________________
३०६
व्यवहार - छेदसूत्रम्-१-२/३६ चारित्रं च नियमादुपशमश्रे एयां भवति, तत्र कषायाणामुपशान्तत्वान्नास्ति कश्चिदतिचारसंभवः, ज्ञानविराधनात्[तु]सम्भवेदप्यनुपयोगतोऽन्यथा प्ररूपणाचिन्तनादिसम्भवात् । उपशमश्रेणितः पातेत्तुभवत्यतीचारः औदयिकभावेवर्तमानत्वात्,शेषेषुपुनः क्षायोपशमेषुज्ञानदर्शनचारित्रेषुस्वस्थाने परस्थानेवातीचारोभवेत् क्षायोपशमिकत्वादेतदेवाह[भा.९८१] सठाणपरठाणेखउवसमिएसुतीसु विभयणा ।
सण उवसमखतिएपरठाणे होइभयणाउ ।। वृ-क्षायोपशमिकेभावे वर्तमानेषुत्रिष्यपिज्ञानादिषुस्वस्थानेवातीचारस्यभजना, कदाचिद्भवति कदाचिन्न भवतीत्यर्थः । दर्शने उपलक्षणमेतत्, चरणे च औपशमिके क्षायिके चस्वस्थानेऽतीचारोन भवति परस्थानेतुभजना ।अत्रयेन द्विकेनाधिकारस्तदभिधित्सुराह[भा.९८२] दव्वदुए दुपएणंसच्चित्तेणंच एत्थअहियारो ।
मीसेनोदइएणंभावंमि विहोतिदोहिंपि ।।। वृ- अत्र द्रव्यद्विकेन भावद्विकेन चाधिकारः, । तत्र द्रव्यद्विकेन सचित्तेन तेनापि च द्विपदेन साधर्मिकद्वयस्य चिन्त्यमानत्वात् भावे मिश्रेण क्षायोपशमिकेन औदयिकेन चेति द्वाभ्यां भावाभ्यामधिकारः अनयोरेवद्वयोर्भावयोर्वर्तमानस्यातीचारसंभवात् । उक्तोद्विकस्यपट्कोनिक्षेपः ।।
सम्प्रतिसाधर्मिकस्य द्वादशकं निक्षेपमाह[भा.९८३] नाम ठवणा दविएखेत्तेकालेय पवयणेलिंगे।
सणनाणंचरिते आभिमाहेभावनाएय ।। वृ- नामसाधर्मिकः, स्थापनासाधर्मिकः, द्रव्यसाधर्मिकः, क्षेत्रसाधर्मिकः, कालसाधर्मिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिकः, अभिग्रहसाधर्मिकः, भावनासाधर्मिकः,तत्रनामस्थापनाद्रव्यसाधर्मिक प्रतिपादनार्थमाह[भा.९८४] नामंमिसरिसनामोठवणाएकट्टकम्ममादीसु ।
दुव्वंमिजोउभविओसाहम्मि सरीरगंचेव ।। वृ- नाम्नि नामविषये साधर्मिको यत्सदृशनामा यथादेवदत्तो देवदत्तस्य, स्थापना साधर्मिकः काष्टकर्मादिषुस्थाप्यमानो यथावारकर्षिरादिशब्दात्पुस्तकाक्षवराटकादिपरिग्रहः, द्रव्ये द्रव्यरुपतया साधर्मिको यो भव्योभावी । स च त्रिप्रकारः । तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च । अमीषांचभावनाद्रव्यभिक्षुवद्भावनीया । यच्चसाधर्मिकशरीरंव्यपगतजीवितंसिद्धशिलातलादिगतं तत्द्रव्यसाधर्मिकः । द्रव्यताचारस्यभूतभावत्वात् क्षेत्रकालप्रवचनलिङ्गसाधर्मिकानाह[भा.९८५] खेत्तेसमाणदेसी कालम्मिउएक्ककालसंभूतो ।
पवयणसंघेगयरो लिंगेश्यहरणमुहपत्ती ।। वृ-क्षेत्रे क्षेत्रतः साधर्मिकः समानदेशीय यथा सौराष्ट्रः सौराष्ट्रस्य, काले कालतः साधर्मिकः एककालसम्भूतो यथा वर्षाजातो वर्षाजातस्य, प्रवचनमिति प्रवचनतः साधर्मिकः सङ्घमध्ये एकतरः श्रमणः श्रमणी श्रावकः श्राविका चेति, लिङ्गे लिङ्गतः साधर्मिकः रजोहरणमुहपोत्तित्ति रजोहरणमुखपोति[त्ति]कायुक्तः ।। सम्प्रतिदर्शनादिसाधर्मिकानाह
[भा.९८६] दंसणनाणेचरणेतिगपणतिविह होइउवरिते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org