Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 380
________________ उद्देशक : २, मूलं : ६१, [भा. १३०० ] ३७९ रोपसम्पत्तौ न प्रश्नहेतोर्गणभेदः स्यात् । सम्प्रति श्रुतानेक पाक्षिकयावत्कथिकाचार्यस्थापने दोषमाहन तरइ सो संधेयं अप्पाहारी वि पुच्छियं देइ । अन्नत्थव पुच्छंते सचित्तादीउ गिण्हंति ।। [भा. १३०१] वृ स श्रुतानेकपाक्षिकस्थापितो यावत्कथिको आचार्यो भिन्नवाचकत्वात् न शक्तोति संधातुं विस्मृतमालापकं दातुमथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोप्युच्यते । ततोऽल्पा धारः अल्पस्य सूत्रार्थस्य चाश्रय इति पृष्टः सन्नन्यं प्रष्टुमालापकं ददाति । अन्यत्र च गणान्तरे गत्वा पृच्छति ते गच्छान्तवर्तिन आचार्यास्तेनोत्पादितंसचित्तादिकं गृह्णन्ति अगीतार्थानां न किञ्चिदाभाव्यमिति जिनवचनात्तस्य च तेषां समीपे पृच्छनात् । उपसंहारमाह [भा. १३०२ ] सुयती अगपक्खं एए दोसा भवे ठवंतस्स । पव्वज्जणेगपक्खित, उवयंते इमे भवे दोसा ।। वृ- श्रुतोनेकपक्षिणमित्वरं यावत्कथिकं वाचार्यं स्थापयत एते अनन्तरोक्तदोषा भवन्ति । प्रव्रज्यानेकपक्षिणं पुनरित्वरं यावत्कथिकं वा स्थापयत इमे वक्ष्यमाणा भवंति दोषाः । तानेव प्रतिपादयिषुराह— [ भा. १३०३] दोन्हवि बाहिरभावो सचित्तादीसुभंडणा नियमा । होइस गणस्स भेदो सुचिरेण नए अम्हत्ति बृ-प्रव्रज्याने कपाक्षिकेत्वरयावत्कथिकाचार्यस्थापने द्वयोरपि गच्छस्य वाचार्यस्येत्यर्थः । बहिर्भावो बहिर्भावोध्यवसायो भवत् तथाहि योऽसौ स्थापित आचार्यः स गच्छवर्तिनः साधुन् समस्तानपि परकीयान्मन्यते । साधवोऽपि च गच्छवर्तिनस्तं परमभिमन्यते । एवं परस्परं बहिभावाध्यवसाये सति स्थापितस्याचार्यस्य गच्छवर्तिनां च साधुनामनिभाव्यानि सचित्तादीनि गृह्णतां नियमात् भण्डनं कलहो भवति । तथा च सति प्रवचनोड्डाहः प्राक्कल्पव्यावर्णितप्रायश्चितप्रायश्चित्तापत्तिश्च अन्यच्च गच्छवर्तिनस्ते साधवो मन्यन्ते सुचिरेणापि प्रभूतेनापि कालेन गच्छता नास्माकमेप परकीयत्वात् । उपलक्षणमेतत् । सोऽप्यभिमन्यते सुचिरेणाप्येते परकीया इत्येवं परस्परमध्यवसांयभावतो गणस्य गच्छस्य भेदो भवन्ति । तस्मादित्वरो यावन्कथिको वा प्रथमभङ्गवर्ती स्थापयितव्यः, अत्रैवापवादमाह[भा. १३०४] अन्नयरनिगिच्छाए पढमासति तइय भंगमित्तरियं । तईय स्सेवसई बितितो तस्साणति चउत्थो ।। वृ- अन्यतरचिकित्सायां मोहे चिकित्सायां वाचार्यमित्वरभुपलक्षणमेतत् । अभ्युद्यतमरणप्रतिपत्ती अभ्युद्यतविहारपरिकर्मप्रतिपत्तौ वा यावत्कथिकमाचार्यमुत्सर्गतः प्रथमभङ्गवर्तिनं स्थापयेत्, प्रथमभङ्गवर्तिनोऽसति अभावे तृतीयं तृतीयभङ्गवर्तिनमित्वरमुपलक्षणमेतत् । यावत्कथिकं वा स्थापयेत्, तत सूत्रेऽर्थे च सशीघ्रं निष्पादयितव्यः । तृतीयस्यापि तृतीयभङ्गवर्तिन एव शब्दार्थः । असत्यभावे पुनर्द्वितीयो द्वितीयभङ्गवर्ती स्थाप्यस्तस्याप्यसति अभावे चतुर्थभंगवर्त्ती । तत्र योऽसौ चतुर्भङ्गवर्ती स्थापयितव्यो भवति स एतादृशगुणः [ भा. १३०५ ] पवतीए भिउसहावं पगतीए संमतं विनीतं वा । नाऊण गणस्स गुरुं ठविंति अनेगपक्खिपि ।। वृ अनेकपत्तिणमपि प्रव्रज्यापक्षरहितं श्रुतसमानपक्षरहितमपि प्रथमद्वितीय भङ्गवर्त्यसंभवे प्रकृत्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482