________________
३८२
व्यवहार - छेदसूत्रम् - १-२ / ६१ वृ- गच्छे बहवः साधवो गीयमगीया इति गीतार्था अगीतार्थाश्च । तत्र ये गीतार्थास्तत्रापिसलक्षणाचार्यलक्षणोपेता तेषां दिश आचार्यपदानि दत्वा शेषान् साधून् यथार्ह यथायोग्यतया केचिदनुरत्नाधिकत्वेन केचित्सामान्यतः शिष्यत्वेन वितरति प्रयच्छति । एतच्च तदा द्रष्टव्यं यदा प्रत्येकं बहवः शिष्याः प्रप्यन्ते । अन्यथात्वेकएवाचार्यः स्थापनीयः शेषाः समस्ता अपिशिष्यत्वेन सम्बध्यन्ते । तत्रापि सलक्षणानां दिशो ज्ञायन्ते । एतदेव सुव्यक्तमभिधित्सुराह
[भा. १३१८]
मूलायरि रायनितो अनुसरिसो तस्स होउवज्झातो । यमगीया सेसा मज्झिल्लया होंति सीसाहा ।।
वृ-मूलाचार्यो नाम रात्निको रत्नाधिकः । तस्य मूलाचार्यस्याऽनुसदृशोऽनुरुपोपाध्यायः शेषास्तु ये गीतागीतार्थास्ते तस्य सब्भिलगा अनुरत्नाधिका अगीता अगीतार्था हकारो अलाक्षणिकः शिष्या भवन्ति ।।
[ भा. १३१९]
रावनियागीयत्था अलद्धिया धारयति पुव्वदिसं ।
अपहुव्वं ते सलक्खण केवलमेगे दिसाबंधी ।।
वृ- ये पुनरात्निकाव्रतपर्यायेणाधिकाः गीतार्थाः श्रुतसम्पदुपेता व्रतश्रुतनिष्पन्नाश्च केवलं सङ्ग्रहे उपग्रहे बाऽलाब्धिकाः ते पूर्वदिशं पूर्वाचार्यप्रदत्तं दिशमनुरत्नाधिकत्वलक्षणं धास्यन्ति । न त्वाचार्यपदमुपाध्यायपदं वा तेषामारोप्यते लब्धिहीनत्वात् । एष विधिः यावन्तः स्थापिता आचार्यास्तेषां प्रत्येकमनुगन्तव्यः । एतच्च तदा क्रियते यदा भूयांसः स्थाप्यन्ते । अपहुव्वंते इत्यादि अप्रभवति प्रत्येकमाचार्याणां साधुपरिवारे भूयस्यप्राप्यमाणे केवलमेकस्मिन् लक्षणे विशिष्टाचार्यलक्षणोपेते दिग्बन्ध आचार्यपदाध्यारोपः क्रियते । एतदेवाह
[भा. १३२० ] सीसे य पहुव्वंतं सव्वेसिं तेसिं होइ दायव्वा ।
अपहुव्वं तेसुं पुन केवलमेगे दिसाबंधो ।।
बृ- शिष्ये शिष्यवर्गे प्रत्येकं भवति परिपूर्णतया भवति तेपामाचार्यलक्षणोपेतानां सर्वेषामपि दिशो दातव्याः । अप्रभवस्तु प्रत्येकं पूर्णतया साधुष्वप्राप्यमाणेषु केवलमेकस्मिन् सलक्षणेतरे दिग्बन्धः कर्तव्यः । शेषाणां तु सलक्षणानां दिशोऽनुज्ञाप्याः साम्प्रतं तेष्वाचार्यपदस्थापितेषु उपकरणदानविधिमाह
[भा. १३२१]
अचित्तं च जहरिहं दिज्जइ तेसुं च बहुसुगीएसु । एसविही अक्खातो अग्गीएसुं इमो उ विही ।।
वृ- तेषु आचार्यपदस्थापितेषु बहुषु गीतार्थेषु अचित्तं वस्तुपात्रादि उपकरणं यथार्हं यो यावन्मात्रार्हस्तस्य तावन्मात्रं दीयते, एष विधिराख्यातो गीतार्येषु सूत्रार्थनिष्पन्नेषु आचार्यलक्षणोपेतेषुः अगीतेष्वनधिगतसूत्रार्थेषु आचार्यलक्षणोपेतेष्वयं वक्ष्यमाणो विधिर्द्रष्टव्यस्तमेवाह—
[ भा. १३२२ ] अरिहं व अनिम्माउं नाउं थेराहणंति जो ठवितो । एवं गीयं काउं दिज्जाहि दिसं अनुदिसंवा ।।
वृ- अहो नाम लक्षणोपेततयाचार्यपदयोग्यः परमद्यापिसूत्रे अर्थेच न विनिर्मातस्तमर्हमनिर्मातं ज्ञात्वा योगणधरस्तत्कालं स्थापतस्तंस्थावरवृद्धाचार्या भणन्ति यथा एतं साधुं गीतं गीतार्थं कृत्वा दद्यात् भवान् दिशमनुदिशं वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org