्थः ३ बहुश्रुतो गीतार्थः ४ । तत्रयस्य निशीथादिकं सूत्रतोऽर्थतो वा न गतं प्रथमभङ्गः । यस्य पुनर्निशीधादिगतौ सूत्रार्थी विस्मृतौ स द्वितीयभङ्गः । पुनरेकादशाङ्गधारी अश्रुतार्थः स तृतीयभङ्गः ३ सकलकालो चित सूत्रार्थोपेतश्चतुर्थः । अत्र बहुश्रुते अगीतार्थे वा एतेनाद्य भङ्गत्रयमुपात्तं तस्मिन् गणं धारयति । दृष्टान्तौ सर्पशीर्षकं वैद्यसुतश्च । इयमत्र भावना - आद्यानां त्रयाणां भङ्गानामन्यतरो यदि गणं धारयति ततः स सहगणेन विनश्यति यथा सर्पशीर्षकं वैद्यसुतो वा एतत् दृष्टान्तद्वयं यथा कल्पाध्ययने तथा भावनीयम् । अत्थविहूणेत्यादि अर्थविहीने अगीतार्थ इत्यर्थः । अर्थग्रहणमुपलक्षणं ते इत्यपि द्रष्टव्यं तस्मिन् अर्थविहीने सूत्रविहीने वा गणं धारयति उपलक्षणमेतत् निसृजति वा प्रायश्चित्तं चत्वारो भारिया इति गुरुका मासाः । ।
[ भा. १४१३]
अबहुस्सुते अगीयत्थे निसिरए वा विधारए वागणं । तद्देवसियं तस्स उमासा चत्तारिभारिया ।।
वृ- अबहुश्रुतोऽगीतार्थो वा यदिगणं निसृजति धारयति वा स्वयं किमुक्तं भवति । आद्यानां त्रयाणां भङ्गानामन्यतरो यदि गणं गीतार्थस्य वा निसृजति स्वयं चाद्यानां त्रयाणां भङ्गानामेकतरः सन् यदि गणं यति । एकं वा विसावुत्कर्षतः सप्तरात्रिं दिवानि ततस्तद्दैवसिकस्तेषां सप्तानां दिवसानां निमित्तत्त्वतस्तस्य गणं निस्रष्टुर्धारयति स प्रायश्चित्तं चत्वारो मासा गुरुकाः ।।
[ भा. १४१४ ]
सत्तरतं तवो होही ततोच्छेदोपधावती । च्छेदेन छिन्नपरियाए ततो मूलं ततो दुगं ।।
वृ- अन्यदन्यतः सप्तरात्रं यावद्गणस्य निसर्जने धारणे वा प्रायश्चित्तं तपो भवति । तपः प्रायश्चित्तपरिसमाप्त्यनन्तरं तपः क्रमेण च्छेदः प्रधावति च्छेदेन चेन्न च्छिन्नः पर्यायो भवति । ततोऽच्छिन्नपर्याये तस्मिन् मूलं दीयते । ततोऽप्यतिक्रमे अन्तिमं द्विकमनवस्थाप्य पाराञ्चितलक्षणं । इयमत्र भावना-प्रथमसप्तदिवसानान्तरमन्यानि चेत् सप्तदिनानि गणं निसृजति धारयति वा स्वयं ततः प्रायश्चित्तं षट् लघु । ततोऽप्यन्यानि सप्तदिनानि ततः षट्गुरु, तदनन्तरमप्यन्यानि चेत् सप्तदिनानि । ततश्चतुर्गुरुकाः च्छेदः । ततोऽप्यन्यसप्तदिनानि ततश्चतुर्गुरुकाः च्छेदः । ततोऽप्यन्यसप्तदिवसातिक्रमे षट्लघुकः च्छेदः । तदनन्तरमप्यन्यसप्तदिवसातिवाहने षट्गुरुकच्छेदः । एतावता कालेन यदि पर्यायो नछिनत्ति । अतस्त्रिंचत्वारिंशत्तमे दिवसे गणं धारयतो निसृष्टुर्वा प्रायश्चित्तं मूलं चतुश्चत्वारिंशत्तमे दिवसे अनवस्थाप्यं पञ्चचत्वारिंशत्तमे पाराञ्चितं तदेवं यत इत्थं प्रायश्चित्तं ततोनिवर्तते आद्यानां त्रयाणां भङ्गानामेकतरः स्थापयितुं, कः पुनर्गणधरः स्थापयितव्यः इति चेदुच्यते शुद्धः ।
अथ कोऽसौ शुद्ध इति शुद्धलक्षणमाह[भा. १४१५ ]
Jain Education International
जो सोच उत्थभंगो दव्वे भावे य होइ संच्छन्नो । गणधारणमि अरिहो सो सुद्धो होइ नायव्वो ।
For Private & Personal Use Only
www.jainelibrary.org