Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 350
________________ उद्देशकः २, मूलं:५१, [भा. ११६३] ३४९ वृ-अर्थवाभाविप्रयोजनं हेतुंवा कस्यापि प्रयोजनस्य कारणं श्रमणस्याचार्यादेः शेषजनविरहिते प्रदेशे कथयन् मूर्च्छया विपतितस्यात्मनः प्रगुणं भवन्तमनुमन्यमानस्य कल्पते ग्रहणं परिज्ञायानशनप्रत्याख्यानस्य तत एतदर्थ प्रतिपादनार्थं सप्रायश्चित्तसूत्रानन्तरमिदं भक्तपानप्रत्याख्यानसूत्रमनेन सम्बन्धनायात्तस्यास्य व्याख्या । भक्तंच पानंचभक्तपानेतेप्रत्याख्याते येनस तथाक्लान्तस्य परनिपातः सुखादिदर्शनादिति भिक्षुग्लायन्तमित्यादिप्राग्वत् । अत्र वैयावृत्यमाह[भा.११६४] गीयत्थाण असती सव्वसतीएव कारणपरिणा । पानगभत्तसमाही कहणा आलोगधीरवणा ।। वृ-गीतार्थानामसति अभावे यदि वा सर्वस्यापि साधोरशिवादिकारणत एकस्यापि साधोरभावे कारणपरिणत्ति कारणवशत एकाकिना जातेन परिज्ञाप्रत्याख्यानं भक्तपानस्य कृतं ततस्तस्य कृतभक्तप्रत्याख्यानस्य गीतार्थानामभावे यदि वा कारणत एकस्यापि साधोरभावे सीदतो योग्यपानकप्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीया । कथना धर्मकथना यथाशक्ति स्वशरीरानाबाधया कर्तव्या । तथा आलोकं आलोचनं सदापयितव्यः । यदि कथमपि चिरजीवनेन भयमुत्पद्यते यथा नाद्यापि म्रियते किमपिभविष्यतीतिन जानीम इति तस्सधीरापनाकर्तव्या । [भा.११६५] जइवान निव्वहेज्जा असमाही वासे तस्मिगच्छम्मि । करणिज्जतत्थगतेववहारो एत्थसुद्धोवा ।। वृ. यदि वा प्रबलबुभुक्षावेदनीयोदयतया कृतभक्तप्रत्याख्यानतया न निर्वहेत् । न यावत्कथिकमनशनं प्रतिपालयितुं क्षम इति । यावदसमाधिर्वा तस्मिन् गच्छे तस्य वर्तते ततोऽन्यत्र गते तस्मिन् यत्कर्तव्यं तत्करणीयं अन्यत्र नीत्वा यद्यदुचितं तत्तस्य करणीयमित्यर्थः । पश्चादनशनप्रत्याख्यानभङ्गविषयस्तस्य व्यवहारः प्रायश्चित्तं दातव्यम् । अथ स्वगच्छसमाधिमात्रेणान्यत्र गतस्ततः समिथ्यादुष्कृतप्रदानमात्रेणशुद्ध इति ।। मू. (५२) अट्ठ भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निहित्तए अगिलाए करणिज्जं वेयावडियं जाव रोगातकातो विप्पमुक्के । ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्ये सिया इति ।। वृ-अथास्यसूत्रस्यकः सम्बन्धः? उच्यते-- [भा.११६६] वृत्तं हिउत्तमढेपडियरणट्ठाव दुक्खरे दिक्खा । एतो यतस्समीवंजइहीरइअट्ठजायमंतो ।। . वृ-उक्तं हि यस्मात्पूर्वंकल्पाध्ययने उत्तमार्थे उत्तमार्थं प्रतिपत्तुकामस्यद्वयक्षरेट्यक्षरस्य दासस्य दीक्षादीयते । यदिवा प्रतिचरणायएष दीक्षितोमां ग्लानंसन्तंप्रतिचरिष्यतीति निमित्तं । एतोय इत्यादि इतश्च दीक्षादानानन्तरंतस्सापाद्यस्यसमीपेदीक्षागृहीतातस्यसकाशात् । गाथायांद्वितीयापञ्चभ्यर्थे । यदि हृदये अतो अर्थजातं भवति । प्रयोजनजातमुत्पद्यते ततः सम्प्रत्यर्थे जातस्तत्रावकाशः । अनेन सम्बन्धेनायातस्यास्य व्याख्या । सा च प्राग्वत् । साम्प्रतमर्थजातं भिखं ग्लायन्तमित्यत्र योऽर्थजातशब्दस्तद्व्युत्पत्तिप्रतिपादनार्थमाह[भा.११६७] अत्थेन जस्स कज्जं संजायं एस अठ्ठजातोय। . सो पुनसंजमभावाचालि जंतो परिगिलाइ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482