Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 383
________________ ३८२ व्यवहार - छेदसूत्रम् - १-२ / ६१ वृ- गच्छे बहवः साधवो गीयमगीया इति गीतार्था अगीतार्थाश्च । तत्र ये गीतार्थास्तत्रापिसलक्षणाचार्यलक्षणोपेता तेषां दिश आचार्यपदानि दत्वा शेषान् साधून् यथार्ह यथायोग्यतया केचिदनुरत्नाधिकत्वेन केचित्सामान्यतः शिष्यत्वेन वितरति प्रयच्छति । एतच्च तदा द्रष्टव्यं यदा प्रत्येकं बहवः शिष्याः प्रप्यन्ते । अन्यथात्वेकएवाचार्यः स्थापनीयः शेषाः समस्ता अपिशिष्यत्वेन सम्बध्यन्ते । तत्रापि सलक्षणानां दिशो ज्ञायन्ते । एतदेव सुव्यक्तमभिधित्सुराह [भा. १३१८] मूलायरि रायनितो अनुसरिसो तस्स होउवज्झातो । यमगीया सेसा मज्झिल्लया होंति सीसाहा ।। वृ-मूलाचार्यो नाम रात्निको रत्नाधिकः । तस्य मूलाचार्यस्याऽनुसदृशोऽनुरुपोपाध्यायः शेषास्तु ये गीतागीतार्थास्ते तस्य सब्भिलगा अनुरत्नाधिका अगीता अगीतार्था हकारो अलाक्षणिकः शिष्या भवन्ति ।। [ भा. १३१९] रावनियागीयत्था अलद्धिया धारयति पुव्वदिसं । अपहुव्वं ते सलक्खण केवलमेगे दिसाबंधी ।। वृ- ये पुनरात्निकाव्रतपर्यायेणाधिकाः गीतार्थाः श्रुतसम्पदुपेता व्रतश्रुतनिष्पन्नाश्च केवलं सङ्ग्रहे उपग्रहे बाऽलाब्धिकाः ते पूर्वदिशं पूर्वाचार्यप्रदत्तं दिशमनुरत्नाधिकत्वलक्षणं धास्यन्ति । न त्वाचार्यपदमुपाध्यायपदं वा तेषामारोप्यते लब्धिहीनत्वात् । एष विधिः यावन्तः स्थापिता आचार्यास्तेषां प्रत्येकमनुगन्तव्यः । एतच्च तदा क्रियते यदा भूयांसः स्थाप्यन्ते । अपहुव्वंते इत्यादि अप्रभवति प्रत्येकमाचार्याणां साधुपरिवारे भूयस्यप्राप्यमाणे केवलमेकस्मिन् लक्षणे विशिष्टाचार्यलक्षणोपेते दिग्बन्ध आचार्यपदाध्यारोपः क्रियते । एतदेवाह [भा. १३२० ] सीसे य पहुव्वंतं सव्वेसिं तेसिं होइ दायव्वा । अपहुव्वं तेसुं पुन केवलमेगे दिसाबंधो ।। बृ- शिष्ये शिष्यवर्गे प्रत्येकं भवति परिपूर्णतया भवति तेपामाचार्यलक्षणोपेतानां सर्वेषामपि दिशो दातव्याः । अप्रभवस्तु प्रत्येकं पूर्णतया साधुष्वप्राप्यमाणेषु केवलमेकस्मिन् सलक्षणेतरे दिग्बन्धः कर्तव्यः । शेषाणां तु सलक्षणानां दिशोऽनुज्ञाप्याः साम्प्रतं तेष्वाचार्यपदस्थापितेषु उपकरणदानविधिमाह [भा. १३२१] अचित्तं च जहरिहं दिज्जइ तेसुं च बहुसुगीएसु । एसविही अक्खातो अग्गीएसुं इमो उ विही ।। वृ- तेषु आचार्यपदस्थापितेषु बहुषु गीतार्थेषु अचित्तं वस्तुपात्रादि उपकरणं यथार्हं यो यावन्मात्रार्हस्तस्य तावन्मात्रं दीयते, एष विधिराख्यातो गीतार्येषु सूत्रार्थनिष्पन्नेषु आचार्यलक्षणोपेतेषुः अगीतेष्वनधिगतसूत्रार्थेषु आचार्यलक्षणोपेतेष्वयं वक्ष्यमाणो विधिर्द्रष्टव्यस्तमेवाह— [ भा. १३२२ ] अरिहं व अनिम्माउं नाउं थेराहणंति जो ठवितो । एवं गीयं काउं दिज्जाहि दिसं अनुदिसंवा ।। वृ- अहो नाम लक्षणोपेततयाचार्यपदयोग्यः परमद्यापिसूत्रे अर्थेच न विनिर्मातस्तमर्हमनिर्मातं ज्ञात्वा योगणधरस्तत्कालं स्थापतस्तंस्थावरवृद्धाचार्या भणन्ति यथा एतं साधुं गीतं गीतार्थं कृत्वा दद्यात् भवान् दिशमनुदिशं वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482