Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३६३
उद्देशकः २, मूलं : ५९, [भा. १२३२] .... तरदकृत्यस्थानं मैथुनादिकं प्रतिसेव्य प्रतिसेवितमभ्युपगतस्य गुरुणामन्तिके आलोचयेत् आलोचनाप्रकारमाह-अहणमितिवाक्यालङ्कारभदन्त! अमुकेनसाधुनासार्धमस्मिनकारणेमैथुनादिके प्रतिसेवी।किमुक्तंभवति ।तेनानेन मैथुनादिनाकारणेन चारित्रप्रतिकूलक्रियासेवनाभागजातइति । अथ सकस्मादात्मानं प्रति सेवितवंतमभ्युपगच्छतिन परस्यैव केवलस्याभ्याख्यानं ददातितत आहपच्चवहेउं चेत्यादि । परेषामाचार्याणामन्येषां च साधूनामेष सत्यं वदत्यन्यथा को नामात्मानं प्रतिसेवितमभिमन्यत इतिप्रत्ययो विश्वासः स्यादितिहेतोःस्वयमपिच प्रतिसेवितमितिभणति, । एव मुक्तेयस्याम्याख्यानमदायि सप्रष्टव्यः । किंभवान् प्रतिसेवीन वा, तत्र यदिस वदेत् प्रतिसेवी ततःस परिहारप्राप्तः स्यात् परिहारतपोभाक् क्रियते, । उपलक्षणमेतत् च्छेदादिप्रायश्चित्तभागपि क्रियते इति दृष्टव्यः । अथस वदेत् नाहं प्रतिसेवी तर्हि न परिहारप्राप्तः स्यात्, न परिहारतपः प्रभृतिप्रायश्चित्तभाक् क्रियतेइतिभावः । सचप्रतिसेवीवायदभ्याख्यानदातासेतस्यप्रतिसेवनायाप्रमाणंचरिकादिवक्ति, । तस्मात्प्रमाणात् गृहीतव्यो निश्चेतव्यः स अथ किं कस्मात्कारणादेवमाहुर्भवन्तो हे भदन्त सूरिराहसत्यप्रतिज्ञाव्यवहारास्तीर्थकरैः दर्शिताः । ततो यथा कथंचित्प्रतिसेवी अप्रतिसेवी वा क्रियते । एष सूत्राक्षरार्थः । अधुना नियुक्ति भाष्यविस्तरः । तत्र भिक्षाचर्यां विचारभूमिगमनविहारादिषु यो रत्नाधिकतरः कुतश्चिद्दोषादवमोजातः सतमवरमरत्नाधिकंयेः करैरभ्याख्यानेन दूषयति ।
तानि प्रतिपादयिषुराह[भा.१२३३] रायनियवायएणंखलियमिलितपेल्लणाए उदएणं ।
देउलमेहुणंमिय अब्भक्खाणंकुडंगंमि ।। वृ- रत्नाधिकवातेन रत्नाधिकोऽहमिति गर्वेण अवमरत्नाधिकं दशविधचक्रवालसामाचार्यामस्खलितमपिकषायोदयेन तर्जयति । यथा हे दुष्टशैक्षक! स्खलितोऽसीति तथाएापथिकी प्रतिक्रम्य प्रथममेव परावर्तयन्तं यदि वा अग्रिमतपरदं पदेन विच्छिन्नं सूत्रं उच्चारयंतं हा दुष्ठु शैक्षकमिलितमुच्चारयसीति । तथापेल्लणत्तिअन्यैः साधुभिर्वार्यमाणोऽपिकषायोदयतस्तंहस्तेन प्रेरयतितर्जयति । ततः सोवमरत्नाधिकः कषायितः सचिन्तयतिएषरत्नाधिकवातेनेत्थंबहुजनसमक्षतर्जयति ।अर्थ
चैषा सामाचारी रत्नाधिकस्य सर्वं क्षंतव्यमिति ततस्तथा करोसि । यथैष ममलघुको भवति । एवं चिन्तयित्वा तौ द्वावपि भिक्षाचर्याय गतौ च तृषितौ बुभुक्षितौ वेत्येवं चिन्तयन्तौ चिन्तितवन्तौ अस्मिन्नायदिवकुलेवृक्षविषमेवाप्रथमालिकांकृत्वापानीयंपास्यामइति । एवं चिन्तयित्वातौतदभिमुखं प्रस्थितौ । अत्रान्तरे अवमरत्नाधिकः पब्रिाजिकामेकां तदभिमुखं गच्छन्तीं इष्टा स्थितोपलब्ध एष इदानीमिति चिन्तयित्वा रत्नाधिकं वदति-अहो अज्ज ज्येष्टार्य कुरु त्वं प्रथमालिकां पानीयं वा पिब, अहं पुनः संज्ञां व्युत्सृक्ष्यामि । एवमुक्त्वा त्वरितं वसतावागत्य मैथुने अभ्याख्यानं ददत् आलोचयति तथा चाह-देउले इत्यादि देवकुले आदेिवगृहादौ कुडङ्गे वा वृक्षविषमे प्रदेशे मैथुने अभ्याख्यानं दातुं वसतावागत्य आलोचयति, यथा आलोचयति, तथा दर्शयति[भा.१२३४] जेट्टजेणअकजंसजं अज्जा घरे कयं अजं ।
उवजीवितोत्थभंतेमए विसंसट्ठकप्पोव ।। वृ-ज्येष्ठार्येणाद्य सद्य इदानीमार्यागृहे कृतमकार्य मैथुनासेवालक्षणंततोभदन्त तत्संसर्गतोमयापि संसृष्टकल्पो मैथुनप्रतिसेवा अत्रास्मिन्प्रस्तावे उपजीवितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482