________________
उद्देशक : २, मूलं : ६५, [भा. १३४८]
३९१
सपरिग्गहेतरेण व परिहारी वेयावच्चकरे ।।
वृ- यदि नाम एषा सामाचारी यथा पारिहारी पारिहारिकः स्वपतद्ग्रहेण इतरेण वा चार्यपतदग्रहेण यथाक्रमं स्वस्याचार्यस्य च वैयावृत्यकर इति तदिदं सूत्रद्वयं किमर्थमारब्धं सूत्रोक्तस्यार्थस्या संभवादाचार्यः प्राह-न सूत्रोक्तार्थासंभवः कारणतः सूत्रद्वयस्य पतितत्वादथ कानि कारणानि यद्वशादिदं सूत्रद्वयं पतितमत आह[भा. १३४९ ]
दुल्लहदव्वं पडुच्च, व तव क्खेवियं समं वसतिकाले । चोयगकुव्वंति तयं, जं वुत्तमिहे व सुत्तंमि ।।
वृ- हे चोदक दुर्लभं द्रव्यं पानीयं प्रतीत्य यदि वा तपसा खेदितं पारिहारिकमथवा समकमेककालं सर्वगृहेषु सति भिक्षाकाले आचार्य परिहारिकौ न कुर्वतो यदुक्तमिहैव सूत्रे । यथाहि परिहारिकतपसा खेदितः सन् स्थविरस्य चार्थाय द्वौ वारौ भिक्षामटितुमसर्थः । । ततस्तं पारिहारिकं स्वकीयेन पतद्ग्रहेणात्मनो अर्थाय हिण्डित्वा पश्चात् स्वविराणामर्थाय स्थविरूपतद्ग्रहेण हिण्डिष्ये इति बुद्ध्या सम्प्रस्थितं स्थविरा असमर्थ ज्ञात्वा ब्रुवते । अस्माकमपि योग्यमात्मीयेन पतद्ग्रहणं प्रतिगृणीयास्तत उपरि एकस्मिन् वा पार्श्वे स्थविरयोग्यं गृहणाति । गृहीतेच तथा तस्मिन् स्थविरस्ततः समाकृष्य समाकृष्य भुङ्क्ते, एषा स्थविरस्य सामाचारी; पारिहारिकस्य पुनरियं तं पारिहारिकः स्थविराणां पतद्ग्रहं गृहीत्वा स्थविरस्यार्थाय हिण्डित्वा पञ्चाच्चात्मनो अर्थाय हिण्डिष्ये इति बुद्ध्या सम्प्रस्थितं दृष्ट्रा ग्रहादिकं वा परिमितं ज्ञात्वा स्थविरा भाषन्ते । आत्मनोप्यर्था यास्मदीय एव पात्रे प्रतिगृहणीया एवं सन्दिष्टः सन् स तथैव च गृहीत्वा समागतस्ततः स्थविरपतद्ग्रहादात्मीये पतद्ग्रहे पलाश भाजने कमढगेवा समाकृष्य समाकृष्य भुङ्क्ते । एषापरिहारिकस्य सामाचारी । एतावता तवखेवियमिति भावितं, सम्प्रतिसमं वसति काले इति भाव्यते यत्र ग्रामे नगरे वा तौ स्थविरपरिहारिकौ व्यवस्थितौ तत्र सर्वगृहेषु समकालं भिक्षाकालोऽजनिष्ट. तं स्थविरा ज्ञात्वा द्वितीयं वारं प्रविष्टः सन् एष न लभेतेति संप्रस्थितं भाषन्ते । एकत्रैवात्मनो मम च योग्यं गृह्णीया इति तत्र चोभयोरपि मृग्यमाणं स्तोकं पानीयं लभ्यते, ततः स्थविरपतद्ग्रहस्य प्रक्षालनाय पानीयं न पूर्यते । तत् एतत् ज्ञात्वा स्थविरास्तं पारिहारिकं संदिश्यन्त्येकस्मिन्नेव पतद्गृहे द्वयोरपि योग्य गृह्णीयाः । एवं सन्दिष्टे पारिहारिकस्येयं सामाचारी तस्मिन् पतद्ग्रहे स्थविरयोग्यं भक्तं तत् बिष्वग् गृहणाति द्वितीये पार्श्वे आत्मयोग्यमथवात्मयोग्यमधस्ताद् गृहणाति स्थविरयोग्यमुपरिष्टात् एवं गृहीत्वा वसतावागच्छति । तत्राचार्यभोजनविधिः । तस्यैवेकस्य एकस्मिन् पार्श्वे उपरि वा यदाचार्ययोग्यं गृहीतुं तस्मिन्नाचार्यो भुङ्क्ते, पश्चात्पारिहारिको यदस्मिन् पार्श्वे अधस्ताद्वात्मयोग्यं गृहीतंतत्र्भुङ्क्ते । अथवा यत्स्थविरोभुंक्ते पश्चाभुङ्क्ते तावत्सूरो ऽस्तमुपयाति । ततो द्वावपि समकं भुञ्जते । एतावता समति भावितं । एतदेव व्याचिख्यासुराह
[भा. १३५० ] पास उवरिव गहियं कालस्स दव्वस्स वावि असतीए । पुव्वं भोत्तुं थेरा दलंति समयं च भुञ्जन्ति ।।
वृ- द्रव्यस्य पानीयस्यासति अभावे एकस्मिन् पार्श्वे उपरि बा यत् गृहीतमाचार्ययोग्यं तत्पूर्वं स्थविरा भुंक्त्वा पञ्चाच्छेषंपारिहारिकाय ददति । कालस्यद्वयोः क्रमेण भोजनकालस्यासति समकं वा एककालं तौ भुञ्जते । सम्प्रति सण्डासोपलक्षिते शुनकमांसदृष्टान्तभावना क्रियते । यथा कोऽप्यऽलर्केण शुना खादितः स यदि तस्यैव शुनकस्यमांसं खादति, ततः प्रगुणी भवति, अनेनकारणेन शुनकमांसं खाद्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org