Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : २, मूलं:६२, [भा. १३३०]
३८५ परिहारिकाः परस्परं परिहारिकैः सममुपलक्षणमेतत् । अपरिहारिकैर्वा सममेकत्र न संभुञ्जते । आलापनादीनि कुर्वन्ति तत उपरितनमास परिपूर्णो भवनानन्तरं पश्चात् सर्वेऽपि पारिहारिका अपरिहारिकाश्च एकत एकत्रस्थाने सर्वप्रकारैर्भुञ्जते । एत सूत्र संक्षेपार्थः । अत्र पर आह-ननु बहवः परिहारिका अपरिहारिकाश्चकथमेकत्रसंभवन्तियेनाधिकृतंसूत्रमुपपद्येततत आह[भा.१३३१] कारणिगातेलीनाबहुगा परिहारिकाभवेज्जाहि ।
। अपरिहारियभोगो परिहारिनभुज्जएबहवो ।। वृ- बहवः पारिहारिका एकत्र मिलिता भवेयुः कारणिकाः कारणवशेनेति भावः ततो नाधिकृत सूत्रानुपपत्तिः तत्रापरिहारिकाणामेकत्रपरस्परंभोगोभवति । एतावतातेअनमनं संभुञ्जतीतिव्याख्यातं यस्तु परिहारी स परिहारतपो वहन् परिहारिभिर्वा समं न भुङ्क्ते । एतेन अन्नमन्नंनो संभुञ्जतीति व्याख्यातम् । पारिहारिका नामये परिहारतपोरूपंप्रायश्चित्तं प्रपन्नाः । ये पुनः परिहारतपोरूपंप्रायश्चित्तं नप्रतिपन्नास्ते अपरिहारिकास्तत्र परिहारतपः प्रतिपादनविधिः परिहरणविधिश्च निशीथाध्ययने कल्पे चव्यावर्णितो यस्तु तत्र नोक्तस्तमिदानी प्रतिपिपादयिषुराह[भा.१३३२] गिम्हाणं आवणो चउसुवि वासातुदेतिआयरिया।
पुनमि मासवज्जण अपुने मासियं लहुयं ।। वृ- इह ग्रीष्मग्रहणेन ऋतुबद्धकालग्रहणं तेषामृतुबद्धानां मासानां मध्ये एकमासं यावत् षण्मासं तावत्परिहारतप; समापन्नस्तद्वर्षारात्रेचतुर्युमासेष्वपिदीयतेअत्रार्थे च कारणंस्वयमेव वक्ष्यति यस्तु षण्मासं परिहारतपः प्रपन्नस्तस्य पूर्णेषण्मासे उपरि मासवर्जनं मासं यावदेकत्रभोजनवर्जनम् । एतेन मासादिके परिपूर्णी पञ्चरात्रिंदिवानि भोजनवर्जनमुपलक्षितं । तच्चानन्तरगाथायां स्वयमेव वक्ष्यति, । तत्र यावद्भोजनं प्रतिषिद्धं, तत्र तावत् परिपूर्णेभोजनं कुर्वतः प्रायश्चित्तं मासिकं लघुसम्प्रतिपुर्नमि मासवजणमित्येतद्व्याचिख्यासुराह[भा.१३३३] . पनगंपनगं, वज्जेज्जइमासो छण्हमासाणं ।
नयभद्द पंतदोसा, पुव्वुत्तगुणायतो वासो ।। वृ-मासेमासेपञ्चकंपञ्चकंपरिवर्धमानंतावत्पर्यन्तेयावत्षणांमासानामुपरिमासोवऱ्याते, इयमत्र भावना-यो मासिकं परिहारतप आपन्नस्तस्य मासं वहतः पूर्वोक्तो विधिः आला(ल) पनवर्जनादिको वेदितव्यः । मासे तु व्यूढे उपरि पञ्चरात्रिंदिवानि यावदालापनादीनि सर्वाणि क्रियन्ते, नवरमेकं भोजनमेकवावय॑ते । एवंयौद्वौमासावापन्नस्तस्यदशरात्रिंदिवानि, यस्त्रीन्मासान्तस्यपञ्चदशचश्चतुरो मासान्तस्यविंशतिः,यःपञ्चमासान्तस्यभिन्नमासं यावत्यस्तुषण्मासान्नापन्नस्तस्यषण्मासेषुव्यूढेषु उपरिमास यावदेकत्रभोजनमेकं वय॑ते । शेषं त्वालापनादिकं सर्वं सर्वत्र दशरात्रिं दिवादौ क्रियते, । अथकस्माहतुबन्धेषु मासेष्वापन्नस्यापिवर्षारात्रैः तपो दीयते, । अत आह-नयभद्दपंत दोसा इत्यादि ऋतुबद्धे काले यदि परिहारतपो दीयते ततस्तस्मिन् दत्ते सति यदिमासकल्पेपरिपूर्णेसति विहरन्तितर्हि परिहारिकाणांपरितापनादिदोषप्रादुर्भावः ।अथन विहरन्तिततोभद्रकप्रान्तकृतदोषसम्भवः ।भद्रकृता दोषा उद्गमादिकरणं, प्रान्तकृतदोषा अति चिरावस्थाने चमढनादिका, वर्षाकाले त्वेतेदोषाः प्रायो न संभवन्ति, । सर्वदर्शनिनां वर्षाकालस्य तपोऽनुष्टानाअयतया सम्मतत्वेन कस्यचिदपि विशेषतः 21125]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482