Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 395
________________ ३९४ व्यवहार - छेदसूत्रम्-१-३/६६ वृ- एवमेवानेनैव नामगतेन प्रकारेण भवति स्थापना स्थापनेच्छा अतिदेशोक्तमेव यदिच्छति निक्षिप्यतेसास्थापनाचासाविच्छाचस्थापनेच्छेति व्युत्पत्तेः स्थापनेच्छा । यतःस्थापनामिच्छतिसा स्थापनेच्छा स्थापनाया इच्छा स्थापनेच्छेति व्युत्पत्तेः, द्रव्येच्छा द्विधा । आगमतो नो आगमतश्च । तत्र आगमत इच्छापदार्थज्ञाता तत्र चानुपयुक्तो नोआगमतस्त्रिधा-ज्ञशरीर भव्यशरीर तदव्यतिरिक्तभेदात् । तत्रज्ञशरीरभव्यशरीरे प्राग्वत् । तदव्यतिरिक्ता यत् द्रव्यमिच्छतिसाच त्रिधासचित्तद्रव्येच्छा, अचित्तद्रव्येच्छा, मिश्रद्रव्येच्छा । तत्रसचित्तद्रव्येच्छात्रिधा-द्विपदचतुष्पदापदभेदात् । तत्र द्विपदसचित्तद्रव्येच्छा-यत्र स्त्रियमिच्छति पुरुषमिच्छति इत्येवमादि । चतुष्पदसचित्तद्रव्येच्छायदश्वमिच्छति गामिच्छतीत्यादि । अपदसचित्तद्रव्येच्छा आम्रस्येच्छा मातुलिङ्गस्येच्छेत्यादि । अचित्तद्रव्येच्छा-सुवर्णेच्छा हिरण्येच्छेत्यादि । मिश्रद्रव्येच्छा-सुवर्णाद्यलङ्कारविभूषितस्य द्विपदादेरिच्छा । अथवा द्रव्यादिषु द्रव्यक्षेत्रकालेषु यथासंभवं स्वामित्वादि स्वामित्वकरणाधिकरणादिककरणानि भणतः स्वामित्वादिभिः प्रकारैर्द्रव्यक्षेत्रकालेच्छा वक्तव्या इति भावः । तत्र स्वामित्वेन द्रव्येच्छा यथा आत्मनः पुत्रमिच्छति इत्यादि, करणेन यथा मद्येनाऽभ्यवहृतेन स्तैन्येच्छा कामेच्छा वा जायते । अधिकरणेन यथा सुप्रस्तारितायां शय्यायां स्थितस्य कामेच्छा समुत्पद्यते। क्षेत्रकालावचेतनौ ततोनतयोः स्वयंस्वामित्वेनइच्छाभवति, ततः करणाधिकरणाभ्यांतत्रयोजना । तत्रक्षेत्रेणा-यथासुन्दरेणक्षेत्रेणलब्धेनक्रीडनेच्छावपनेच्छा वाजायते, अधिकरणेनयथा-गृहेस्थितस्य भोगेच्छाकामेच्छावा, सद्गुरुकुलवासेसम्यगनुष्ठानेच्छावासमुपजायतेइत्यादि, कालेकरणेन यथायौवनकालेन धनेच्छा कामेच्छा वा जायते इत्यादि, । अधिकरणे यथा-हेमन्ते रात्रौ शीतेन पीडितः सूरोद्गमकालमिच्छति, भावतइच्छाद्विधा-आगमतो नोआगमतश्च । तत्रागमतइच्छेतिपदार्थज्ञाता, तत्र चोपयुक्त उपयोगोभावनिक्षेपइतिवचनात् । नोआगमत आह[भा.१३५८] भावेपसत्थमपसत्थियाय अपसत्थियंन इच्छामो । इच्छामोय पसत्थंनाणाइयंतिविहमिच्छं ।। व- नोआगमतो भावत इच्छा द्विधा-प्रशस्ता अप्रशस्ता च । मकारोऽलाक्षणिकः । तत्राज्ञानादिविषया इच्छाअप्रशस्ता, प्रशस्ताज्ञानादिविषया ।तां त्रिविधामिच्छामिच्छामः । । सम्प्रति गणस्य निक्षेपमभिधित्सुराह[भा.१३५९] नामाइगणो चउहा दव्वगणोखलुपुणो भवेतिविहो । लोइयकुप्पावयणिओलोउत्तरियोय बोधव्वो ।। वृ-नामादिरुपोगणश्चतुर्धा । चतुष्प्रकारस्तद्यथा-नामगणः,स्थापनागणो,द्रव्यगणोभावगणश्च । तत्रयस्यगणइतिनामसनामगणः, गणस्यस्थापनाऽक्षवराटाकदिषुस्थापनागणः । द्रव्यगणो द्विधाआगमतो नोआगमतश्च, । तत्रागमतो गणशब्दार्थज्ञाता तत्र चानुपयुक्तो, नोआगमतस्त्रिधाज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् । तत्रज्ञसरीरभव्यशरीरेप्राग्वत् । तद्व्यतिरिक्तस्त्रिघा । तद्यथालौकिकः कुप्रावचनिको लोकोत्तरिकश्च । एतेषांत्रयाणामपि प्रतिपादनार्थमाह[भा.१३६०] सचित्तादिवसमृहो लोगंमिगणो उमल्लपोरादि । चरकादिकुप्पवयणो लोगोत्तरओसन्नगीयाणं ।।। वृ-सचित्तादिसमुहःसचित्तसमूहोअचित्तसमूहोमिश्रसमूहश्चद्रव्यगणः । तत्रसचित्तसमूहोयथा- . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482