Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 163
________________ ५१६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ जातो यत्र तत्पर्यवजातं कूरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्बादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौद्देशिकभेदः कृताभिधानं उक्तः, प्रकीर्ण - विक्षिप्तं विच्छर्दितं परिशाटीत्यर्थः, अनेन च छर्द्दिताभिधान एषणादोष उक्तः, 'पाउकरण' त्ति प्रादुः क्रियते-अन्धकारापवरकादेः साध्वर्थं बहिः करणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च - "नीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणं तु" 'पामच्चं ' ति अपमित्यकं उद्यतकं - उच्छिन्नमित्यर्थः आहच - "पामिचं जं साहूणट्ठा ओछिंदिउं दियावेति "त्ति - एषां च समाहारद्वन्द्वः, 'मीसक' त्ति मिश्रजातं साध्वर्थं गृहस्यार्थं चादित उपस्कृतं, आह च- 'पढमं चिय गिहिसंजयमीसोवक्खडाइ मीसं तु" "कीयगड' त्ति क्रीतेन-क्रयेण कृतं - साधुदानाय कृतं क्रीतकृतं, आह च- 'दव्वाइएहिं साहूणट्टाए कीयं तु' 'पाहुडं व 'त्ति प्राभृतं प्राभृतिकेत्यर्थः, तल्लक्षणं चेदम्- "सुहुमेयरमुस्सक्कणमवसक्कणमोय पाहुडिया” ततः पदत्रयस्य कर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षया विकल्पार्थः, दानामर्थो यस्य तद्दानार्थं, पुण्यार्थ प्रकृतंसाधितं पुण्यप्रकृतं पदद्वयस्य द्वन्द्वः, तथा श्रमणाः पञ्चविधाः 'निग्गंथसक्कतावस गेरुय आजीव पंचहा समणा' वनीपकाश्च - तर्कुकास्त एवार्थः - प्रयोजनं यस्य तत्तथा तद्मद्भावस्तत्ता तया, वा विकल्पार्थः कृतं - निष्पादितं, इह कश्चिद्दाता दानमेवालंबते दातव्यं मयेति अन्यस्त पुण्यं पुण्यं मम भूयादित्येवं अन्यस्तु श्रमणान् अन्यस्तु वनीपकानिति चत्वारोऽप्यौद्देशिकस्य भेदा एते उक्ता इति, "पच्छाकम्म" ति पश्चात् - दानानन्तरं कर्म्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेकम्मं 'ति पुरो - दानात् पूर्वं कर्म्म - हस्तधावनादि यत्र तत्पुरः कर्म 'निइयं 'ति नैत्यिकं सराव्दिकमवस्थितं मनुष्यपोषादिप्रमाणं 'मक्खियं'ति उदकादिना संसृष्टं, यदाह "मक्खियमुदकाइणा उ जं जुत्तं" अयमेषणादोष उक्तंः, 'अतिरित्तं'ति, ॥१॥ “बत्तीसं किर कवला आहारो कुच्छिपूरओ भणितो । परिसरस महिलियाए अट्ठावीसं भवे कवला ||” एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च मण्डलीदोष उक्तः, 'मोहरं चेव' त्ति मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मौखरं अयमुत्पादनादोष उक्तः, 'सयग्गह 'त्ति स्वयं आत्मना दत्तं गृह्यते यत्तत्स्वयंग्राहं, अयमपरिणताभिधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्त्वादिति, 'आहडं' ति स्वग्रामादेः साध्वर्थमाहृतं - आनीतं, आहच - " सग्गामपरग्गामा जमाणियं आहडं तु तं होइ ।” 'मट्टिओलित्तं 'ति, उपलक्षणत्वान्मृत्तिकाग्रहणस्य मृत्तिकाजतुगोमयादिना उपलिप्तं सत् यदुद्भिदय ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च - "छगणाइणीवलितं उब्भिंदिय जं तमुब्भिण्णं" 'अच्छेण्णं चेव'त्ति आच्छेद्यं यदाच्छिद्य भृत्यादिभ्यः स्वामी ददाति, आह च“अच्छेज्जं अच्छिंदिय जं सामिय भिचमाईणं" अनिसृष्टं - बहुसाधारणं सत् यदेक एव ददाति “अनिसिट्टं सामण्णं गोट्ठियभत्ताइ ददउ एगस्स” एतेषूद्दिष्टादिषु प्राय उद्गमदोषा उक्ताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192