________________
३९४
व्यवहार - छेदसूत्रम्-१-३/६६ वृ- एवमेवानेनैव नामगतेन प्रकारेण भवति स्थापना स्थापनेच्छा अतिदेशोक्तमेव यदिच्छति निक्षिप्यतेसास्थापनाचासाविच्छाचस्थापनेच्छेति व्युत्पत्तेः स्थापनेच्छा । यतःस्थापनामिच्छतिसा स्थापनेच्छा स्थापनाया इच्छा स्थापनेच्छेति व्युत्पत्तेः, द्रव्येच्छा द्विधा । आगमतो नो आगमतश्च । तत्र आगमत इच्छापदार्थज्ञाता तत्र चानुपयुक्तो नोआगमतस्त्रिधा-ज्ञशरीर भव्यशरीर तदव्यतिरिक्तभेदात् । तत्रज्ञशरीरभव्यशरीरे प्राग्वत् । तदव्यतिरिक्ता यत् द्रव्यमिच्छतिसाच त्रिधासचित्तद्रव्येच्छा, अचित्तद्रव्येच्छा, मिश्रद्रव्येच्छा । तत्रसचित्तद्रव्येच्छात्रिधा-द्विपदचतुष्पदापदभेदात् । तत्र द्विपदसचित्तद्रव्येच्छा-यत्र स्त्रियमिच्छति पुरुषमिच्छति इत्येवमादि । चतुष्पदसचित्तद्रव्येच्छायदश्वमिच्छति गामिच्छतीत्यादि । अपदसचित्तद्रव्येच्छा आम्रस्येच्छा मातुलिङ्गस्येच्छेत्यादि । अचित्तद्रव्येच्छा-सुवर्णेच्छा हिरण्येच्छेत्यादि । मिश्रद्रव्येच्छा-सुवर्णाद्यलङ्कारविभूषितस्य द्विपदादेरिच्छा । अथवा द्रव्यादिषु द्रव्यक्षेत्रकालेषु यथासंभवं स्वामित्वादि स्वामित्वकरणाधिकरणादिककरणानि भणतः स्वामित्वादिभिः प्रकारैर्द्रव्यक्षेत्रकालेच्छा वक्तव्या इति भावः । तत्र स्वामित्वेन द्रव्येच्छा यथा आत्मनः पुत्रमिच्छति इत्यादि, करणेन यथा मद्येनाऽभ्यवहृतेन स्तैन्येच्छा कामेच्छा वा जायते । अधिकरणेन यथा सुप्रस्तारितायां शय्यायां स्थितस्य कामेच्छा समुत्पद्यते। क्षेत्रकालावचेतनौ ततोनतयोः स्वयंस्वामित्वेनइच्छाभवति, ततः करणाधिकरणाभ्यांतत्रयोजना । तत्रक्षेत्रेणा-यथासुन्दरेणक्षेत्रेणलब्धेनक्रीडनेच्छावपनेच्छा वाजायते, अधिकरणेनयथा-गृहेस्थितस्य भोगेच्छाकामेच्छावा, सद्गुरुकुलवासेसम्यगनुष्ठानेच्छावासमुपजायतेइत्यादि, कालेकरणेन यथायौवनकालेन धनेच्छा कामेच्छा वा जायते इत्यादि, । अधिकरणे यथा-हेमन्ते रात्रौ शीतेन पीडितः सूरोद्गमकालमिच्छति, भावतइच्छाद्विधा-आगमतो नोआगमतश्च । तत्रागमतइच्छेतिपदार्थज्ञाता, तत्र चोपयुक्त उपयोगोभावनिक्षेपइतिवचनात् । नोआगमत आह[भा.१३५८] भावेपसत्थमपसत्थियाय अपसत्थियंन इच्छामो ।
इच्छामोय पसत्थंनाणाइयंतिविहमिच्छं ।। व- नोआगमतो भावत इच्छा द्विधा-प्रशस्ता अप्रशस्ता च । मकारोऽलाक्षणिकः । तत्राज्ञानादिविषया इच्छाअप्रशस्ता, प्रशस्ताज्ञानादिविषया ।तां त्रिविधामिच्छामिच्छामः । । सम्प्रति गणस्य निक्षेपमभिधित्सुराह[भा.१३५९] नामाइगणो चउहा दव्वगणोखलुपुणो भवेतिविहो ।
लोइयकुप्पावयणिओलोउत्तरियोय बोधव्वो ।। वृ-नामादिरुपोगणश्चतुर्धा । चतुष्प्रकारस्तद्यथा-नामगणः,स्थापनागणो,द्रव्यगणोभावगणश्च । तत्रयस्यगणइतिनामसनामगणः, गणस्यस्थापनाऽक्षवराटाकदिषुस्थापनागणः । द्रव्यगणो द्विधाआगमतो नोआगमतश्च, । तत्रागमतो गणशब्दार्थज्ञाता तत्र चानुपयुक्तो, नोआगमतस्त्रिधाज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् । तत्रज्ञसरीरभव्यशरीरेप्राग्वत् । तद्व्यतिरिक्तस्त्रिघा । तद्यथालौकिकः कुप्रावचनिको लोकोत्तरिकश्च । एतेषांत्रयाणामपि प्रतिपादनार्थमाह[भा.१३६०] सचित्तादिवसमृहो लोगंमिगणो उमल्लपोरादि ।
चरकादिकुप्पवयणो लोगोत्तरओसन्नगीयाणं ।।। वृ-सचित्तादिसमुहःसचित्तसमूहोअचित्तसमूहोमिश्रसमूहश्चद्रव्यगणः । तत्रसचित्तसमूहोयथा- .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org