Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 392
________________ उद्देशक : २, मूलं : ६५, [भा. १३४८] ३९१ सपरिग्गहेतरेण व परिहारी वेयावच्चकरे ।। वृ- यदि नाम एषा सामाचारी यथा पारिहारी पारिहारिकः स्वपतद्ग्रहेण इतरेण वा चार्यपतदग्रहेण यथाक्रमं स्वस्याचार्यस्य च वैयावृत्यकर इति तदिदं सूत्रद्वयं किमर्थमारब्धं सूत्रोक्तस्यार्थस्या संभवादाचार्यः प्राह-न सूत्रोक्तार्थासंभवः कारणतः सूत्रद्वयस्य पतितत्वादथ कानि कारणानि यद्वशादिदं सूत्रद्वयं पतितमत आह[भा. १३४९ ] दुल्लहदव्वं पडुच्च, व तव क्खेवियं समं वसतिकाले । चोयगकुव्वंति तयं, जं वुत्तमिहे व सुत्तंमि ।। वृ- हे चोदक दुर्लभं द्रव्यं पानीयं प्रतीत्य यदि वा तपसा खेदितं पारिहारिकमथवा समकमेककालं सर्वगृहेषु सति भिक्षाकाले आचार्य परिहारिकौ न कुर्वतो यदुक्तमिहैव सूत्रे । यथाहि परिहारिकतपसा खेदितः सन् स्थविरस्य चार्थाय द्वौ वारौ भिक्षामटितुमसर्थः । । ततस्तं पारिहारिकं स्वकीयेन पतद्ग्रहेणात्मनो अर्थाय हिण्डित्वा पश्चात् स्वविराणामर्थाय स्थविरूपतद्ग्रहेण हिण्डिष्ये इति बुद्ध्या सम्प्रस्थितं स्थविरा असमर्थ ज्ञात्वा ब्रुवते । अस्माकमपि योग्यमात्मीयेन पतद्ग्रहणं प्रतिगृणीयास्तत उपरि एकस्मिन् वा पार्श्वे स्थविरयोग्यं गृहणाति । गृहीतेच तथा तस्मिन् स्थविरस्ततः समाकृष्य समाकृष्य भुङ्क्ते, एषा स्थविरस्य सामाचारी; पारिहारिकस्य पुनरियं तं पारिहारिकः स्थविराणां पतद्ग्रहं गृहीत्वा स्थविरस्यार्थाय हिण्डित्वा पञ्चाच्चात्मनो अर्थाय हिण्डिष्ये इति बुद्ध्या सम्प्रस्थितं दृष्ट्रा ग्रहादिकं वा परिमितं ज्ञात्वा स्थविरा भाषन्ते । आत्मनोप्यर्था यास्मदीय एव पात्रे प्रतिगृहणीया एवं सन्दिष्टः सन् स तथैव च गृहीत्वा समागतस्ततः स्थविरपतद्ग्रहादात्मीये पतद्ग्रहे पलाश भाजने कमढगेवा समाकृष्य समाकृष्य भुङ्क्ते । एषापरिहारिकस्य सामाचारी । एतावता तवखेवियमिति भावितं, सम्प्रतिसमं वसति काले इति भाव्यते यत्र ग्रामे नगरे वा तौ स्थविरपरिहारिकौ व्यवस्थितौ तत्र सर्वगृहेषु समकालं भिक्षाकालोऽजनिष्ट. तं स्थविरा ज्ञात्वा द्वितीयं वारं प्रविष्टः सन् एष न लभेतेति संप्रस्थितं भाषन्ते । एकत्रैवात्मनो मम च योग्यं गृह्णीया इति तत्र चोभयोरपि मृग्यमाणं स्तोकं पानीयं लभ्यते, ततः स्थविरपतद्ग्रहस्य प्रक्षालनाय पानीयं न पूर्यते । तत् एतत् ज्ञात्वा स्थविरास्तं पारिहारिकं संदिश्यन्त्येकस्मिन्नेव पतद्गृहे द्वयोरपि योग्य गृह्णीयाः । एवं सन्दिष्टे पारिहारिकस्येयं सामाचारी तस्मिन् पतद्ग्रहे स्थविरयोग्यं भक्तं तत् बिष्वग् गृहणाति द्वितीये पार्श्वे आत्मयोग्यमथवात्मयोग्यमधस्ताद् गृहणाति स्थविरयोग्यमुपरिष्टात् एवं गृहीत्वा वसतावागच्छति । तत्राचार्यभोजनविधिः । तस्यैवेकस्य एकस्मिन् पार्श्वे उपरि वा यदाचार्ययोग्यं गृहीतुं तस्मिन्नाचार्यो भुङ्क्ते, पश्चात्पारिहारिको यदस्मिन् पार्श्वे अधस्ताद्वात्मयोग्यं गृहीतंतत्र्भुङ्क्ते । अथवा यत्स्थविरोभुंक्ते पश्चाभुङ्क्ते तावत्सूरो ऽस्तमुपयाति । ततो द्वावपि समकं भुञ्जते । एतावता समति भावितं । एतदेव व्याचिख्यासुराह [भा. १३५० ] पास उवरिव गहियं कालस्स दव्वस्स वावि असतीए । पुव्वं भोत्तुं थेरा दलंति समयं च भुञ्जन्ति ।। वृ- द्रव्यस्य पानीयस्यासति अभावे एकस्मिन् पार्श्वे उपरि बा यत् गृहीतमाचार्ययोग्यं तत्पूर्वं स्थविरा भुंक्त्वा पञ्चाच्छेषंपारिहारिकाय ददति । कालस्यद्वयोः क्रमेण भोजनकालस्यासति समकं वा एककालं तौ भुञ्जते । सम्प्रति सण्डासोपलक्षिते शुनकमांसदृष्टान्तभावना क्रियते । यथा कोऽप्यऽलर्केण शुना खादितः स यदि तस्यैव शुनकस्यमांसं खादति, ततः प्रगुणी भवति, अनेनकारणेन शुनकमांसं खाद्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482