Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 377
________________ ३७६ व्यवहार - छेदसूत्रम् - १-२ / ५९ वृ- अथवेति प्रकारान्तरोपप्रदर्शन अगीतार्था ब्रुवते । मज्जनादिभिर्मञ्जनाङ्गरागधूपाधिवासादिभिरप गृहिभूतो जातः सपुनरेवसमाह-नाहं स्नानादिकं कृतवान् यदि वा बलादहं स्वजनैः स्नानादिकं कारितो न पुनस्तेषु स्नानादिष्वनुरागवान् जात इति । तत्रैवं भूते विवादे यत्ते सहाया ब्रुवते तन्न भवति प्रमाणं, किन्तु स एव तत्र प्रमाणमिति एतदेव प्रविकटयिषुराह [ भा. १२८८ ] पडिसेवी अपडिसेवी एवं श्रेराण होइ उ विवादो । तत्थ वि होइ पमाणं स एव पडिसेवणा न खलु ।। वृ- स्थविरा आचक्षते एष प्रतिसेवी स प्राह-नाहं प्रतिसेवी एवं स्थविरैः सहगाथायां षष्टी तृतीयार्थे विवादो भवति । अत्रापि प्रतिसेवना विषयेऽपि भवति स एव प्रमाणं न पुनः खलु सहायैरुच्यमाना प्रतिसेवना तेपां पुनरगीतार्थानां पुरतः सूरय एतदभिदधति [ भा. १२८९] मजन गंध परियारणादि जह नेच्छतो अदोसाय । अनुलोमा उवसग्गा एमेव इमंपि पासामी ।। | वृ- यथा अनिच्छतोऽनभिलषितोऽनुलोमा अनुकूला उपसर्गाः । के ते इत्याह-मज्जनं स्नानं गन्धः पटवासादिरूपः परिचारणास्त्रिया बलात्कारेणोपभोग आदिशब्दादेवं विधान्योपसर्गः परिग्रहः एते यथा अदोषास्तद्विषयानुमननाभावात् । एवमिदमप्यधिकृताऽवधावितसाधुविषयं मज्जनादि पश्यामस्तदनुरागा भावतो निर्दोषमिति भावः एतदेव भावयति [भा. १२९०] जह चेवय पडिलोमा अपदुस्संतस्स होति दोसा य । एमेव य अनुलोमा होति असायज्जणे अफला ।। वृ- यथेति दृष्टान्तोपन्यासे, च शब्दो दृष्टान्तदाष्टन्तिकयोः साम्यावधारणार्थः । यथाचैवं प्रतिलोभाः प्रतिकुला उपसर्गाः प्रद्वेषतः प्रद्वेषमगच्छतो भवत्यदीपाय एवमेव अनेनैव प्रतिकुलोपसर्गगतेन प्रकारेण अनुलोमा अपि स्वजनैः क्रियमाणा मज्जनादय उपसर्गा असाइजमाणे अननुमनने भवन्त्यफलाः अन्यच्च[भा. १२९१] साही भोगच्चई अविमहती निजराउ एयस्स । सुमो विकम्मबंधो न होइ उ नियत्तभावस्स ।। वृ- अपीति गुणान्तर समुच्चये । स्वजनक्रियमाणमञ्जनाङ्गरागाद्यनास्वादनादेप स्वाधीन भोगत्यागी स्वाधीनभोगपरित्यागाच्चैतस्य महती निर्जरा पुराणकर्मनिर्जरणं प्रवृद्धप्रवृद्धतर शुभाशयसंभवात् न चाप्यभिनवकर्मसंगलनंयत आह-नतुनिवृत भावस्यावधावनात् प्रतिनिवृत्त परिणामस्य सतः सूक्ष्मोऽपि कर्मबन्धो भवति, कर्मोपचयहेतोर्दुष्टाध्यवसायस्याभावात् । मू. (६१) एगपक्खियस्स भिक्खुयस्स कप्पति आवरिय उवज्झायाण इत्तरियं दिसं वा अनुदिस वा उद्दिसित्तए वा धारितएवा जहा वा तस्स गणस्स पत्तियं सिया ।। वृ- एकः समानः पक्ष एकपक्षः । सोऽस्यास्तीति एकपक्षिकः प्रव्रज्यया श्रुतेन च स्ववर्गस्य भिक्षोः कल्पते । इत्वरां कियत्कालभाविनीमित्वस्ग्रहणमुपलक्षणं यावत्कथिकां च दिशमाचार्यत्वमुपाध्यायत्वं वा अनुदिशं वा आचार्योपाध्यायपदद्वितीयस्थानवर्तित्वं वा शब्दो विकल्पार्थः । उद्देष्टुं वा तस्य वा स्वयं धारयितुं यथा वा तस्य गणस्य प्रीतिकं स्यात् । यथावा दिशमनुदिशं वा उद्दिशेत । किमुक्तं भवति ? भिन्नपक्षिकमप्यपवादपदेन स्वगणप्रीत्याचार्यादिपदाध्यारोपितं कुर्यादिति संक्षेपार्थः । व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः पूर्वसूत्रेण सह सम्बन्धमाहः For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482