Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 19
________________ ३७२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ चक्षुर्णाह्यान्, कानेवंविधानित्याह-त्रसकायः-त्रसनामकर्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः तान्, कियत इत्याह-असङ्ख्यातान्, तथास्थावरकायांश्च-सूक्ष्माश्च बादराश्च तत्तन्नामकर्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्च-साधारणशरीरनामकर्मोदयवर्त्तिन इति द्वन्द्वोऽतस्तान्, कियतः ?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात्, जीवानिति योगः, किमिति इत्याह-अन्ति, किम्भूतान्? अविजानतश्चस्ववधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान्, अथवा स्ववधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान्-जन्तून् एभिर्विविधैः कारणैः-प्रयोजनैः, किंते'त्ति किंतत्तद्यथेतिवा, कर्षणकृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापी निष्पुष्करा वृत्ता वा 'वप्पिण'त्ति केदारः कूपसरस्तडागाः प्रतीताः चितिःभित्त्यादेश्चयनं मृतकदहनार्थंदारुविन्यासोवा वेदिः-वितर्दिका खातिका-परिखाआरामो-वाटिका विहारो-बौद्धाद्याश्रयः स्तूपः-चितिविशेषः प्राकारः-शालं द्वारं-प्रतीतंगोपुरं-प्रतोली कपाट इत्यन्ये अट्टालकः-प्राकारोपरिवत्याश्रयविशेषः चरिकाः-नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः-मार्गविशेषः पालिर्वा सङ्कङ्कमो-विषमोत्तरणमार्गःप्रासादो-नरेन्द्राश्रय; विकल्पाः-तभेदा भवनानि-चतुःशालादीनि गृहाणि-सामान्यानि शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः चैत्यानि-प्रतिमाः देवकुलानि-सशिखरदेवप्रासादाःचित्रसभाः-चित्रकर्मवन्मण्डपाः प्रपा-जलदानस्थानं आयतनं-देवायतनं आवसथ;परिव्राजकाश्रयः भूमिगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते-निमित्ते पृथिवीं हिसंति इति सम्बन्धः, भाजनानि-अमत्राणि सौवर्णादीनि भाण्डानि-तान्येव मृन्मयानि क्रयाणकानि वा लवणादीनि उपकरणानि-उदूखलादीनि एषांसमाहारद्वन्द्वः ततस्तस्य विविधस्य चाय-हेतवे पृथिवीं--पृथ्वीकायिकान् हिंसन्ति मदन्बुद्धिकाः,तथा जलं च-अकायिकांश्च हिंसंतीति वर्तते, मज्जनकं-स्नानं पानं भोजनं च प्रतीतं वस्त्रधावनं-वासःक्षालनं शौचः-आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पाचनं च ओदनादेः जलवणन्ति-स्वतः परतो वाऽग्नेरुद्दीपनं विदर्शनं-अन्धकास्थवस्तुप्रकाशनं एगैः कारणैः चः समुच्चये अग्नि हिंसंति, तथा सूर्ण प्रतीतं व्यञ्जनं-वायूदीरकं तालवृन्तं-तदेव द्विपुटादि 'पेहुणं ति मयूराङ्गं मुखं-आस्यं करतलं-हस्तः सर्गपत्रं-वृक्षविशेषपर्णं वस्त्रं-प्रतीतं, एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायुं हिंसन्तीति, तथा अगारंगेहं परियारो'त्ति परिचारो-वृत्तिः खग्रादिकोशोवा भक्ष्याणि-मोदकादीनि 'खरविशदमभ्यवहार्यं भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्टराणि फलकानि-अवष्टम्भनद्यूतादिनिमित्तानि मुशलान्युदूखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि-पटहादीन्यातोद्यानि-वाद्यानिवहनानि-यानपात्रणिवाहनानिशकटादीनि मण्डपाः प्रतीताः विविधभवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्क:-कपोतपाली देवकुलंप्रतीतंजालकंछिद्रान्वितोगृहावयवविशेषःअर्द्धचन्द्रः-सोपानविशेषः निर्वृहकं-द्वारोपरितनपाविनिर्गतदारु चन्द्रशालिका-प्रासादोपरितनशाला वेदिका-वितर्दिका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192