SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ३०३ उद्देशकः १, मूलं: ३५, [भा. ९७१] [भा.९७१] दुविहासती एतेसिं आहारादिकरेइसव्वेसिं । पणहानीए जयंतो अत्तट्ठाए विएमेव ।। वृ-इहपरिवाराभावेतस्यालोचनार्हस्यकर्तव्यमिति ।समाचारीचतेषांपार्श्वस्थादीनां, दुविहा असती इति परिवाराभावो द्विविधः विद्यमानाभावोऽविद्यमानाभावश्च । विद्यमानः सन् अभावोऽसन् वैयावृत्यादेरकरणात् विद्यमानाभावः । अविद्यमानसन्नभावो विद्यमानाभावः । तत्र द्विविधेऽप्यभावे से तस्यालोचनार्हस्याहारादिकं सर्वं कल्पिकमकल्पिकं वा यतनया करोति उत्पादयति । यतनया कथमकल्पिकमुत्पादयति इति चेदत आह-पञ्चकहान्या यतमानः । किमुक्तं भवति? अपरिपूर्ण मासिकप्रायश्चित्तस्थानप्रतिसेवनापत्तौ गुरुलाघवपर्यालोचनया पञ्चकादि पञ्चकहीनमासिकप्रायश्चित्तस्थानप्रतिसेवनांकरोति ।तामपियतनयापञ्चकग्रहणमुपलक्षणंतेनदशादिहान्यापियतमान इति द्रष्टव्यम् । एवं सर्वत्र न केवलमालोचनार्थिमेवं यतते किन्तु कारणे समुत्पन्ने आत्मार्थमप्येवमेव पञ्चकहान्या यततइति । यदुक्तंसम्यक्त्वभाषितायाः पुरतः आलोचयितव्यमिति तदेतद्भावयति[भा.९७२] कोरंटगंजहाभावियट्ठमंपुच्छिऊण वा अन्नं । असति अरिहंत सिद्धे जाणंतोसुद्धोजाचेव ।। वृ-कोरण्टकंनामभरुकच्छेउद्यानं,तत्रभगवान्मुनिसुव्रतस्वाम्यहन्नभीक्ष्णंसमवसृतस्तत्रतीर्थकरण गणधरैः चबहूनां बहूनि प्रायश्चितानि चदीयमानानितत्रत्यता देवतया दृष्टानि ततः कोरण्टकंगत्वातत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यक्कंपिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति । सा च प्रयच्छति यथार्ह प्रायश्चित्तं, । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दष्टस्तीर्थकरस्ततः साष्टमेनाकंपिता ब्रूतेमहाविदेहे तीर्थकरमापृच्छ्य समागच्छामि । ततः सा नेतानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्टा च समागत्यसाधवे प्रायश्चित्तं कथयति यथा च कोरण्टकमुद्यानमुक्तमेवं गुणशिलादिकमपि द्रष्टव्यम् । तत्राप्यभीक्ष्णं वर्धमानसाम्यादीनां समवसरणात् तासामपि देवतानामभावेऽर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति । ततः स्वयमेव प्रतिपद्यते । प्रायश्चित्तं तासामप्यभावे प्राचीनादिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिं विद्वान् आलोचयति । आलोच्य चस्वयमेव प्रतिपद्यतेप्रायश्चित्तं ।सच तथाप्रतिपद्यमानः शुद्ध एव सूत्रोक्तविधिना प्रवृत्तेः यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति । कोरण्टकं जहेत्यत्र यथाशब्दोपादानात् कोरण्टकसमुद्दिशतानान्यप्युद्यानानि सूचितानीति प्रकटयिपुराह[भा.९७३] सोहीकरणा दिट्ठागुणसिलमादीसुजहयसाहूणं । तो देति विसोहीतोपच्चुप्पणाय पुच्छंति ।। वृ- गुणसिलासूद्यानेषु याभिवताभिः साधूना तीर्थकरैर्गणधरैश्चानेकशी विधीयमानानि शोधिकरणानिदृष्टानि, ताः स्वयंददतिप्रयच्छन्तिविशोधीः प्रायश्चित्तानियाः पुनःप्रत्युत्पन्ना देवतास्तो महाविदेहेषु गत्वा तीर्थकरान् पृच्छन्ति पृष्ट्राचसाधुभ्यः कथयन्ति ।। उद्देशकः-१- समाप्तः मुनि दीपरत्नसागरेण संशोधितासम्पादिताव्यवहार सूत्रे (भद्रबाहुस्वामिरचिता नियुक्तियुक्तं) ___ संघदासगणि विरचितंभाष्यं एवंमलयगिरि आचार्येण विरचिताटीकापरिसमाप्ता। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy