________________
३०५
उद्देशक : २, मूलं : ३६, [भा. ९७७] स्थापना द्विकम् । सम्प्रतिद्रव्यक्षेत्रकालद्विकप्रतिपादनार्थमाह[भा.९७८] चित्तभचित्तं एक्केक्कयस्य जे जत्तियाउदुभेया ।
खेत्ते दुपएसादी दुसमयादी उकालंमि ।। वृ- द्रव्यद्विकं द्विविधमागमतो नोआगमतञ्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चानुपयुक्तः; नोआगमतस्त्रिविधं.-ज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदात् । तत्र ज्ञशरीरभव्यशरीरे प्राग्वत् तद्व्यतिरिक्तं सचित्तमचित्तं च एकैकस्य ये यावन्तो द्विकभेदाः सम्भवन्ति ते सर्वे वक्तव्याः । ये चेमे सचित्तं द्रव्यद्विकं द्विधा संसारस्थं निर्वृत्तंच, संसारस्थं द्विधा एकेन्द्रियमनेकेन्द्रियं च । तत्रैकेन्द्रियं पञ्च प्रकारं-पृथिव्यप्तेजोवायुवनस्पतिभेदात् । एकैकमपि द्विधा-पर्याप्तमपर्याप्तं च । अनेकेन्द्रियं द्विधासंख्यातवर्षायुष्कमसंख्यातवर्षायुष्कंच । एकैकं द्विधापर्याप्तमपयारतं च । निर्ववित्तमपि द्विधाअनन्तरसिद्ध परम्परसिद्धच ।अथवा सचित्तं त्रिविधं । तद्यथा-द्विपदंचतुष्पदमपदंच । तत्र द्विपदंद्वौ पुरुषावित्यादि, चतुष्पदं द्वौ बलीव वित्यादि, अपदं द्वौ वृक्षावित्यादि । अचित्तं द्वौ परमाणू द्वौ द्विप्रदेशिकौ त्रिप्रदेशिकौ यावत् द्वौ संख्यात्प्रदेशिकौ द्वावनन्तप्रदेशिको संख्यातस्य संख्याता भेदाः, असंख्यातस्य असंख्याता अनन्तस्य अनन्ताः । उक्तं द्रव्यद्विकमधुना क्षेत्रद्विकमाह-खेत्ते दुपदेसादी क्षेत्रक्षेत्रविषयंद्विकंद्वीप्रदेशादिद्वावाकाशप्रदेशावादिशब्दाद्विप्रदेशावगाढंवा द्रव्यंक्षेत्रद्विकं क्षेत्रद्विके तस्यावस्थानात् । यदि वा द्वे भारते द्वे एरावते इत्यादि परिग्रहः । उक्त क्षेत्रद्विकं, कालद्विकमाह द्विसमयादिकंद्वौसमयावादिशद्वात् द्वेआवलिकेद्वौमुहूर्तावित्यादिपरिग्रहः ।अथवा द्विसमयस्थितिकं द्रव्यं कालद्विकेऽवस्थानात् कालद्विकमादिशब्दात्यावलिकास्थितिकादिपरिग्रहः ।
उक्तं कालद्विकमधुनाभावद्विकमाह[भा.९७९] भावे पसत्थमियर होइपसत्थंतु नाणिणोनाणे ।
केवलि छउमंनाणे नोनाणे दिठिचरणेय ।। वृ- भावद्विकं द्विधा आगमतो नो आगमतश्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चोपयुक्तः, उपयोगोभावनिक्षेपइति वचनात्, नोआगमतोद्विधा तद्यथाप्रशस्तमितरच्च,इतरन्नामाऽप्रशस्तं । तच्चेदं रागो द्वेषश्च, प्रशस्तंद्विधा-ज्ञानंनोज्ञानंच । तत्रज्ञाने ज्ञानविषयंतिकमिदं तद्यथाकैवलिकंछाद्यस्थिकं च ।नोज्ञानेनोज्ञानविषयं द्विकंदृष्टिश्चरणंच । दृष्टिःसम्यक्त्वं,चरणंचारित्रम् एतदेवसप्रभेदंप्ररूपयति[भा.९८०] एक्कक्कं पिय तिविहं, सठाणे नत्थिखइय अइयारो ।
उवसामिएसु दोसु, अइयारी होज्ज सेसेसु ।। वृ- एकैकमपि दर्शनं चरणंच प्रत्येकमित्यर्थः । त्रिविधं त्रिप्रकारं । तद्यथा-क्षायिकं औपशमिकं क्षायोपशमिकंच तत्र क्षायिकंसम्यक्त्वंक्षायिकसम्यग्दृष्टेः । औपशमिकमुपशमश्रेण्याम् ।शेषकालं क्षायोपशमिकं, । चरणमपि क्षायिकं क्षपकनिर्ग्रन्थस्य, औपशमिकमुपशमश्रेण्यामन्यदा क्षायोपशमिकम् । तत्रक्षायिकेज्ञानेदर्शनेचारित्रेचस्वस्थाने नास्त्यतीचारः, तथाहि केवलिनस्तिष्वपि ज्ञानदर्शनचारित्रेषुक्षायिकेषुवर्तमानस्यनतद्विपया काचिदपिविराधना, परस्थानेषुसंभवेदपि, तथाहि श्रुतकेवल्यादेः क्षायिकेदर्शनवर्तमानस्य दर्शनेनास्ति विराधनाज्ञानचरणयोस्तुभजनेति । उवसामिए विदोसुतिद्वयोर्दर्शनचरणयोरौपशमिकेभावेवर्तमानयोः स्वस्थानेनास्त्यतीचारः ।औपशमिकं हिदर्शनं [2129
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org