________________
उद्देशकः ३, मूलं:६६, [भा. १३५३]
३९३ संज्ञा ।सस्थविरोअपरिच्छन्नः परिच्छदरहितः ।चग्रहणात्चशब्दोपादानाभिक्षुरपिस्वयमपरिच्छन्नः । तत्रस्थविरोअपरिच्छन्नो द्रव्यतःपरिवारहितोद्रष्टव्यः, भावतः पुनर्नियमात्सपरिच्छदः । इतरः शिष्यः पुनर्वाभ्यामपिद्रव्यभावाभ्यामपरिच्छन्नोभवति, तत्रभावतोऽपरिच्छन्नो नियमादयोग्य एव । इतरस्तु द्रव्यतोऽपरिच्छदोभावतःसपरिच्छदोयोग्यः, ।अत्राचार्येद्रव्यतोऽपरिच्छदेकिंसर्वथाभिक्षोर्गणंधारयितुं नकल्पते, उतास्तिकश्चित्कल्पनाप्रकारः? अस्तीतिब्रूमस्तथा चाह-- [भा.१३५४] नोकारो खलु देसं, पडिसेहयती कयाइ कप्पेज्जा।
उसन्नंमि उथेरो, सोचेवपरिच्छओतस्स ।। वृ- एवं से नो कप्पइ इत्यत्र नोशब्दो देशवचनत्वात् देशं प्रतिषेधयति । तेन कदाचित्कल्पेतापि, कदा कल्पतेइतिचेदत आह-अवसन्ने आचार्ये, ।इयमत्रभावना-यद्याचार्यो भावतः सूत्राद्युपेतस्तपः संयमोद्यतस्तस्मिन् द्रव्यतोऽपरिच्छदे न कल्पते । अथ चेदवसन्नस्तर्हि तस्मिन् द्रव्यतोऽपरिच्छदे स परिच्छदेवाकल्पते । खलुशब्दो विशेषणार्थः । सचैतद्विशिनष्टि, योभावतः सपरिच्छदस्तस्य कल्पते नशेषस्य,सपरिच्छदे चावसन्ने आचार्ये गणंधारयति शिष्योय आचार्यस्य परिच्छदः परिवारः स एव तस्य शिष्यस्य भवति । व्यवहारतस्तस्याभवनात् । इतरस्य तु न किमप्याभवति । शिथिलत्वादिह परिच्छदविषया चतुर्भङ्गिका । तद्यथा-द्रव्यतोऽपरिच्छन्नो भावतश्चापरिछन्नः १, द्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्नः २, द्रव्यतः परिच्छदोभावतोऽपरिच्छन्नः ३, द्रव्यतसपरिच्छदोभावतश्चसपरिच्छदः ४ ।तत्रचतुर्भङ्गवर्ती शुद्धःशेषास्त्वशुद्धाः ।एष सूत्रार्थः अधुना नियुक्तिविस्तरः । [भा.१३५५] भिक्खूइच्छागणधारए अपव्वावितेगणो नत्थि ।
इच्छातिगस्सअट्ठा महातलागेणओवम्मं ।। वृ- भिक्षोरिच्छा गणं धारयितुं । स च गणः स्वयमप्रव्राजिते नास्ति तस्मात् स्वयं साधवः प्रव्राजनीयाः ।अथवायद्यपिस्वयमप्रव्राजनेगणोनास्ति । तथायद्यपियदावसन्नआचार्योजातोभवति, तदा योऽसावाचार्यस्य गणाः स एव तस्य भवति । इच्छा च गणं धारयतिं त्रिकस्य ज्ञानादिरत्नत्रयस्यार्थाय । नतुपूजासत्कारनिमित्तमत्रार्थे चौपम्यमुपमा महातडागेन ।किमुक्तंभवति ? पद्मसरसा महातडागेनगणपरिवर्धस्योपमाकर्तव्या ।साचाग्रेभावयिष्यते । एषनियुक्तिगाथासंक्षेपार्थः । व्यासार्थं तुभाष्यकृद्विवक्षुः प्रथमतइच्छानिक्षेपमाह[भा.१३५६] जोजंइच्छइअत्थं, नामादी तस्ससा हवइइच्छा।
नामंमिजंतुनामंइच्छतिनामंचजसिच्छा ।। वृ- यो नाम यमर्थं नामादिलक्षणमिच्छति, तस्य सा भवति इच्छा यो नामेच्छति तस्य नामेच्छा, स्थापनामिच्छतः स्थापनेच्छा । एवं द्रव्येच्छादिकमपि भावनीयं, । इच्छायाश्च निक्षेपः षोढातद्यथानामेच्छा, स्थापनेच्छा, द्रव्येच्छा, क्षेत्रेच्छा, कालेच्छा, भावेच्छा, । तत्र नामेच्छामभिधित्सुराहनाममीत्यादिना नाम्नस्तुनामविषयाइच्छा । इयंयन्नामयदेवदत्तादिकमात्मनइच्छतिदेवदत्तादिकस्य नाम्नि (म्नः)इच्छानामेच्छेतिभावः, अथवायस्येच्छेतिनामस नामनामवतोरभेदोपचारात्नामचासौ इच्छाचनामेच्छा स्थापनेच्छामाह[भा.१३५७] एमेव होइठवणा, निक्खिप्पइइच्छ एवजंठवणं ।
सामित्ताईजहसंभवंतुदव्वादिसुभणसु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org