Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 376
________________ उद्देशक : २, मूलं : ५९, [भा. १२८२] ३७५ वृ- जघन्यत एकाहे एकस्मिन्मध्ये दिवसे मध्यमतख्याह, उत्कर्षतः पञ्चाहे प्रतीक्षिते यदास निवर्ततुं नेच्छति ततः सहायाणमिति तं ब्रुवते कियच्चिरमस्माभिरवस्थातव्यमेहि व्रजामः । एवमुक्ते यदि सोऽभिधते नाहं व्रजामि । ततस्तस्मिन् प्रत्यागमनमनिच्छति भणंति यदि नागच्छसि तर्हि उपधि मपि तावद्देहि मा उपधेरप्युपघातो भूदिति ।। [भा. १२८३ ] नवि देमित्ति य भणिए गएसु जइसो ससंकितो सुबति । उवहम्मइ निसंकेनहम्मए अप्पडिवज्ज॑ते ।। वृ-यदि उपधेर्याचने कृते स ब्रते नापि नैव ददाम्युपधिमहमिति तत एवं भणिते स सङ्घाटको गच्छति सङ्घाडगतिहेति व्याख्यातमधुना वुच्छो उवहिग्रहणे इति तद्व्याख्यानयति गएसु इत्यादिगतेषुतेषु सहायेषु यदि सशङ्कितः शङ्कनं शङ्कितंसहशङ्कितं सशङ्कितं यस्य येन वा स तथा का पुनः शङ्का ? उच्यते-किंमुत् व्रजामि किं वा नेति एव रूपशङ्कोपेतः स्वपिति, रात्रौ तदा स उपधिरुपहन्यते । अथ निःशङ्कितः सन् (न) स्वपिति यथा नियमान्मयोत्प्रव्रजितव्यमिति तदा नोपहन्यते । अथ निःशङ्कित उषित्वा यदि वा यस्मिन् दिने सहाया गतास्तद्दिवसमेवानुषित्वा यदि निवृत्य व्रजिकादिष्वप्रतिबध्यमान आगच्छति । न चान्तरा रात्रौ दिवसे वा स्वपिति तदा तस्मिन्नप्यप्रतिबध्यमाने नोपहन्यते । अथ स्वपिति तर्ह्यपहन्यते । [ भा. १२८४ ] संवेग समावन्नो अनुवहयं घेत्तु एति तं चेव । अह होजाहि उवहतो सो विय जइ होज्ज गीयत्थो । । तो अन्नं उप्पाए तं वोवहयं विगंचिउं होइ । अपडिबज्झतेत्तु सुचिरेण वि हून उवहम्मे ।। [भा. १२८५ ] वृ- संवेगो मोक्षाभिलाषस्तं समापन्नस्तमेव गुरुप्रदत्तमुपधिमनुपहतं गृहीत्वा । एति समागच्छति । अथ भवेत् कथमप्युपहतः सोऽपि च साधुर्यदि स्यात् गीतार्थः ततस्तमुपहतमुपधिं विगंचिउंति परिस्थाप्यान्यमुपधिमुत्पाद्य एति समायाति । अथ स्यादगीतार्थस्तर्हि तेनोपधिरन्योनोत्पादन यो अगीतार्थत्वेनान्योत्पादने योग्यताया अभावात् । किन्तु तेनैवोपधिना गन्तव्यं । समागतस्य चान्यमुपधिमाचार्याः समर्पयन्ति । प्राक्तनं च साधुभिः परिस्थापयन्ति । सम्प्रति अप्पडिबज्झं तेउ इत्यादि अप्रतिबध्यमाने कर्मकर्तर्ययं प्रयोगः क्वचिदपि प्रतिबन्धमकुर्वति पुनः सुचिरेणापि प्रदीर्घेणापि कालेन हु निश्चितं नोपहन्यते उपधिः क्वचनापि प्रतिबन्धाकरणतः सततोद्यत्वात् । सम्प्रति विवाद इति व्याख्यानयति [भा. १२८६ ] गंतूण तेहिं कहियं, सावि आगंतु तारिसं कहिए । तो तं होइ पमाणं विसरिसकहणे विवादोउ ।। बृ-यौसहायौ तस्य प्रेषिती, ताभ्यां गत्वा गुरुसमीपं तस्य प्रतिसेवनमप्रतिसेवनं वा कथितं, सचापि कृतावधावनः साधुरागत्य तादृशं कथयति ततस्तद्भवति प्रमाणमुभयेषामप्यविसंवादात् । अथ विसदृशं कथयति ततो विवादः सहाया ब्रुवते एष प्रतिसेवीति । स प्राह नप्रतिसेवीति, तत्र सत्य प्रतिज्ञाः खलु व्यवहाराः इति, स एव प्रमाणीक्रियते, न सहायाः, । तदेवं प्रतिसेवनामधिकृत्य विवादो दर्शितः । सम्प्रति मज्जनादिकमाधिकृत्याह[ भा. १२८७ ] Jain Education International अहवा बेंति अगीया मज्जनमादिएहिं एस गिहीभूतो । तं तु न होइ पमाणं सो चेव तहिं पमाणं तु ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482