________________
उद्देशक : २, मूलं : ६१, [भा. १३२३]
[भा. १३२३]
सो निम्माविय ठवितो अत्थति जइतेण सठितो लद्धं । अह नवि चिठति तहियं संघाडो तो सि दायव्वो ।।
वृ- यो सावाचार्येण सन्दिष्टो यथैतं साधुं निर्माप्य एतस्मै दिशमनुदिशं वा दद्यात् । स निर्मापितो निर्माप्य चाचार्यपदेस्थापितः । ततः स यदि निर्मापितस्थापितस्तेन सह तिष्ठति विहरति ततो लब्धं समीचीनं । अथ नैव अपि शब्द एवकारार्थो न तिष्ठति । तत्र तस्य समीपे तर्हि से तस्य सङ्घाटी दातव्यः यश्च पूर्वाचार्येण वैयावृत्तकारो दत्तः सोऽपि तेन सार्धं विहरति । तत्र ये स्थापितगणधरेणैको द्वौ त्रयो वा सहाया दत्ताः यश्च पूर्वाचार्यप्रदत्तो वैयावृत्त्यकरस्तान् पाठयति । ये वाभिनव शिष्यका उपस्थिताःप्रव्राजितास्तेऽप्यात्मनः शिष्यत्वेनसंबन्धनीयाः । एवं सञ्जातपुष्टविहारः सन्नन्यत्र विहारेण गतस्तस्य तथा विहरतः शिष्यान् स्थापितगणधरो विपरिणमयितुकामो यत्समाचरति तदुपदर्शयतिपेसेइ गंतुं व सयं व पुच्छे संबंधमाणी उवहिं व देतीं । सज्झंतियासिं च समल्लियावि सचित्तमेवं न लभे करतो ।।
[ भा. १३२४]
वृ- यत्र स निर्मापितस्थापित विहरति तत्रोदन्तवाहकान् साधून् तच्छिष्याणां प्रेषयति । अथवा स्वयमन्तरान्तरागत्वा तान् पृच्छति, यथा संस्तरति यूयं सुखेन यद्भो भवतां नास्ति ततः कथयत, येनाहं ददामीति; तथा तान् शिष्यानात्मनः संबंधयन् उपधिं चान्तरान्तरा ददाति । तथा ये स्वाध्यायान्तिकाः स्वाध्यायनिमित्तं समीपस्थायिनी अनुरतनाधिका गीतार्था इत्यर्थः तान् तेषां निर्माप्य स्थापितानामाचार्याणां सक्तानात्मनः समालापयति संश्लेषयति लीड श्लेषणे इति वचनात् एवं तेन गीतार्थाः शिष्याश्च विपरिणम्यमाणा निर्मापितस्थापितस्य समीपं मुक्त्वा तं स्थापित गणधरमुपसंपद्यंते, सचैवं सचित्तं साधुवर्गलक्षणमात्मीकुर्वन् न लभते, व्यवहारतो न ते तस्या भवन्तीति भावः अथैवमपि ते विपरिणम्यमाना न विपरिणमन्ति नापि तस्य समीपमायान्ति ततोऽनेन दृष्टान्तेन तान् सम्बन्धयन्ति तमेव दृष्टान्तमाह
[भा. १३२५ ]
Jain Education International
३८३
गोवालगदितं करेइ जह दोन्नि भाउगा गोवा । रक्खंती गोणीओ, प्पिहप्पिहा असहिया दोवि ।। गेलणे एगस्स उ, दिना गोणी उताहि अन्नस्स । इय नाऊणं ताहि सहिया जाया दुवग्गावि ।।
[भा. १३२६ ]
वृ- दोनि गोवाला सहोयरभाउगा भंडणं करेत्ता पत्तेयं पत्तेयं वेयणएण गावीतो रक्खंति । अन्नया तेसिं एगो रोगी जातो ततो तेन जाव न रक्खिया तो गावीतो परिहीणी जातो, अन्नया बितितो पडिलग्गो सोवितहेव परिणीणो ततो तेहिं एगागयिस्सन सोहमिति चिंतिऊण परोप्परंपीती कया, तो एको पडिलगो । तस्स वियातो गावीतो विइतो रक्खइ, एवं इयरस्सवि । एवं तेसिंदव्वपरिवड्डी जाया । एवं अम्हंपि वीसुंवीसुं विहरंताणं परिहानी भवति तम्हा मिलिया विहरामो जेण विउला नाणादीणं वड्ढो हवइ । जं तुब्भं तं तुब्भं चेव नाहं तं हरामि । एवं समल्लियावेत्ता सीसे सज्झतिए यदि परिणामेइ तहवि सो न लहह । सम्प्रतक्षरयोजनागोपालकदृष्टान्तं करोति । यथा- द्वौ गोपौ भ्रातृकौ तौ द्वावप्यसहितौ पृथक् पृथक् वेतनेन गा रक्षतः अन्यदा एकस्य ग्लानत्वे गा अन्यस्य गोस्वामिना दत्ता स वेतनात्परिभ्रष्टः । एवमितरोऽपि ग्लानत्वे वेतन परिहीनो जातस्तत इति पृथक् पृथक् असंहितस्थितस्य महती द्रव्यहानिरिति ज्ञात्वा जातौ द्वावपि सहिताविति उपसंहारमाह
For Private & Personal Use Only
www.jainelibrary.org