Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 366
________________ उद्देशकः२, मूलं : ५९, [भा. १२३९] - अन्नत्थवसहतुप्भेजा कुणिमोदेव उस्सगं ।। वृ-एवंतयोर्द्वयोरपिविदतोरेवमुच्यते-चरिका पृच्छयतांयत्सावक्ष्यतितत्प्रमाणयिष्यते । एवमुक्ते यदितौ द्वावप्यनुमन्येते-ततो द्वयोरनुमतेनसम्मत्या इत्यर्थः । वृषभाश्चरिकांप्रष्टुंप्रेक्षन्तेतेचतत्रगताः प्रथमतश्रचिरिकां प्रज्ञापयन्ति । प्रज्ञाप्य पृच्छन्ति । किमत्रसत्यमलीकंवा एवं वृषमैश्चरिका पृष्टा सती यत् बूते तत्प्रमाणं कर्तव्यम् । तत्र चरिकयोक्तं भगवन् अभ्याख्यानं तेन द्वितीयेन तस्मै दत्तमिति । एतच्चौक्तं वृषभा वसतावागत्य गुरवे निवेदयन्ति । तैर्यथावस्थिते निवेदिते यद्यन्यतरो वदति गृह्यति चरिकान सम्यक्कथयति । तदागुरवोद्वावपिब्रूते यूयमन्यत्र वसर्तियाचयि(चि) त्वातत्रवसथयावदद्य रात्रौ देवताराधनार्थं कायोत्सर्ग कुर्मः ! किमुक्तं भवति कायोत्सर्गेण देवतामाकम्प्य पृच्छामः कोऽत्र सत्यवादी को वालीकवादीइतिएवमुक्तेद्वावपिवसत्यन्तरेगतौ अत्रान्तरेकापालिकद्वारोपनिपातइति तदभिधित्सुराह[भा.१२४०] अद्विगमादी वसभापुव्विं पच्छावजंतिनिसिसुणणा। . आवस्सगआउट्टण्सब्भावेवाअसब्भावे ।। वृ-अस्थिकाः कापालिकाः आदिशब्दात् सरजस्कादि परिग्रहस्तद्र पाः सन्तः किमुक्तं भवति । कापालिकवेषंवासरजस्कवेषंवायदिवामायास्तनवीयंवेषंकृत्वायस्यांवसतौ द्वावपिजनौतिष्ठतस्तत्र पूर्वं वृषभा गच्छन्ति यदि वा तयोर्गतयोः पश्चात्तत्र गत्वा रात्रौ मातृकस्थानेन सुप्ता इव तिष्ठन्तो द्वयोरपितयोः परस्परमुल्लापं शृण्वन्ति । तयोश्चावश्यकं कर्तुकामयोर्योऽसाववमरत्नाधिकोऽभ्याख्यानदाता स इतरं प्रति मिथ्यादुष्कृतेनोपस्थितः एतद्वदति त्वं मया असत्याभ्याख्याने नाभ्याख्यातो मिथ्यादुष्कृतमितिततोरत्नाधिकोब्रूते । किंनामतवापकृतंमयायेनासदाभ्याख्यानं मे दत्तमिति अवमरत्नाधिको भाषतेत्वं नित्यमेव यत्र तत्र वा कार्ये सम्यक् प्रवर्त्तमानमपि हे दुष्ट शैक्षक! इति तर्जयसि तेन मया त्वमसदभ्याख्यानेनाभ्याख्यात एवमावश्यके आवश्यकवेलायामावर्त्तने भावप्रत्यावर्त्तने अलीकाभ्याख्याने सद्भावो ज्ञायते । अथ न परस्परासंभाषणतः सद्भावो ज्ञायते, तंदासद्भावपरिज्ञानाभावे तपस्वीप्रष्टव्य इतिशेषः । तथा चाह[भा.१२४१] सेहोत्तिमंभाससि निच्चमेव बहूणमज्भ्क्तं किंकहेमि । अभासमाणाण परोप्परं वा दिव्वाणमुस्सग्गतवस्सी कुज्जा ।. वृ-नित्यमेवसर्वकालमेवपदेपदेहादुष्टशैक्षकइतिमांभाषतेतेनत्वमसताभ्याख्यानेनाभ्याख्यातः । अथ.स रत्नाधिकस्तमवमरत्नाधिकं ब्रूयात् । यदि मया कयापियुवत्या सह कृतमकार्यं ततः किं त्वया बहूनां मध्ये अहमेवमाख्यातोऽनेन कृता प्रतिसेवनेति । किन्त्वहमेवैकान्ते वक्तव्यो भवामि यथा दुछुतमालोचयगुरुणामन्तिके इतिममरोषेणत्वयात्मीयमपिविगोपितम् । एवंसद्भावोज्ञायते । एतावता आवस्संग आउट्टणसम्भावे वा इति व्याख्यातमिदानीमसद्भावे इति व्याख्यानयति । अभासमाणाण परोप्परं वा इति । अथ कदाचित्तौ रोषतः परस्परं न संलपतः तदा तयोः परस्परमभाषमाणयोर्भूतार्थपरिज्ञानाभावेतपस्वी क्षपको देवताराधनार्थंकायोत्सर्गकुर्यात् ।कायोत्सर्गणचदेवतामाकम्प्यपृच्छति को तयोर्द्वयोर्मध्ये सम्यग्वादी को वा मिथ्यावादीति तत्र यद्देवता ब्रूते तत्प्रमाणमेतेन तप इति द्वारं व्याख्यातम् ।अधुना सङ्घद्धारंव्याचिख्यासुरिदमाह[भा.१२४२] किंचितहातहदीसइचउभंगे पंतदेवया भद्दा । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482