________________
३०२
व्यवहार - छेदसूत्रम् - १-१ / ३५
आलोचगितव्यं । तदेवमसतीति व्याख्यातमधुना तत्थैवत्ति व्याख्या-यदि पार्श्वस्थादिको नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्त तया दत्तं ततस्तत्रैव तत् शुद्धं तपो वहति यावत्तपो वहति तावत्तस्यालोचनाप्रदायिनः सुखदुःखे गवेषयति, सर्वमुदन्तं वहतीत्यर्थः पश्चात्कृतगतमेव विधिमाहलिंगकरणं निसेज्जा कितिकम्ममनिच्छतो पणामोय | एमेय देवयाए नवरं सामाइयं मोत्तुं ।।
[भा. ९६८ ]
वृ- पश्चात्कृतस्येत्वरकालसामायिकारोपण पुरस्सरमित्वरकालं लिङ्गकरणं रजोहरणसमर्पणं तदनन्तरं निषद्याकरणं । ततः कृतिकर्मवन्दनकं दातव्यम् । अथ स वन्दनकंनेच्छति ततस्तस्य कृतिकर्मा निच्छतः प्रणामो वाचा कायेन च प्रणाममात्रं कर्तव्यं पार्श्वस्थादेरपि कृतिकर्मानिच्छायां प्रणामः कर्तव्यः । एवमेव अनेनैव प्रकारेण देवताया अपि सम्यक्त्व भावितायाः पुरतः आलोचयति । नवरं सामायिकारोपणं लिङ्गसमर्पणं च न कर्तव्यमविरतत्वेन तस्यास्तद्योग्यताया अभावात् ।
यदुक्तं ' गवेषणा जाव सुहदुक्खे' इति तद्व्याख्यानयति[भा. ९६९]
आहार उवहि सेज्जा एसणामादीसु होइ जइयव्वं ।
अनुमोयण कारावण सिक्खत्ति पयम्मित्तो सुद्धो ।।
वृ- आहारः पिण्ड उपधिपात्रनिर्योगादिः शय्या वसतिरेषणाशब्दः प्रत्येकमभिसम्बध्यते । आहारैषणायामुपध्येषणायां शय्यैषणायामादिशब्दाद्विनयवैयावृत्यादिषु च भवति तेन यतितव्यम् । कथमित्याह- अनुमोदनेन कारापणेन च । किमुक्तं भवति ? यदि तस्यालोचनार्हस्य कश्चिदाहारादीन् उत्पादयति ततस्तस्यानुमोदनाकरणतः प्रोत्साहने यतते अथान्यः कश्चिन्नोत्पादयतिततः स्वयमालोचक आहारादीन् शुद्धानुत्पादयति । अथ शुद्धं नोत्पाद्यते ततः श्राद्धान् प्रोत्साह्याकल्पिकानप्याहारादीन् यतनया उत्पादयतीति । अथाकल्पिकानाहारादीनुत्पादयतः तस्य महती मलिनतोपजायते । अथ च स शुद्धिकरणार्थं तदन्तिकमागतस्ततः परस्पर विरोधः । अत्राह -सिक्खत्ति पयंमिती सुद्धो यद्यपि नांम तस्यालोचनार्हस्यार्थाया कल्पिकानप्याहारादीनुत्पादयति । तथाप्यासेवनाशिक्षा तस्यान्तिके क्रियते । बितियपदे अपवादपदे स तथा वर्त्तमानः शुद्ध एव तदेव भावयति
[ भा. ९७०]
चोइय से परिवारं अकरेमाणे भणइ या सड्ढे । अव्वोच्छित्ति उ सुयभत्तीए कुणहयूयं । ।
वृ- प्रथमतः से तस्यालोचनार्हस्य परिवारं वैयावृत्यादिकमकुर्वन्तं चोदयतिशिक्षयति । तथा ग्रहणा सेवना शिक्षा निष्णात एष तत एतस्य विनयवैयावृत्यादिकं क्रियमाणं महानिर्जराहेतुरिति । एवमपि शिक्षमाणो यदि न करोति ततस्तस्मिन्नकुर्वाणे स्वयमाहारादीनुत्पादयति । अथ स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते ततः श्राद्धान् भणति प्रज्ञापयति । प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति । नच वाच्यं तस्यैवं कुर्वतः कथं न दोषो यत आह-अव्वोच्छितीत्यादि । अव्यच्छित्तिकरस्य पार्श्वस्थादेः श्रुतभक्तिहेतुभूतया अकल्पिकस्याप्याहारादेः संपादनेन श्रुतभक्त्या पूजां कुरुत यूयं न च तत्र दोष एवमत्रापि । इयमत्र भावना यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थं च गृह्णानोऽकल्पिकमप्याहारादिकं यतनया तदर्थं प्रतिसेवमानः शुद्धी ग्रहणशिक्षाया क्रियमाणत्वादेवमालोचनार्हस्यापि निमित्तं प्रतिसेवमानः शुद्ध एव आसेवना शिक्षायाः तत्समीपे क्रियमाणत्वादिति एतदेव स्पष्टतरं भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org