________________
उद्देशक : २, मूलं : ५९, [भा. १२८२]
३७५
वृ- जघन्यत एकाहे एकस्मिन्मध्ये दिवसे मध्यमतख्याह, उत्कर्षतः पञ्चाहे प्रतीक्षिते यदास निवर्ततुं नेच्छति ततः सहायाणमिति तं ब्रुवते कियच्चिरमस्माभिरवस्थातव्यमेहि व्रजामः । एवमुक्ते यदि सोऽभिधते नाहं व्रजामि । ततस्तस्मिन् प्रत्यागमनमनिच्छति भणंति यदि नागच्छसि तर्हि उपधि मपि तावद्देहि मा उपधेरप्युपघातो भूदिति ।।
[भा. १२८३ ] नवि देमित्ति य भणिए गएसु जइसो ससंकितो सुबति ।
उवहम्मइ निसंकेनहम्मए अप्पडिवज्ज॑ते ।।
वृ-यदि उपधेर्याचने कृते स ब्रते नापि नैव ददाम्युपधिमहमिति तत एवं भणिते स सङ्घाटको गच्छति सङ्घाडगतिहेति व्याख्यातमधुना वुच्छो उवहिग्रहणे इति तद्व्याख्यानयति गएसु इत्यादिगतेषुतेषु सहायेषु यदि सशङ्कितः शङ्कनं शङ्कितंसहशङ्कितं सशङ्कितं यस्य येन वा स तथा का पुनः शङ्का ? उच्यते-किंमुत् व्रजामि किं वा नेति एव रूपशङ्कोपेतः स्वपिति, रात्रौ तदा स उपधिरुपहन्यते । अथ निःशङ्कितः सन् (न) स्वपिति यथा नियमान्मयोत्प्रव्रजितव्यमिति तदा नोपहन्यते । अथ निःशङ्कित उषित्वा यदि वा यस्मिन् दिने सहाया गतास्तद्दिवसमेवानुषित्वा यदि निवृत्य व्रजिकादिष्वप्रतिबध्यमान आगच्छति । न चान्तरा रात्रौ दिवसे वा स्वपिति तदा तस्मिन्नप्यप्रतिबध्यमाने नोपहन्यते । अथ स्वपिति तर्ह्यपहन्यते । [ भा. १२८४ ] संवेग समावन्नो अनुवहयं घेत्तु एति तं चेव । अह होजाहि उवहतो सो विय जइ होज्ज गीयत्थो । । तो अन्नं उप्पाए तं वोवहयं विगंचिउं होइ । अपडिबज्झतेत्तु सुचिरेण वि हून उवहम्मे ।।
[भा. १२८५ ]
वृ- संवेगो मोक्षाभिलाषस्तं समापन्नस्तमेव गुरुप्रदत्तमुपधिमनुपहतं गृहीत्वा । एति समागच्छति । अथ भवेत् कथमप्युपहतः सोऽपि च साधुर्यदि स्यात् गीतार्थः ततस्तमुपहतमुपधिं विगंचिउंति परिस्थाप्यान्यमुपधिमुत्पाद्य एति समायाति । अथ स्यादगीतार्थस्तर्हि तेनोपधिरन्योनोत्पादन यो अगीतार्थत्वेनान्योत्पादने योग्यताया अभावात् । किन्तु तेनैवोपधिना गन्तव्यं । समागतस्य चान्यमुपधिमाचार्याः समर्पयन्ति । प्राक्तनं च साधुभिः परिस्थापयन्ति । सम्प्रति अप्पडिबज्झं तेउ इत्यादि अप्रतिबध्यमाने कर्मकर्तर्ययं प्रयोगः क्वचिदपि प्रतिबन्धमकुर्वति पुनः सुचिरेणापि प्रदीर्घेणापि कालेन हु निश्चितं नोपहन्यते उपधिः क्वचनापि प्रतिबन्धाकरणतः सततोद्यत्वात् ।
सम्प्रति विवाद इति व्याख्यानयति
[भा. १२८६ ]
गंतूण तेहिं कहियं, सावि आगंतु तारिसं कहिए ।
तो तं होइ पमाणं विसरिसकहणे विवादोउ ।।
बृ-यौसहायौ तस्य प्रेषिती, ताभ्यां गत्वा गुरुसमीपं तस्य प्रतिसेवनमप्रतिसेवनं वा कथितं, सचापि कृतावधावनः साधुरागत्य तादृशं कथयति ततस्तद्भवति प्रमाणमुभयेषामप्यविसंवादात् । अथ विसदृशं कथयति ततो विवादः सहाया ब्रुवते एष प्रतिसेवीति । स प्राह नप्रतिसेवीति, तत्र सत्य प्रतिज्ञाः खलु व्यवहाराः इति, स एव प्रमाणीक्रियते, न सहायाः, । तदेवं प्रतिसेवनामधिकृत्य विवादो दर्शितः । सम्प्रति मज्जनादिकमाधिकृत्याह[ भा. १२८७ ]
Jain Education International
अहवा बेंति अगीया मज्जनमादिएहिं एस गिहीभूतो । तं तु न होइ पमाणं सो चेव तहिं पमाणं तु ।।
For Private & Personal Use Only
www.jainelibrary.org