________________
३०४
व्यवहार - छेदसूत्रम्-१-२/३६
(उद्देशकः२) वृ-साम्प्रतं द्वितीयआरभ्यते । तस्य चेदमादिसूत्रम्
मू. (३६) 'दो साहम्मिया एगआविहरंति एगेतत्थ अन्नता अकिच्चट्टाणं पडिसेवित्ता आलोएजा ठवणिजंठवइता करणिज्जं वेयावडियं ।
वृ. अथास्य सूत्रस्यसम्बन्ध उच्यते[भा.९७४] अब्भुठियस्सपासंमि, वहंतो जइकयाइआवज्जे ।
अत्थेनेव उजोगो पढमाओ होतिबितियस्स ।। वृ- योऽसौ पार्श्वस्थादिः प्रायश्चित्ततपो वहनार्थमभ्युत्थितस्य पार्श्वे प्रायश्चित्ततपो वहन् यदि कदाचिद्भूयोऽपि तपोऽहं प्रायश्चित्तमापद्यते तदपि नियमादालोचयितव्यमिति तदालोचनानेन प्रतिपाद्यते । एपोऽर्थेनार्थमाश्रित्यप्रथमादुद्देशकादनन्तरस्यास्य द्वितीयस्योद्देशकस्ययोगः सम्बन्धः ।।
अत्रैव प्रकारान्तरमाह[भा.९७५] अहवा एगस्स विहीउत्तो नेगाण होइअयमनो।
आइणविगडिएवा पठवणा एस संबंधो ।। वृ- अथवेति सम्बन्ध्य प्रकारान्तरतोपप्रदर्शने पूर्वमेकस्य प्रायश्चित्तदानविधिरुक्तः । साम्प्रतमयमनेकेषामन्यः प्रायश्चित्तदानविधिः । अथवा यदाचीर्ण प्रतिसेवितं तस्मिन् विकटिते आलोचिते प्रस्थापनाप्रायश्चित्तदानं भवति । ततः प्रायश्चित्तदानप्रस्तावादस्य सूत्रस्योपनिपात इत्येष सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-द्वौसाधर्मि को संविग्नसांभोगिकादिरूपावेकत एकस्मिन् स्थाने समुदितौ विहरतः । तत्रैकोऽन्यतरत अकृत्यं स्थानं प्रतिसेव्य आलोचयेत् । तत्र यद्य गीतार्थः प्रतिसेवितवान् । ततस्तस्मै शुद्धतपो दातव्यमथ गीतार्थस्तर्हि यदि परिहारतपो योग्यमापन्नस्ततः परिहारतपोदद्यात् । तदनन्तरंस्थाप्यतेविविक्तंकृत्वाप्ररूप्पतेइतिस्थापनीयंपरिहारतपो-योग्यमनुष्ठानं, तत् स्थापयित्वा प्ररूप्य य आपन्नः स परिहारतपः प्रतिपद्यते । इतरः कल्पस्थितो भवति । स एव च तस्यानुपारिहारिकः ततस्तेन तस्य करणीयवैयावृत्यमित्येष सूत्रसंक्षेपार्थः । अधुना नियुक्तिविस्तरः[भा.९७६] दोसाहम्मिय छ बारसेव लिंगमि होइचउभंगो।
चत्तारि विहारम्मिउदुविहो भावम्मिभेदोउ ।। वृ-द्विशब्दस्य साधर्मिक शब्दस्य च यथाक्रमं षट् द्वादश नामादयो निक्षेपाद्विशब्दस्य षट्कः साधर्मिकशब्दस्य द्वादशको निक्षेप इत्यर्थः लिङ्गे लिङ्गविषये चतुर्भङ्गी भवति । सूत्रे च पुंस्त्वनिर्देशः प्राकृतत्वात् । तथाविहारेचत्वारोनामादयो निक्षेपाः । तत्रभावेद्विविधोभेदः । एष द्वारगाथासंक्षेपार्थः । व्यासार्थं च प्रतिपदमभिधित्सुः प्रथमतो द्विशब्दस्य षट्क निक्षेपमाक्षिपन्नाह[भा.९७७] नामं ढवणा दविए खेत्तेकाले यहोइबोधव्यो ।
भावेय दुगे एसो निक्खेवो छव्विहो होइ ।। वृ- नामद्विकं स्थापनाद्विकं द्रव्ये द्रव्यविषयं द्विकं द्रव्यद्विकं, एवं क्षेत्रद्विकं कालद्विकं च भवति बोद्धव्यम् । तथाभावेच भावविषयंचद्विकमेव द्विकेद्विशब्दस्यषट्कोभवतिनिक्षेपः । तत्रनामद्विकं द्वे नामनी अथवा यस्य द्विकमिति नामतन् नामद्विकं । स्थापनाद्विकं द्वे स्थापने, द्विकस्य स्थापना वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org