________________
३०७
उद्देशकः २, मूलं: ३६, [भा. ९९६]
दव्वादीओ अभिगह अहभावणमोअनिच्चाई ।। वृ- दर्शनतः साधर्मिकः तिगत्ति त्रिविधस्तद्यथा-क्षायिकदर्शनी, औपशमिकदर्शनिनः औपशमिकदर्शनी, क्षायोपशमिकदर्शनिनः क्षायोपशमिकदर्शनी । अन्ये पुनराहुरेवं त्रिविधस्तद्यथासम्यग्दृष्टेः सम्यग्दृष्टिमिथ्यादृष्टेर्मिथ्यादृष्टिः मिश्रस्य मिश्रः, ज्ञानतः साधर्मिकः पञ्चविधः, तद्यथाआभिनिबोधिकज्ञानी आभिनिबोधिकज्ञानिनः, एवं श्रुतावधिमनः पर्यायकेवलेष्वपि भावनीयम् । चरणतः साधर्मिकः पन्नत्तिपंचप्रकारः-सामायिकचारित्रिणः सामायिकचारित्री । एवंच्छेदोपस्थापनपरिहारविशुद्धिसम्पराययथाख्यातेष्वपि वाच्यम् । तिविहो होइ चरिते इति त्रिविधस्त्रिप्रकारो भवति चारित्रे, चारित्रतः साधर्मिकस्तद्यथा-क्षायिकचारित्री क्षायिकचारित्रिण इत्यादि । दव्वादीओ अभिग्गहत्ति-अभिग्रहतः साधर्मिको द्रव्यादौ वेदितव्यस्तद्यथा-द्रव्याभिग्रही द्रव्याभिग्रहिणः । एवं क्षेत्रकालभावेष्वपिवाच्यम् ।तुशब्दोऽनुक्तसमुच्चयार्थः । तेनषष्ठादिक्षपणाभिग्रहीषष्ठादिक्षपणाभिग्राहिणः इत्याद्यपि द्रष्टव्यम्, । भावनातः साधर्मिकोऽनित्यत्वादौ यथा एकोऽप्यनित्यत्वभावनां भावयत्यपरोऽप्यनित्यत्वभावनामित्यनित्यत्वभावनासाधर्मिकः ।एवं शेषास्वपिभावनासुद्रव्यत्वम्। तदेवमुक्तः साधर्मिकस्यद्वादशको निक्षेपः ।।
सम्प्रति यदुक्तं लिङ्गे भवन्तिभङ्गाश्चत्वारइति तदेतद्व्याचिख्यासुराह[भा.९९७] . साहम्मिएहिं कहिए लिंगाइहोइचउभंगो।
नामंठवणादविएभाव विहारेयचत्तारि ।। वृ-साधर्मिकेषु कथितेषु सत्सु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् लिङ्गादौ प्रवचनादिभिः सह भवति प्रत्येकं चतुर्भङ्गी; गाथायां पुंस्त्वमार्षत्वात् । विहारे च ये चत्वारोभेदाः प्रागुक्तास्ते इमे तद्यथानामविहारः स्थापनाविहारो द्रव्यविहारो भावविहारश्च । तत्र लिङ्गादिषु प्रवचनादिभिः सह प्रत्येकं चतुभ्रङ्गीमाविर्भावयिषुः प्रथमतो लिङ्गप्रवचनेन चतुर्भङ्गी सूचामाह[भा.९९८] लिंगेन उसाहम्मीनोपवपणतोय निण्हगासव्वे ।
पवयणसाहम्मी पुनन लिंगे दस होतिससिहागा ।। वृ-लिङ्गेनरजोहरणादिनासाधर्मिको नोनैव प्रवचनतइत्येकोभङ्गः, केतेइत्याहसर्वे निन्हवास्तेषां सङ्घबाह्यत्वात्रजोहरणादिलिङ्गोपेतत्वाच्च, तथाप्रवचनतःसाधर्मिकोनपुनः लिङ्गे लिङ्गतः एष द्वितीयः केते एवं भूता इत्याह-दश भवन्ति । सशिखाकाः अमुण्डितशिरस्काः श्रावका इति गम्यते । श्रावका हि दर्शन व्रतादि प्रतिमा भेदेन एकादशविधा भवन्ति । तत्र दश सकेशाः एकादश प्रतिमा प्रतिपन्नस्तु लुञ्चितशिराः श्रमणभूतोभवति । ततस्तद्वयवच्छेदायसशिखाकग्रहणं, एतेहिदश शिखाकाः श्रावकाः प्रवचनतः साधर्मिका भवन्ति । तेषां सङ्घान्तर्भूतत्वात् न तु लिङ्गतो रजोहरणादिलिङ्गरहितत्वात् । तृतीयचतुर्थीतुभङ्गौ सुप्रतीतत्वान्नोक्तौतौचेमौप्रवचनतोऽपिसाधर्मिकोलिङ्गत्तोऽपिसाधुः एषतृतीयः प्रवचनतो नापि लिङ्गत इतिचतुर्थः । एषशून्यो भङ्गः । तदेवं लिङ्गस्य प्रवचनेन सह चतुर्भङ्गिकोक्ता । सम्प्रति दर्शनादिभिः सहचतुभ्रङ्गिकाप्रतिपादनार्थमाह[भा.९९९] एमेव यलिंगेन उदंसणमादी उहोंतिभंगाउ।
. भइएसु उवरिमेसुंहेठेल्लपदंतुछड्डेजा ।। वृ- एवमेव प्रवचनगतेन प्रकारेण लिङ्गेन सह दर्शनादिषु भङ्गा भवन्ति ज्ञातव्याः । उक्तेषु च .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org