Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५१४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
परिकररूपा यस्य स तथा,
'निग्गयतेलोक्कत्ति प्राकृतत्वात् त्रैलोक्यनिर्गतः त्रैलोक्यगतंभुवनत्रयव्यापकं अत एव विपुलं-विस्तीरक्णं यद् यशः-ख्यातिस्तदेव निचितो-निबिडः पीनः-स्थूलः पीवरो-महान् सुजातः-सुनिष्पन्नः स्कन्धो यस्य स तथा,
पञ्चमहाव्रतान्येव विशाला-विस्तीर्णाः शालाः-शाखायस्यसतथा, भावनैव अनित्यत्वादिचिन्ता त्वक्-वल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादिशुभयोगाश्च सद्व्यापाराः ज्ञानंच-बोधविशेषः तान्येव पल्लववरा-अङ्कुराः प्रवालप्रवरप्ररोहाः तान्धारयति यः सतथा, ततः पदद्वयस्य कर्मधारयः, बहवोये गुणा-उत्तरगुणाः शुभकलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्ति;समाधानमेव वासुगन्धः-सद्गन्धोयत्रसतथा, 'अणण्हवफलो त्तिअनावः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा,
पुनश्च-पुनरपिमोक्षएववरबीजसारो-भिञ्जालक्षणः सारोयस्य सतथा, मन्दरगिरिशिखरेमेरुधराधरशिखरे या चूलिका-चूडासा तथा साइव अस्य-प्रत्यक्षस्य मोक्षवरे-वरमोक्षे सकलकर्मक्षयलक्षणे गन्तव्ये मुक्तिरेव-निर्वलोभतैव मार्गः पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः-शेखरकल्पः, कोऽसावित्याह-संवर एव-आश्रवनिरोधएव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्तस्वरूपत्वे सत्यपि प्रकृताध्ययनमनुसरत्राहचरम-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषयन्नाह-यत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, कि तदित्याह
ग्रामाकरनकरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमगतं वा ग्रामादिव्याख्यानं पूर्ववत्वाशब्दो उत्तरपदापेक्षया विकल्पार्थः कञ्चिदिति-अनिर्दिष्टस्वरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-स्वलपं मूल्यतो बहु वा-मूल्यत एव अणुं वा-स्तोकं प्रमाणतः स्थूलं वा-महत्प्रमाणत एव सतथा, 'तसथावरकायदव्बजायं तित्रसकायस्पं शङ्खादिसचेतनमचेतनवाएवंस्थावरकायरूपंरत्नादि द्रव्यजातं-वस्तुसामान्यं मनसाऽपि-चेतसाऽपि आस्तां कायेन परिग्रहीतुं-स्वीकर्तु, एतदेव विशेषेणाह-नहिरण्यसुवर्णक्षेत्रवास्तुकल्पतेपरिग्रहीतुमिति प्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः __'न यानयुग्यशयनासनानि' यानं-रथादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रिसद्धो वा जपानविशेषः न छत्रकं-आतपवारणं न कुण्डिका-कमण्डलू: नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानि पेहुणं-मयूरपिछंव्यञ्जन-वंशादिमयंतालवृन्तकं--व्यअनविशेष एवन चापिनापि च अयो-लोहंत्रपुकं-वंगंतानं शुभ्रं (ल्चं) सीसकं-नागंकास्यं-त्रपुकताम्रसंयोगजंरजतं-रूप्यं जातरूपं-सुवर्णं मणयः-चन्द्रकान्ताद्याः मुक्ताधारपुटकं-शुक्तिसम्पुटं शङ्खः-कम्बुः दन्तमणिः-प्रधानदन्तोहस्तिप्रभृतीनांदन्तजो वा मणिः श्रृङ्ग-विषाणं शैलः-पाषाणः पाठान्तरेण 'लेरा;'त्ति तत्र श्लेषः-श्लेषद्रव्यं काचवरः-प्रधानकाचः चेलं-वस्त्रं चर्म-अजिनमेतेषां द्वन्द्वः कर सत्कानि यानि पात्राणि-भाजनानि तानि तथा महार्हाणि-महार्धानि बहुमूल्यानीत्यर्थः
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192