Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-२, अध्ययनं - ५,
५२३
जम्पानविशेषः पार्श्वतो वेदिका उपरि च कूटाकृतिः रथः- प्रतीतः शकटं- गन्त्री यानं - गन्त्रीविशेष एव युग्यं - वाहनं गोल्लदेशप्रसिद्धं वा जंपानं स्यन्दनो-रथविशेषः नरनारीगणश्चेति द्वन्द्वस्ततः तांच,
किम्भूतान् ? - सौम्याः -- अरौद्राः प्रतिरूपाः - द्रारं २ प्रति रूपं येषां ते दर्शनीयाश्च - मनोज्ञा ये ते तथा तानू, अलङ्कृतविभूषितान् क्रमेण मुकुटादिभिश्च वस्त्रादिभिश्च पूर्वकृतस्य तपसः प्रभावेन यत्सौभग्यं-जनादेयत्वं तेन सम्प्रयुक्ता ये ते तथा तान्, तथा नटनर्त्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलङ्गमङ्घतूणइल्लतुम्बवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते यानि तानि तथा, तानि च कानीत्याह-बहूनि सुकरणानि - शोभनकर्माणि दष्टवेति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु रूपेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यं न रक्तव्यं यावत्करणात् न गर्द्धितव्यमित्यादीनि षट् पदानि ध्श्यानि, न स्मृतिं वा मतिं वा तत्र तेषु रूपेषु कुर्यात्, पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि अमनोज्ञपापकानि 'किंते' त्ति तद्यथा
-
'गण्डी' त्यादि वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्यास्तीति गण्डी - गण्डमालावान् कुठं- अष्टादशभेदमस्यास्तीति कुष्ठी, तत्र सपत महाकुष्ठानि तद्यथा - " अरुणो १ दुंबर २ रिश्यजिह्व ३ करकपाल ४ काकन ५ पौंडरीक ६ दद्रु ७ कुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्राणि, तद्यथा-स्थूलमारुक्क १ महाकुष्ठै २ ककुष्ठा ३ चर्मदल ४ विसर्प ५ परिसर्प ६ विचर्चिका ७ सिध्मः ८ किटिभः ९ पामा १० शतारुका ११ संज्ञानि एकादशेति सर्वाण्यपि अष्टादश, सामान्यतः कुष्ठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया भेदभाग्भवतीति, 'कुणि 'त्ति गर्भाधानदोषात् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, कुंट इत्यर्थः, 'उदर' त्ति जलोदरी तत्राष्टावुदराणि तेषां मध्ये जलोदरमसाध्यमिति तदिह निर्द्दिष्टं, शेषाणि त्वचिरोत्थानि साध्यानि, तानि चाटावेवं
॥ १ ॥ “पृथक् ३ समस्तैरपि चानिलाद्यैः ४, प्लीहोदरं ५ बद्धगुदं ६ तथैव । आगन्तुकं ७ सप्तममष्टमं तु, जलोदरं ८ चेति भवन्ति तानि ।।"
- 'कच्छुल्ल'त्ति कण्डूतिमान् 'पइल्ल' त्ति पदं श्लीपदं पाददौ काठिन्यं यदुक्तं॥ १ ॥ " प्रकुपिता वातपित्तश्लेष्माणोऽधः प्रपन्ना वंक्ष्णोरुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति यत्तत् श्लीपदानि विशेषतः ।। ॥२॥ पादयोर्हस्तयोर्वापि जायते श्लीपदं नृणाम् ।
कर्णोष्ठनासास्वपि च क्वचिदिच्छन्ति तद्विदः ॥”
.
कुब्जः - पृष्ठादो कुब्जयोगात् पङ्गुलः - पङ्गुः चङ्क्रमणासमर्थः वामनः खर्वशरीरः एते च मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुब्जवाम नकादयो भवन्तीति, उक्तं च"गर्भे वातप्रकोपेण, दोहदे वाऽपमानिते ।
119 11
भवेत् कुब्जः कुणिः पङ्गुर्मूको मन्मन एव वा ।।"
'अंधिल्लग' त्ति अन्ध एवान्धिल्लको - जात्यन्धः, 'एगचक्खु' त्ति काणाः, एतच्च दोषद्वयं गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वं करोति तदेकाक्षिगतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192