Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 389
________________ ३८८ व्यवहार - छेदसूत्रम् - १-२/६३ तेषामनुग्रहणाय मण्डलीबन्धकरणं, मण्डलीबन्धे च कृते कस्यचिदजीर्णं भवति । जीर्णेऽपिच कोऽपि काश्चित् विकृतीर्भुङ्क्तेन सर्वाः सर्वास्ततः प्रचुरविकृतिलाभे सर्वजनानुग्रहाय परिभाजनं क्रियते । तत्र स परिहारकल्पस्थितोऽपि भिक्षुस्तपः शोषितशरीर इति तस्य विकृतिविषये ध्युपपातश्रद्धा जाता । अथवा पूर्वं संदैव तस्यां विकृतौ भावित इति तद्भावनया तस्यामध्युपपत्तौ जात स्वत एव तत्सथविरा ज्ञात्वा तदनुग्रहाय परिमिते विकृतिर्लाभे सति असनू अविद्यमानोऽन्यपरिभाजन कुशलो यः सर्वेषामौचित्येनापूरयति सोऽपि च परिहारकल्पस्थितः परिभाजनकुशल इति । सर्वसाधूनां वचनेन प्रकाश्यैवं वदति अहो आर्य! गाथायामोकारान्तता प्राकृतलक्षणवशात् त्वमेतेभ्यः साधुभ्यः परिभाजय, यदि पुनः उच्चूरं नानाविधं भवति । प्रचूरमतिप्रभूतं घृतादिलब्धं भवति तदा उच्चूरप्रच्चूरलाभे अगीतव्यामोहननिमित्तं अगीतार्था मा विपरिणमन्त्विति । यथा तद्वा कारणं वचसा प्रकाश्य तद्व्यामोहननिमित्तमेवं ब्रुवते आर्य त्वं साधुभ्यः परिभाजय । [ भा. १३४१ ] परिभाईय संसट्टे, जो हत्थं संलिहावए परेण । फुसइव कुड्डेइच्छड्डे अननुण्णाए भवे लहुओ || वृ- आचार्योपदेशने परिभाजिते सति तस्य हस्तः संसृष्टो घृतादिना लिप्तो भवति तस्मिन् संसृष्टे यदि तथैव संसृष्टेन हस्तेनावतिष्ठते तर्हि प्रायश्चित्तं मास लघु, यथा हस्तं परेण संलेहापयति, तस्यापिप्रायश्चित्तं मास लघु । अथवा कुड्ये हस्तं स्पृशति तत्रापि मास लघु अथवा काष्टेन निघृष्य च्छर्दयति तत्रापि मासलघु, । अथाननुज्ञातः सन् स्वयं लेढिहस्तं तदापि । [भा. १३४२ ] कप्पइय दिन्नंमी चोयगवयणं च सेस सूपस्स । एवं कप्पइ अप्पायणं च कप्पट्ठिती चेसा ।। 9 वृ- वितीर्णे अनुज्ञाते सति कल्पति स्वयं स्वहस्तं परिलेढुं । इयमत्र भावना-यद्याचार्यः समादिशति त्वं स्वहस्तं घृतादि विकृति खरंटितं स्वयमेव लेढि, ततः स लेढि । चशब्दादन्यदपि यत्परिभाजितशेषं तदप्याचार्येणानुज्ञातं भुङ्क्ते । चोयग वयणं चेति अत्र चोदकवचनं यथा कथं परिहारिकस्य विकृतेरनुज्ञापनं युक्तमिति सूरिराह-सेस सूपस्स सूपकारकस्य यथा शेष माभाव्यं भवति तस्यापीति भावः । एतदुक्तं भवति यथा सूपकारः केनापि स्वामिना संदिष्ट एतावत्प्रमाणैस्तन्दुलमुद्रादिभिर्भक्तं निष्पाद्यैतावतः पुरुषान् भोजय, एवमादेशे लब्धे साधिते भक्ते भोजितेषु च पुरुषेषु यच्छेषमुद्धरति तत्सर्वं सूपकारस्याभाव्यम् एवमाचार्योपदेशतः परिहारिकेन परिभाजिते यच्छेषमुद्धरति तत्तस्य परिहारिकस्याभाव्यं, सूपकारदृष्टान्तं उपलक्षणंतेनापूपिकदृष्टान्तोऽपि वेदितव्यः । स चैवं केनाप्यापूपिक आदिष्ट एतावता कणिक्कादिना द्रव्येण एतावत्प्रमाणमण्डकादिकर्तव्यमेवमादेशे लब्धे तथैव मण्डकादिके निष्पादिते शेषं यदुद्धरति मण्डकादि तदा पूपिकस्या भवत्येवं परिहारिकस्यापि, तत एवं तपः शोषित शरीरस्याप्यायन निमित्तमाचार्यस्य कल्पते अनुज्ञापनमित्यदोषः, इतरस्त्वदोषः कल्पस्थितिरेषा यत ग्लायत आप्यायन निमित्तमेव मनुज्ञापनं कर्तव्यं, येन शेषं प्रायश्चित्ततपः सुखेन वहतीति सूपकारदृष्टान्तमेव सविस्तरं भावयति [ भा. १३४३ ] एवइयाणं भत्तं करेहि दिनंमि सेस यं तस्स । इय भाइय पज्जते सेसुव्वरियं च देंतस्स ।। वृ- एतावद्भिस्तन्दुलादिकैरेतावद्भक्तं कुर्विति समादेशे लब्धे निष्पादितेभक्ते दत्ते चोक्तप्रमाणेभ्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482