Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 164
________________ द्वारं-२, अध्ययनं-५, तथा यत्तत्तिथिषु-मदनत्रयोदश्यादिषु यज्ञेषु-नागादिपूजासु उत्सवेषुच-शक्रोत्सवादिषु अन्तर्बहिपर्वा उपाश्रयात् भवेत् श्रमणार्थं स्थापितं-दानायोपस्थापितं हिंसालक्षणं यत्सावा तत्सम्प्रयुक्तंन कल्पते तदपि च परिग्रहीतुं, अथेति परप्रश्ने, कीशं? -किंविधं पुणाईति पुनः कल्पते-सङ्गच्छतेपरिग्रहीतुमोदनादीति प्रकृतं, उच्यते, यत्तदेकादशपिण्डपातशुद्धं-आचारस्य द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायकैरुद्देशैर्विशुद्धं तदुक्तदोषविमुक्तं यत्तत्तथा, तथा क्रयणं हननं-विनाशनंपचनं च--अग्निपाक इति द्वन्द्वः एषां यानि कृतकारितानुमोदनानि-स्वयं करणकारणानुमतयः तानि तथा त एव नवकोट्यो विभागा इति समासः, ताभिः सुपरिशुद्धं-निर्दोषं दशभिश्च दोषैर्विप्रमुक्तं ते च शङ्कितादय एषणादोषाः, उद्गमः-आधाकर्मादिः षोडशविधः उत्पादना-धात्र्यादिका षोडशविधैव एतद्द्ववयमेषणा-गवेषणाभिधानाउद्गमोत्पादनैषणातया शुद्धं, ‘ववगयचुयचावियचत्तदेहंच'त्तिव्यपगतंओधतया चेतनापर्यायादचेतनत्वं प्राप्तं च्युतं-जीवनादिक्रियाभ्यो भ्रष्टं व्यावितं तेभ्य एव आयुःक्षयेण सितंत्यक्तदेहं-परित्यक्तजीवसंसर्गसमुत्यशक्तिजनिताहारादिपरिणामप्रभवोपचयं यत्तत्तथा चः समुच्चये तथा प्रासुक्तंच-निर्जीवमित्येतत्पूर्वोक्तस्यैव व्याख्यानं कल्पते ग्रहीतुमिति प्रक्रमः, तथा व्यपगतसंयोगमनङ्गारं विगतधूमं चेति पूर्ववत्, षट्स्थानकानि निमित्तं यस्य मैक्षवर्तनस्य तत्तथा, तानि चामनि-- ॥१॥ "वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संजमवाए ४। तह पाणवत्तियाए ५ छठें पुण धम्मचिंताए॥"त्ति षट्कायपरिरक्षणार्थमिति व्यक्तं, 'हणिं हणि न्तिअहनिअहनि प्रतिदिनं सर्वथापीत्यर्थः प्रासुकेन भैक्ष्येण-भिक्षादिसमूहेन वर्तितव्यं-वृत्तिः कार्या, तथा यदपि च औषधादि तदपि सन्निधिकृतं न कल्पत इत्यक्षरघटना, कस्य न कल्पत इत्याह-श्रमणस्यसाधोः सुविहितस्यअपार्श्वस्थादेः, तुर्वाक्यलङ्कारे, कस्मिन् सतीत्याह-रोगातङ्गो-रोगो ज्वरादिः सचासावातङ्कश्चकृच्छ्रजीवितकारी रोगातङ्कः तत्र बहुप्रकारे-विविधे समुत्पन्ने-जाते 'वायाहिकपत्ति वाताधिक्यं 'पित्तसिंभाइरित्तकुविय'त्ति पित्तसिंभयोः- वायुश्लेष्मणोरतिरिक्तकुपितं-अतिरेककोपः पित्तसिम्भातिरिक्तं कुपितंतथेति तथाप्रकार औषधादिविषयो यः सन्निपातो-वातादित्रयसंयोः जातः-सम्पन्नः तथा तत्पदत्रयस्य द्वन्द्वैकत्वं ततस्तत्र च सति, अनेन च रोगातङ्गनिदानमुक्तं, तथा उदयप्राप्ते-उदिते सति, केत्याह-उज्ज्वलंसुखलेशवर्जितं बलं-बलवत् कष्टोपक्रमणीयं विपुलं-विपुलकालवेद्यंत्रितुलं वा-त्रीन्मनःप्रभृतीन् तुलयति-तुलामारोपयति कष्टावस्थीकरोतीति त्रितुलं कर्कशं-कर्कशद्रव्यमिवानिषटं प्रगाढंप्रकर्षवत् यद्दुःखं असुखं तत्तथा तत्र, किंभूते इत्याह-अशुभः असुखो वाकटुकद्रव्यमिवानिष्टः परुषुः-परुषस्पर्शद्रव्यमिवानिष्ट एवचण्डो-दारुणः फलविपाकः-कार्यनिष्ठादुःखानुबन्ध-लक्षणो यस्य तत्तथा तत्र, महद्गयं यस्मात्तन्महाभयं तत्र जीवितान्तकरणे-सर्वशरीरपरितापनकरे न कल्पते-नयुज्यते, ताशेऽपि-रोगातङ्कादौ याशोन सोढुंश्कयते 'तहत्तितेनप्रकारेण पुष्टालम्बनं विना, सालम्बनस्य पुनः कल्पत एव, यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192