Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 139
________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९ तं करोतीत्यवंशीलं यत्तत्तथा, मकारस्त्विह पाठे आगमिकः, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाधहेतुत्वादव्याबाधं अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्य च सुखेहेतुत्वाच्छिवहेतुत्वाच्च सुखशिवं अचलनहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः-मुनिप्रधानैःसंरक्षितंपालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठानं,सुचरितत्त्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शयन्नाह-सुसाधितं-सुष्टु प्रतिपादितं, 'नवरि'त्ति केवलं मुनिवरैः-महर्षिभिःमहापुरुषाश्चतेजात्याधुत्तमाः धीराणांमध्ये सूराश्च-अत्यन्त-साहसधनाःते च ते धार्मिका धृतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्यावधारणार्थत्वात्, सदा विशुद्धं-निर्दोष अथवासदापि सर्वदैव कुमाराद्यवस्थासुसस्विपीत्यर्थःशुद्धं-निर्दोषं, अनेन चैतदापास्तं यदुत॥१॥ "अपुत्रस्य गतिनास्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्मं चरिष्यसि ॥" __-इति, अत एवोच्यते॥१॥ "अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥" भव्यं-योग्यं कल्याणमित्यर्थः, तथाभव्यजनानुचरितंनिःशङ्कितं-अशङ्कनीयं, ब्रह्मचारी हिजनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं,ब्रह्मचारी हि अशङ्कनीयत्वानिर्भयो भवति, निस्तुषमिवल निस्तुष-विशुद्धतन्दुलकल्पं निरायासं-नखेदकारणं निरुपलेपं-स्नेहवर्जितं तथा निवृत्तेः-चित्तस्वास्थ्यस्य गृहमिव गृहं यत्तत्तथा, आह च॥१॥ “कवयामः कवनु तिष्ठामः, किं कुर्मः किन्न कुर्महे । रागिणश्चिन्त्यन्त्येवं, नीरागाः सुखमासते।" नीरागश्च ब्रह्मचारिण एव, तथा नियमेन अवश्यंभावि निष्पकम्पं-अविचलं निरतिचारं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च॥१॥ "नवि किंचि अणुनायं पडिसिद्धं वावि जिनवरिदेहि । मोत्तुं मेहुणभावंन तं विणा रागदोसेहिं ।।" ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्पकम्पमिति भवति, तपःसंयमयोर्मूलदलिकं-मूलदलं आदिभूतद्रव्यं तस्य 'नेमं; ति निभं-सशं यत्तत्तथा, पञ्चानां महाव्रतानां मध्ये सुठु-अत्यन्तंरक्षणं-पालनंयस्यतत्तथा, समितिभिः ईर्यासमित्यादिभिर्गुप्तिभिः मनोगुप्तयादिभिर्वसत्यादिभिर्वा नवभिब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वायत्तत्तथा, ध्यानवरमेव-प्रधानध्यानमेव कपाट सुकृतं-सुविरचितं रश्रणार्थं यस्य अध्यात्मैव च-सद्भावनारूढं चित्तमेव 'दिण्णो त्ति दत्तो ध्यानकपाटढीकरणार्थं परिघः-अर्गला रक्षणार्थं मेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशकं-दर्शकं यत्तत्तथा तच्च, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह॥१॥ "देवदानवगंधव्वाजक्खरक्खस्सकिंनरा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192