Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 119
________________ ४७२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५ चवचतिशब्दरहितं अद्रुतं-अनुत्सुकं अविलम्बितं अनतिमन्दं अपरिशाटि-परिशाटिवर्जितं 'भुजेज्जा' इति क्रियाया विशेषणानीमानि, 'आलोयभायणे'त्ति प्रकाशमुखे भाजने अथवा आलोके-प्रकाशे नान्धकारे, पिपीलिकावालादीनामनुपलम्भात्, तथा भाजने–पात्रे, पात्रं विना जलादिसमपतितसत्त्वादर्शनादिति, यतं-मनोवाकापसंयतत्वेन प्रयत्नेन-आदरणे व्यपगतसंयोगसंयोजनादोषरहितं अणिंगालं वत्ति रागपरिहारेणेत्यर्थः विगयधूमति द्वेषरहितं, आहच–“रागेण सइंगालं दोसेण सधूमगंवियाणाहि"त्तिअक्षस्य-धुरः उपाञ्जनं प्रक्षणंअक्षोपाञ्जनंतच्च व्रणानुलेपनं च ते भूतं-प्राप्तं यत्तत्तथा तत्कल्पमित्यर्थः, संयमयात्रा-संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं हेतुर्यत्र तत्संयमयात्रामात्रानिमित्तं, किमुक्तं भवति? - संयमभारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुजीत न वर्णबलरूपनिमित्तं विषयलौल्येन वा, भोजनंविकलो हि न संयमसाधनं शरीरं धारयितुं समर्थो भवतीति 'भुंजेजत्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया-जीवितव्यसंरक्षणायेत्यर्थः, संयतः-- साधुः, णमिति वाक्यालङ्कारे, 'समय'तिसम्यक्, निगमयन्नाह-एवमाहारसमितियोगेन भावितः सन्भावितो भवन्त्यन्तरात्मा अशबलासलिष्टनिव्रणचारित्रभावनाकः अशबलासङ्किलष्टनिव्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति । 'पंचमगं'ति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्धं 'एयंपी'ति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया-संयमपोषणाय तथा वातातपदंशमशकशीतपरिरश्रणार्थतया उपकरणं-उपकारकं उपधिं रागद्वेषरहितं क्रियाविशेषणमिदं परिहरियव्वं'तिपरिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन-साधुना नित्यं-सदा तथा प्रत्युपेक्षणाप्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुव्यापारेणप्रस्फोटनया-आस्फोटनेनप्रमार्जनयाच-रजोहरणादिव्यापाररूपया, 'अहो य राओय'त्ति अह्निच रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्च वस्त्रादिः एतत्रयलश्रणमुपकरणं-उपकारि वस्तित्वति कर्मधारयः, निगमयन्नाह-'एवमादाने'त्यादि पूर्वत् ___नवरंइह प्राकृतशैल्याऽन्यथा पूर्वापरदनिपातः तेन भाण्डस्य-उपकरणस्यादानंच-ग्रहणं निक्षेपणा च-मोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थं निगमयत्राह-एव मिति उक्तक्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक् संवृतं-आसेवितं भवति, किंविधं सदित्याहसुप्रणिहितं-सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किं विधैरित्याह एभिः पञ्चभिरपिकारणै:-भावनाविशेषैः अहिंसापालनहेतुभिः मनोवाक्कायपरिरक्षितैरिति, तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात्, तथा एषः-योगोऽन्तरोदितभावनापञ्चकरुपो व्यापारो नेतव्यो-वोढव्य इति भावः, केन ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192